निकुम्भवधः
युद्धकाण्डः / निकुम्भवधः
Script
Translation
Previous
कम्पनादिवधः
Next
मकराक्षाभिषेणनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे निकुम्भवधः नाम सप्तसप्ततितमः सर्गः ॥६-७७॥
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।
प्रदहन्निव कोपेन वानरेन्द्रमुदैक्षत ॥६-७७-१॥
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम् ।
आददे परिघं धीरो महेन्द्रशिखरोपमम् ॥६-७७-२॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।
यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥६-७७-३॥
तमाविध्य महातेजाः शक्रध्वजसमौजसम् ।
निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥६-७७-४॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।
कुण्डलाभ्यां च चित्राभ्यां मालया च सचित्रया ॥६-७७-५॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान् ॥६-७७-६॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।
प्रजज्वाल सघोषश्च विधूम इव पावकः ॥६-७७-७॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।
सतारागणनक्षत्रं सचन्द्रसमहाग्रहम् ।
निकुम्भपरिघाघूर्णं भ्रमतीव नभस्थलम् ॥६-७७-८॥
दुरासदश्च संजज्ञे परिघाभरणप्रभः ।
क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ॥६-७७-९॥
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।
हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥६-७७-१०॥
परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।
बली बलवतस्तस्य पातयामास वक्षसि ॥६-७७-११॥
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।
विकीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥६-७७-१२॥
स तु तेन प्रहारेण न चचाल महाकपिः ।
परिघेण समाधूतो यथा भूमिचलेऽचलः ॥६-७७-१३॥
स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः ।
मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥६-७७-१४॥
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।
अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः ॥६-७७-१५॥
तत्र पुस्फोट वर्मास्य प्रसुस्राव च शोणितम् ।
मुष्टिना तेन संजज्ञे मेघे विद्युदिवोत्थिता ॥६-७७-१६॥
स तु तेन प्रहारेण निकुम्भो विचचाल च ।
स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ॥६-७७-१७॥
चुक्रुशुश्च तदा संख्ये भीमं लङ्कानिवासिनः ।
निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम् ॥६-७७-१८॥
स तथा ह्रियमाणोऽपि हनूमांस्तेन रक्षसा ।
आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥६-७७-१९॥
आत्मानं मोक्षयित्वाथ क्षितावभ्यवपद्यत ।
हनूमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥६-७७-२०॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च ।
उत्पत्य चास्य वेगेन पपातोरसि वेगवान् ॥६-७७-२१॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।
उत्पाटयामास शिरो भैरवं नदतो महत् ॥६-७७-२२॥
अथ निनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ॥६-७७-२३॥
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवंगा दिशः सस्वनुश्च ।
चचालेव चोर्वी पपातेव सा द्यौर्बलं राक्षसानां भयं चाविवेश ॥६-७७-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे निकुम्भवधः नाम सप्तसप्ततितमः सर्गः ॥६-७७॥
Previous
कम्पनादिवधः
Next
मकराक्षाभिषेणनम्