विभीषणरावणिपरस्परनिन्दा

युद्धकाण्डः / विभीषणरावणिपरस्परनिन्दा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणरावणिपरस्परनिन्दा नाम सप्ताशीतितमः सर्गः ॥६-८७॥
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिं तमादाय त्वरमाणो जगाम सः ॥६-८७-१॥
अविदूरं ततो गत्वा प्रविश्य तु महद् वनम् । अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः ॥६-८७-२॥
नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥६-८७-३॥
इहोपहारं भूतानां बलवान् रावणात्मजः । उपहृत्य ततः पश्चात् संग्राममभिवर्तते ॥६-८७-४॥
अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ॥६-८७-५॥
तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैर्दीप्तैः सरथं साश्वसारथिम् ॥६-८७-६॥
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ॥६-८७-७॥
स रथेनाग्निवर्णेन बलवान् रावणात्मजः । इन्द्रजित् कवची खड्गी सध्वजः प्रत्यदृश्यत ॥६-८७-८॥
तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग् युद्धं प्रयच्छ मे ॥६-८७-९॥
एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥६-८७-१०॥
इह त्वं जातसंवृद्धः साक्षात् भ्राता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥६-८७-११॥
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते । प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ॥६-८७-१२॥
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥६-८७-१३॥
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्व च स्वजनसंवासः क्व च नीच पराश्रयः ॥६-८७-१४॥
गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा । निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ॥६-८७-१५॥
यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं याते पश्चात् तैरेव हन्यते ॥६-८७-१६॥
निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं पौरुषं रावणानुज ॥६-८७-१७॥
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः । अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥६-८७-१८॥
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् । कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् । गुणो यः प्रथमो नॄणां तन्मे शीलमराक्षसम् ॥६-८७-१९॥
न रमे दारुणेनाहं न चाधर्मेण वै रमे । भ्रात्रा विषमशीलोऽपि कथं भ्राता निरस्यते ॥६-८७-२०॥
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् । त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥६-८७-२१॥
परस्वहरणे युक्तं परदाराभिमर्शकम् । त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा ॥६-८७-२२॥
परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥६-८७-२३॥
महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः । अभिमानश्च रोषश्च वैरित्वं प्रतिकूलता ॥६-८७-२४॥
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः । गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः ॥६-८७-२५॥
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव । नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥६-८७-२६॥
अतिमानश्च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद् यदिच्छसि ॥६-८७-२७॥
अद्येह व्यसनं प्राप्तं यन्मां परुषमुक्तवान् । प्रवेष्टुं न त्वया शक्यं न्यग्रोधं राक्षसाधम ॥६-८७-२८॥
धर्षयित्वा च काकुत्स्थं न शक्यं जीवितुं त्वया । युध्यस्व नरदेवेन लक्ष्मणेन रणे सह । हतस्त्वं देवताकार्यं करिष्यसि यमक्षयम् ॥६-८७-२९॥
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् । न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ॥६-८७-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणरावणिपरस्परनिन्दा नाम सप्ताशीतितमः सर्गः ॥६-८७॥