विभीषणसमालोचनम्
युद्धकाण्डः / विभीषणसमालोचनम्
Script
Translation
Previous
प्रहस्तादिवचनम्
Next
विभीषणपथ्योपदेशः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे विभीषणसमालोचनम् नाम नवमः सर्गः ॥६-९॥
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः ।
सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ ॥६-९-१॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
इन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥६-९-२॥
प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः ।
धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥६-९-३॥
परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान् ।
चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥६-९-४॥
प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः ।
अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥
अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् ।
कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥६-९-६॥
तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः ।
अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥६-९-७॥
अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।
तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥६-९-८॥
प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।
विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥
अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् ।
जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥६-९-१०॥
समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् ।
गतिं हनूमतो लोके को विद्यात् तर्कयेत वा ॥६-९-११॥
बलान्यपरिमेयानि वीर्याणि च निशाचराः ।
परेषां सहसावज्ञा न कर्तव्या कथंचन ॥६-९-१२॥
किं च राक्षसराजस्य रामेणापकृतं पुरा ।
आजहार जनस्थानाद् यस्य भार्यां यशस्विनः ॥६-९-१३॥
खरो यद्यतिवृत्तस्तु स रामेण हतो रणे ।
अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥६-९-१४॥
एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् ।
आहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥६-९-१५॥
न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना ।
वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥६-९-१६॥
यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् ।
पुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥६-९-१७॥
यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी ।
नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् ॥६-९-१८॥
विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः ।
रामस्य दयिता पत्नी न स्वयं यदि दीयते ॥६-९-१९॥
प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम ।
हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥६-९-२०॥
पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः ।
सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली ॥६-९-२१॥
त्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् ।
प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥६-९-२२॥
विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः ।
विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥६-९-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विभीषणसमालोचनम् नाम नवमः सर्गः ॥६-९॥
Previous
प्रहस्तादिवचनम्
Next
विभीषणपथ्योपदेशः