इन्द्रजिन्मायाविवरणम्
युद्धकाण्डः / इन्द्रजिन्मायाविवरणम्
Script
Translation
Previous
रामाश्वासनम्
Next
निकुम्भिलाभियानम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे इन्द्रजिन्मायाविवरणम् नाम चतुरशीतितमः सर्गः ॥६-८४॥
राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले ।
निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः ॥६-८४-१॥
नानाप्रहरणैर्वीरैश्चतुर्भिरभिसंवृतः ।
नीलाञ्जनचयाकारैर्मातंगैरिव यूथपैः ॥६-८४-२॥
सोऽभिगम्य महात्मानं राघवं शोकलालसम् ।
वानरांश्चापि ददृशे बाष्पपर्याकुलेक्षणान् ॥६-८४-३॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ।
ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥६-८४-४॥
व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः ।
अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥६-८४-५॥
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ।
लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ॥६-८४-६॥
हता इन्द्रजिता सीता इति श्रुत्वैव राघवः ।
हनूमद्वचनात् सौम्य ततो मोहमुपाश्रितः ॥६-८४-७॥
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः ।
पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥६-८४-८॥
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता ।
तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥६-८४-९॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।
सीतां प्रति महाबाहो न च घातं करिष्यति ॥६-८४-१०॥
याच्यमानः सुबहुशो मया हितचिकीर्षुणा ।
वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः ॥६-८४-११॥
नैव साम्ना न दानेन न भेदेन कुतो युधा ।
सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥६-८४-१२॥
वानरान् मोहयित्वा तु प्रतियातः स राक्षसः ।
मायामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥६-८४-१३॥
चैत्यं निकुम्भिलामद्य प्राप्य होमं करिष्यति ।
हुतवानुपयातो हि देवैरपि सवासवैः ॥६-८४-१४॥
दुराधर्षो भवत्येष संग्रामे रावणात्मजः ।
तेन मोहयता नूनमेषा माया प्रयोजिता ॥६-८४-१५॥
विघ्नमन्विच्छता तत्र वानराणां पराक्रमे ।
ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ॥६-८४-१६॥
त्यजैनं नरशार्दूल मिथ्या संतापमागतम् ।
सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥६-८४-१७॥
इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः ।
लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥६-८४-१८॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः ।
त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥६-८४-१९॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।
पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥६-८४-२०॥
तत् संदिश महाबाहो लक्ष्मणं शुभलक्षणम् ।
राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥६-८४-२१॥
मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ।
त्वमतिसृज रिपोर्वधाय वज्रं दिविजरिपोर्मथने यथा महेन्द्रः ॥६-८४-२२॥
समाप्तकर्मा हि स राक्षसर्षभो भवत्यदृश्यः समरे सुरासुरैः ।
युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान् ॥६-८४-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे इन्द्रजिन्मायाविवरणम् नाम चतुरशीतितमः सर्गः ॥६-८४॥
Previous
रामाश्वासनम्
Next
निकुम्भिलाभियानम्