मायासीतावधः

युद्धकाण्डः / मायासीतावधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मायासीतावधः नाम एकाशीतितमः सर्गः ॥६-८१॥
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । स निवृत्याहवात् तस्मात् प्रविवेश पुरं ततः ॥६-८१-१॥
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगामाथ रावणिः ॥६-८१-२॥
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित् सुमहावीर्यः पौलस्त्यो देवकण्टकः ॥६-८१-३॥
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युुद्यतौ वीरौ मायां प्रादुष्करोत् तदा ॥६-८१-४॥
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा । बलेन महतावृत्य तस्या वधमरोचयत् ॥६-८१-५॥
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥६-८१-६॥
तं दृष्ट्वा त्वभिनिर्यान्तं सर्वे ते काननौकसः । उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ॥६-८१-७॥
हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥६-८१-८॥
स ददर्श हतानन्दां सीतामिन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् ॥६-८१-९॥
परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥६-८१-१०॥
तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा ॥६-८१-११॥
अब्रवीत् तां तु शोकार्तां निरानन्दां तपस्विनीम् । दृष्ट्वा रथस्थितां दीनां राक्षसेन्द्रसुतश्रिताम् ॥६-८१-१२॥
किं समर्थितमस्येति चिन्तयन् स महाकपिः । सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥६-८१-१३॥
तद् वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः । कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतामकर्षयत् ॥६-८१-१४॥
तां स्त्रियं पश्यतां तेषां ताडयामास राक्षसः । क्रोशन्तीं राम रामेति मायया योजितां रथे ॥६-८१-१५॥
गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः । दुःखजं वारि नेत्राभ्यामुत्सृजन् मारुतात्मजः ॥६-८१-१६॥
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् । अब्रवीत् परुषं वाक्यं क्रोधाद् रक्षोधिपात्मजम् ॥६-८१-१७॥
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः । ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥६-८१-१८॥
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम । अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण ॥६-८१-१९॥
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली । किं तवैषापराद्धा हि यदेनां हंसि निर्दय ॥६-८१-२०॥
सीतां हत्वा तु न चिरं जीविष्यसि कथंचन । वधार्ह कर्मणा तेन मम हस्तगतो ह्यसि ॥६-८१-२१॥
ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः । इह जीवितमुत्सृज्य प्रेत्य तान् प्रति लप्स्यसे ॥६-८१-२२॥
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः । अभ्यधावत् सुसंक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥६-८१-२३॥
आपतन्तं महावीर्यं तदनीकं वनौकसाम् । रक्षसां भीमकोपानामनीकेन न्यवारयत् ॥६-८१-२४॥
स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् । हनूमन्तं हरिश्रेष्ठमिन्द्रजित् प्रत्युवाच ह ॥६-८१-२५॥
सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः । तां वधिष्यामि वैदेहीमद्यैव तव पश्यतः ॥६-८१-२६॥
इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर । सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् ॥६-८१-२७॥
न हन्तव्याः स्त्रियश्चेति यद् ब्रवीषि प्लवंगम । पीडाकरममित्राणां यच्च कर्तव्यमेव तत् ॥६-८१-२८॥
तमेवमुक्त्वा रुदतीं सीतां मायामयीं च ताम् । शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् ॥६-८१-२९॥
यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी । सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना ॥६-८१-३०॥
तामिन्द्रजित् स्त्रियं हत्वा हनूमन्तमुवाच ह । मया रामस्य पश्येमां प्रियां शस्त्रनिषूदिताम् । एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ॥६-८१-३१॥
ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम् । हृष्टः स रथमास्थाय ननाद च महास्वनम् ॥६-८१-३२॥
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥६-८१-३३॥
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः ॥६-८१-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मायासीतावधः नाम एकाशीतितमः सर्गः ॥६-८१॥