सचिवोक्तिः

युद्धकाण्डः / सचिवोक्तिः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सचिवोक्तिः नाम सप्तमः सर्गः ॥६-७॥
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ॥६-७-१॥
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम् ॥६-७-२॥
सुमहन्नो बलं कस्माद् विषादं भजते भवान् । त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि ॥६-७-३॥
कैलासशिखरावासी यक्षैर्बहुभिरावृतः । सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ॥६-७-४॥
स महेश्वरसख्येन श्लाघमानस्त्वया विभो । निर्जितः समरे रोषाल्लोकपालो महाबलः ॥६-७-५॥
विनिपात्य च यक्षौघान् विक्षोभ्य विनिगृह्य च । त्वया कैलासशिखराद् विमानमिदमाहृतम् ॥६-७-६॥
मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता । दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ॥६-७-७॥
दानवेन्द्रो महाबाहो वीर्योत्सिक्तो दुरासदः । विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ॥६-७-८॥
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् । वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ॥६-७-९॥
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः । त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ॥६-७-१०॥
स्वबलं समुपाश्रित्य नीता वशमरिंदम । मायाश्चाधिगतास्तत्र बह्व्यो वै राक्षसाधिप ॥६-७-११॥
शूराश्च बलवन्तश्च वरुणस्य सुता रणे । निर्जितास्ते महाभाग चतुर्विधबलानुगाः ॥६-७-१२॥
मृत्युदण्डमहाग्राहं शाल्मलीद्रुममण्डितम् । कालपाशमहावीचिं यमकिंकरपन्नगम् ॥६-७-१३॥
महाज्वरेण दुर्धर्षं यमलोकमहार्णवम् । अवगाह्य त्वया राजन् यमस्य बलसागरम् ॥६-७-१४॥
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकस्तत्र सुतोषिताः ॥६-७-१५॥
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः । आसीद् वसुमती पूर्णा महद्भिरिव पादपैः ॥६-७-१६॥
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे । प्रसह्य ते त्वया राजन् हताः समरदुर्जयाः ॥६-७-१७॥
तिष्ठ वा किं महाराज श्रमेण तव वानरान् । अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति ॥६-७-१८॥
अनेन च महाराज माहेश्वरमनुत्तमम् । इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् । गजकच्छपसम्बाधमश्वमण्डूकसंकुलम् ॥६-७-२०॥
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् । रथाश्वगजतोयौघं पदातिपुलिनं महत् ॥६-७-२१॥
अनेन हि समासाद्य देवानां बलसागरम् । गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः ॥६-७-२२॥
पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा । गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् । यावद् वानरसेनां तां सरामां नयति क्षयम् ॥६-७-२४॥
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् । हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ॥६-७-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सचिवोक्तिः नाम सप्तमः सर्गः ॥६-७॥