सौमित्रिरावणियुद्धम्

युद्धकाण्डः / सौमित्रिरावणियुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सौमित्रिरावणियुद्धम् नाम अष्टाशीतितमः सर्गः ॥६-८८॥
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः । अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च ॥६-८८-१॥
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥६-८८-२॥
महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम् । धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान् ॥६-८८-३॥
तं ददर्श महेष्वासो रथस्थः समलंकृतः । अलंकृतममित्रघ्नो रावणस्यात्मजो बली ॥६-८८-४॥
हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम् । उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम् ॥६-८८-५॥
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् । अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ॥६-८८-६॥
मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे । अद्य वो मामका बाणा महाकार्मुकनिःसृताः । विधमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥६-८८-७॥
तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः । अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥६-८८-८॥
सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे । जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥६-८८-९॥
रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः । शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ ॥६-८८-१०॥
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम् । आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः ॥६-८८-११॥
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा । अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥६-८८-१२॥
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया । कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥६-८८-१३॥
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् । वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते ॥६-८८-१४॥
अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा । तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥६-८८-१५॥
यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस । दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥६-८८-१६॥
एवमुक्तो धनुर्भीमं परामृश्य महाबलः । ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः ॥६-८८-१७॥
तेन सृष्टा महावेगाः शराः सर्पविषोपमाः । सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥६-८८-१८॥
शरैरतिमहावेगैर्वेगवान् रावणात्मजः । सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम् ॥६-८८-१९॥
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः । शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः ॥६-८८-२०॥
इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च । विनद्य सुमहानादमिदं वचनमब्रवीत् ॥६-८८-२१॥
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः । आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः ॥६-८८-२२॥
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण । गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥६-८८-२३॥
क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः । भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया ॥६-८८-२४॥
विस्रस्तकवचं भूमौ व्यपविद्धशरासनम् । हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥६-८८-२५॥
इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम् । हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह ॥६-८८-२६॥
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस । अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा ॥६-८८-२७॥
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस । कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम् ॥६-८८-२८॥
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् । अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन ॥६-८८-२९॥
इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान् । विजघान महावेगाल्लक्ष्मणो राक्षसोरसि ॥६-८८-३०॥
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः । नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ॥६-८८-३१॥
स शरैराहतस्तेन सरोषो रावणात्मजः । सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥६-८८-३२॥
स बभूव महाभीमो नरराक्षससिंहयोः । विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥६-८८-३३॥
विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ । उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥६-८८-३४॥
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ । बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ ॥६-८८-३५॥
युयुधाते महात्मानौ तदा केसरिणाविव । बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ । नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम् ॥६-८८-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सौमित्रिरावणियुद्धम् नाम अष्टाशीतितमः सर्गः ॥६-८८॥