रामाश्वासनम्

युद्धकाण्डः / रामाश्वासनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामाश्वासनम् नाम त्र्यशीतितमः सर्गः ॥६-८३॥
राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥६-८३-१॥
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । श्रूयते च यथा भीमः सुमहानायुधस्वनः ॥६-८३-२॥
तद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥६-८३-३॥
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । आगच्छत् पश्चिमं द्वारं हनूमान् यत्र वानरः ॥६-८३-४॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा । वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥६-८३-५॥
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥६-८३-६॥
स तेन सह सैन्येन संनिकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥६-८३-७॥
समरे युध्यमानानामस्माकं प्रेक्षतां च सः । जघान रुदतीं सीतामिन्द्रजिद् रावणात्मजः ॥६-८३-८॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥६-८३-९॥
तस्य तद् वचनं श्रुत्वा राघवः शोकमूर्च्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥६-८३-१०॥
तं भूमौ देवसंकाशं पतितं दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥६-८३-११॥
आसिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमसंहार्यं सहसाग्निमिवोत्थितम् ॥६-८३-१२॥
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥६-८३-१३॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥६-८३-१४॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥६-८३-१५॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥६-८३-१६॥
यद्यधर्मो भवेद् भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात् ॥६-८३-१७॥
तस्य च व्यसनाभावाद् व्यसनं चागते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥६-८३-१८॥
धर्मेणोपलभेद् धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥६-८३-१९॥
न धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः । धर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ॥६-८३-२०॥
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥६-८३-२१॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्महतोऽधर्मः स हतः कं वधिष्यति ॥६-८३-२२॥
अथवा विहितेनायं हन्यते हन्ति चापरम् । विधिः स लिप्यते तेन न स पापेन कर्मणा ॥६-८३-२३॥
अदृष्टप्रतिकारेण अव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्षण ॥६-८३-२४॥
यदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किंचन । त्वया यदीदृशं प्राप्तं तस्मात् तन्नोपपद्यते ॥६-८३-२५॥
अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥६-८३-२६॥
बलस्य यदि चेद् धर्मो गुणभूतः पराक्रमैः । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥६-८३-२७॥
अथ चेत् सत्यवचनं धर्मः किल परंतप । अनृतं त्वय्यकरणे किं न बद्धस्त्वया विना ॥६-८३-२८॥
यदि धर्मो भवेद् भूत अधर्मो वा परंतप । न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥६-८३-२९॥
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद् यथाकामं काकुत्स्थ कुरुते नरः ॥६-८३-३०॥
मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥६-८३-३१॥
अर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥६-८३-३२॥
अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥६-८३-३३॥
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमाचरते कर्तुं तदा दोषः प्रवर्तते ॥६-८३-३४॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥६-८३-३५॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥६-८३-३६॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ॥६-८३-३७॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥६-८३-३८॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥६-८३-३९॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥६-८३-४०॥
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते । रक्षसापहृता भार्या प्राणौः प्रियतरा तव ॥६-८३-४१॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥६-८३-४२॥
उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । किमात्मानं महात्मानमात्मानं नावबुध्यसे ॥६-८३-४३॥
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः । सरथगजहयां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥६-८३-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामाश्वासनम् नाम त्र्यशीतितमः सर्गः ॥६-८३॥