मकराक्षाभिषेणनम्

युद्धकाण्डः / मकराक्षाभिषेणनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मकराक्षाभिषेणनम् नाम अष्टसप्ततितमः सर्गः ॥६-७८॥
निकुम्भं निहतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥६-७८-१॥
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥६-७८-२॥
गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ ॥६-७८-३॥
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरम् ॥६-७८-४॥
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद् रावणस्याज्ञया बली ॥६-७८-५॥
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीद् वचः । रथमानीयतां तूर्णं सैन्यं त्वानीयतां त्वरात् ॥६-७८-६॥
तस्य तद् वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥६-७८-७॥
प्रदक्षिणं रथं कृत्वा समारुह्य निशाचरः । सूतं संचोदयामास शीघ्रं वै रथमावह ॥६-७८-८॥
अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥६-७८-९॥
अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥६-७८-१०॥
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः । शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥६-७८-११॥
अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि सम्प्राप्तां शुष्केन्धनमिवानलः ॥६-७८-१२॥
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥६-७८-१३॥
ते कामरूपिणः क्रूरा दंष्ट्रिणः पिङ्गलेक्षणाः । मातंगा इव नर्दन्तो ध्वस्तकेशा भयावहाः ॥६-७८-१४॥
परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥६-७८-१५॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेलितास्फोटितानां च तत्र शब्दो महानभूत् ॥६-७८-१६॥
प्रभ्रष्टोऽथ करात् तस्य प्रतोदः सारथेस्तदा । पपात सहसा दैवाद् ध्वजस्तस्य तु रक्षसः ॥६-७८-१७॥
तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥६-७८-१८॥
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥६-७८-१९॥
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥६-७८-२०॥
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्मुहुस्ते ॥६-७८-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मकराक्षाभिषेणनम् नाम अष्टसप्ततितमः सर्गः ॥६-७८॥