निकुम्भिलाभियानम्

युद्धकाण्डः / निकुम्भिलाभियानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे निकुम्भिलाभियानम् नाम पञ्चाशीतितमः सर्गः ॥६-८५॥
तस्य तद् वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥६-८५-१॥
ततो धैर्यमवष्टभ्य रामः परपुरंजयः । विभीषणमुपासीनमुवाच कपिसंनिधौ ॥६-८५-२॥
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥६-८५-३॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत् तत् पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥६-८५-४॥
यथाऽऽज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत् तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥६-८५-५॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥६-८५-६॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो । त्वय्यकारणसंतप्ते संतप्तहृदया वयम् ॥६-८५-७॥
त्यज राजन्निमं शोकं मिथ्या संतापमागतम् । यदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी ॥६-८५-८॥
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ॥६-८५-९॥
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥६-८५-१०॥
निकुम्भिलायां सम्प्राप्तं हन्तुं रावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥६-८५-११॥
शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः । तेन वीरेण तपसा वरदानात् स्वयंभुवः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥६-८५-१२॥
स एष किल सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत् कृतं कर्म हतान् सर्वांश्च विद्धि नः ॥६-८५-१३॥
निकुम्भिलामसम्प्राप्तमकृताग्निं च यो रिपुः । त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः ॥६-८५-१४॥
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । इत्येवं विहितो राजन् वधस्तस्यैष धीमतः ॥६-८५-१५॥
वधायेन्द्रजितो राम संदिशस्व महाबलम् । हते तस्मिन् हतं विद्धि रावणं ससुहृद्गणम् ॥६-८५-१६॥
विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥६-८५-१७॥
स हि ब्रह्मास्त्रवित् प्राज्ञो महामायो महाबलः । करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि ॥६-८५-१८॥
तस्यान्तरिक्षे चरतः सरथस्य महायशः । न गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसम्प्लवे ॥६-८५-१९॥
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसम्पन्नमिदं वचनमब्रवीत् ॥६-८५-२०॥
यद् वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥६-८५-२१॥
जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः । जहि तं राक्षससुतं मायाबलसमन्वितम् ॥६-८५-२२॥
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । अभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति ॥६-८५-२३॥
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकश्रेष्ठमन्यद् भीमपराक्रमः ॥६-८५-२४॥
संनद्धः कवची खड्गी सशरी वामचापभृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥६-८५-२५॥
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥६-८५-२६॥
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥६-८५-२७॥
एवमुक्त्वा तु वचनं द्युतिमान् भ्रातुरग्रतः । स रावणिवधाकांक्षी लक्ष्मणस्त्वरितं ययौ ॥६-८५-२८॥
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥६-८५-२९॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥६-८५-३०॥
वानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः । विभीषणश्च सामात्यो लक्ष्मणं त्वरितं ययौ ॥६-८५-३१॥
महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥६-८५-३२॥
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद् व्यूहमाश्रितम् ॥६-८५-३३॥
स सम्प्राप्य धनुष्पाणिर्मायायोगमरिंदमः । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥६-८५-३४॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथानिलसुतेन च ॥६-८५-३५॥
विविधममलशस्त्रभास्वरं तद् ध्वजगहनं गहनं महारथैश्च । प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ॥६-८५-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे निकुम्भिलाभियानम् नाम पञ्चाशीतितमः सर्गः ॥६-८५॥