रावणिबलकदनम्
युद्धकाण्डः / रावणिबलकदनम्
Script
Translation
Previous
निकुम्भिलाभियानम्
Next
विभीषणरावणिपरस्परनिन्दा
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणिबलकदनम् नाम षडशीतितमः सर्गः ॥६-८६॥
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।
परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥६-८६-१॥
यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते ।
एतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः ॥६-८६-२॥
तस्यानीकस्य महतो भेदने यत लक्ष्मण ।
राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥६-८६-३॥
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् ।
अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते ॥६-८६-४॥
जहि वीर दुरात्मानं मायापरमधार्मिकम् ।
रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥६-८६-५॥
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।
ववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥६-८६-६॥
ऋक्षाः शाखामृगाश्चैव द्रुमप्रवरयोधिनः ।
अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥६-८६-७॥
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।
अभ्यवर्तन्त समरे कपिसैन्यजिघांसवः ॥६-८६-८॥
स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।
शब्देन महता लङ्कां नादयन् वै समन्ततः ॥६-८६-९॥
शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः ।
उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥६-८६-१०॥
राक्षसा वानरेन्द्रेषु विकृताननबाहवः ।
निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥६-८६-११॥
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।
अभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥६-८६-१२॥
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।
रक्षसां युध्यमानानां महद्भयमजायत ॥६-८६-१३॥
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।
उदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥६-८६-१४॥
वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।
आरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥६-८६-१५॥
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ।
रक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥६-८६-१६॥
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम् ।
रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥६-८६-१७॥
तस्मिंस्तु काले हनुमानरुजत् स दुरासदम् ।
धरणीधरसंकाशो महावृक्षमरिंदमः ॥६-८६-१८॥
स राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन् ।
चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥६-८६-१९॥
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।
राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥६-८६-२०॥
शितशूलधराः शूलैरसिभिश्चासिपाणयः ।
शक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः ॥६-८६-२१॥
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ।
शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥६-८६-२२॥
घोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः ।
मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः ॥६-८६-२३॥
अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ।
तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥६-८६-२४॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।
सूदमानमसंत्रस्तममित्रान् पवनात्मजम् ॥६-८६-२५॥
स सारथिमुवाचेदं याहि यत्रैष वानरः ।
क्षयमेव हि नः कुर्याद् राक्षसानामुपेक्षितः ॥६-८६-२६॥
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।
वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥६-८६-२७॥
सोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान् ।
अभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः ॥६-८६-२८॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।
रोषेण महताविष्टो वाक्यं चेदमुवाच ह ॥६-८६-२९॥
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ।
वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि ॥६-८६-३०॥
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे ।
वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥६-८६-३१॥
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥६-८६-३२॥
यः स वासवनिर्जेता रावणस्यात्मसम्भवः ।
स एष रथमास्थाय हनूमन्तं जिघांसति ॥६-८६-३३॥
तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः ।
जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥६-८६-३४॥
इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।
ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥६-८६-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणिबलकदनम् नाम षडशीतितमः सर्गः ॥६-८६॥
Previous
निकुम्भिलाभियानम्
Next
विभीषणरावणिपरस्परनिन्दा