हनूमदादिनिर्वेदः
युद्धकाण्डः / हनूमदादिनिर्वेदः
Script
Translation
Previous
मायासीतावधः
Next
रामाश्वासनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे हनूमदादिनिर्वेदः नाम द्व्यशीतितमः सर्गः ॥६-८२॥
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम् ।
वीक्ष्यमाणा दिशः सर्वा दुद्रुवुर्वानरा भृशम् ॥६-८२-१॥
तानुवाच ततः सर्वान् हनूमान् मारुतात्मजः ।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ॥६-८२-२॥
कस्माद् विषण्णवदना विद्रवध्वं प्लवंगमाः ।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥६-८२-३॥
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥६-८२-४॥
एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता ।
शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥६-८२-५॥
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः ।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥६-८२-६॥
स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः ।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥६-८२-७॥
स राक्षसानां कदनं चकार सुमहाकपिः ।
वृतो वानरसैन्येन कालान्तकयमोपमः ॥६-८२-८॥
स तु शोकेन चाविष्टः कोपेन महता कपिः ।
हनूमान् रावणिरथे महतीं पातयच्छिलाम् ॥६-८२-९॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।
विधेयाश्वसमायुक्तः विदूरमपवाहितः ॥६-८२-१०॥
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् ।
विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥६-८२-११॥
पतितायां शिलायां तु व्यथिता रक्षसां चमूः ।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥६-८२-१२॥
तमभ्यधावन् शतशो नदन्तः काननौकसः ।
ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ॥६-८२-१३॥
क्षिपन्तीन्द्रजितं संख्ये वानरा भीमविक्रमाः ।
वृक्षशैलमहावर्षं विसृजन्तः प्लवंगमाः ॥६-८२-१४॥
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः ।
वानरैस्तैर्महाभीमैर्घोररूपा निशाचराः ॥६-८२-१५॥
वीर्यादभिहता वृक्षैर्व्यचेष्टन्त रणक्षितौ ।
स सैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥६-८२-१६॥
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः ॥६-८२-१७॥
जघान कपिशार्दूलान् सुबहून् दृढविक्रमः ।
शूलैरशनिभिः खड्गैः पट्टिशैः शूलमुद्गरैः ॥६-८२-१८॥
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे ।
सुस्कन्धविटपैः शैलैः शिलाभिश्च महाबलः ॥६-८२-१९॥
हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ।
संनिवार्य परानीकमब्रवीत् तान् वनौकसः ॥६-८२-२०॥
हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम् ।
त्यक्त्वा प्राणान् विचेष्टन्तो रामप्रियचिकीर्षवः ॥६-८२-२१॥
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा ।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ॥६-८२-२२॥
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ।
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् ॥६-८२-२३॥
शनैः शनैरसंत्रस्तः सबलः संन्यवर्तत ।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ॥६-८२-२४॥
स होतुकामो दुष्टात्मा गतश्चैत्यं निकुम्भिलाम् ।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥६-८२-२५॥
यज्ञभूम्यां ततो गत्वा पावकस्तेन रक्षसा ।
हूयमानः प्रजज्वाल होमशोणितभुक् तदा ॥६-८२-२६॥
सार्चिःपिनद्धो ददृशे होमशोणिततर्पितः ।
संध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ॥६-८२-२७॥
अथेन्द्रजिद् राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित् ।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥६-८२-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे हनूमदादिनिर्वेदः नाम द्व्यशीतितमः सर्गः ॥६-८२॥
Previous
मायासीतावधः
Next
रामाश्वासनम्