प्रहस्तादिवचनम्
युद्धकाण्डः / प्रहस्तादिवचनम्
Script
Translation
Previous
सचिवोक्तिः
Next
विभीषणसमालोचनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे प्रहस्तादिवचनम् नाम अष्टमः सर्गः ॥६-८॥
ततो नीलाम्बुदप्रख्यः प्रहस्तो नाम राक्षसः ।
अब्रवीत् प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा ॥६-८-१॥
देवदानवगन्धर्वाः पिशाचपतगोरगाः ।
सर्वे धर्षयितुं शक्याः किं पुनर्मानवौ रणे ॥६-८-२॥
सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता ।
नहि मे जीवतो गच्छेज्जीवन् स वनगोचरः ॥६-८-३॥
सर्वां सागरपर्यन्तां सशैलवनकाननाम् ।
करोम्यवानरां भूमिमाज्ञापयतु मां भवान् ॥६-८-४॥
रक्षां चैव विधास्यामि वानराद् रजनीचर ।
नागमिष्यति ते दुःखं किंचिदात्मापराधजम् ॥६-८-५॥
अब्रवीत् तु सुसंक्रुद्धो दुर्मुखो नाम राक्षसः ।
इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम् ॥६-८-६॥
अयं परिभवो भूयः पुरस्यान्तःपुरस्य च ।
श्रीमतो राक्षसेन्द्रस्य वानरेण प्रधर्षणम् ॥६-८-७॥
अस्मिन् मुहूर्ते गत्वैको निवर्तिष्यामि वानरान् ।
प्रविष्टान् सागरं भीममम्बरं वा रसातलम् ॥६-८-८॥
ततोऽब्रवीत् सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः ।
प्रगृह्य परिघं घोरं मांसशोणितरूषितम् ॥६-८-९॥
किं नो हनूमता कार्यं कृपणेन तपस्विना ।
रामे तिष्ठति दुर्धर्षे सुग्रीवेऽपि सलक्ष्मणे ॥६-८-१०॥
अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम् ।
आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम् ॥६-८-११॥
इदं ममापरं वाक्यं शृणु राजन् यदिच्छसि ।
उपायकुशलो ह्येव जयेच्छत्रूनतन्द्रितः ॥६-८-१२॥
कामरूपधराः शूराः सुभीमा भीमदर्शनाः ।
राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥
काकुत्स्थमुपसंगम्य बिभ्रतो मानुषं वपुः ।
सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥
प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा ।
स हि सेनां समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥
ततो वयमितस्तूर्णं शूलशक्तिगदाधराः ।
चापबाणासिहस्ताश्च त्वरितास्तत्र यामहे ॥६-८-१६॥
आकाशे गणशः स्थित्वा हत्वा तां हरिवाहिनीम् ।
अश्मशस्त्रमहावृष्ट्या प्रापयाम यमक्षयम् ॥६-८-१७॥
एवं चेदुपसर्पेतामनयं रामलक्ष्मणौ ।
अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥
कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान् ।
अब्रवीत् परमक्रुद्धो रावणं लोकरावणम् ॥६-८-१९॥
सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः ।
अहमेको हनिष्यामि राघवं सहलक्ष्मणम् ॥६-८-२०॥
सुग्रीवं सहनूमन्तं सर्वांश्चैवात्र वानरान् ।
ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥
क्रुद्धः परिलिहन् सृक्कां जिह्वया वाक्यमब्रवीत् ।
स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ॥६-८-२२॥
एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥
अहमेको वधिष्यामि सुग्रीवं सहलक्ष्मणम् ।
साङ्गदं च हनूमन्तं सर्वांश्चैवात्र वानरान् ॥६-८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रहस्तादिवचनम् नाम अष्टमः सर्गः ॥६-८॥
Previous
सचिवोक्तिः
Next
विभीषणसमालोचनम्