मकराक्षवधः
युद्धकाण्डः / मकराक्षवधः
Script
Translation
Previous
मकराक्षाभिषेणनम्
Next
तिरोहितरावणियुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे मकराक्षवधः नाम एकोनाशीतितमः सर्गः ॥६-७९॥
निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः ।
आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥६-७९-१॥
ततः प्रवृत्तं सुमहत् तद् युद्धं लोमहर्षणम् ।
निशाचरैः प्लवंगानां देवानां दानवैरिव ॥६-७९-२॥
वृक्षशूलनिपातैश्च गदापरिघपातनैः ।
अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥६-७९-३॥
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः ।
पट्टिशैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥६-७९-४॥
पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा ।
कदनं कपिसिंहानां चक्रुस्ते रजनीचराः ॥६-७९-५॥
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः ।
सम्भ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥६-७९-६॥
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः ।
नेदुस्ते सिंहवद् दृप्ता राक्षसा जितकाशिनः ॥६-७९-७॥
विद्रवत्सु तदा तेषु वानरेषु समन्ततः ।
रामस्तान् वारयामास शरवर्षेण राक्षसान् ॥६-७९-८॥
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः ।
कोपानलसमाविष्टो वचनं चेदमब्रवीत् ॥६-७९-९॥
तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं भविष्यति ।
त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥६-७९-१०॥
यत् तदा दण्डकारण्ये पितरं हतवान् मम ।
तदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते ॥६-७९-११॥
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव ।
यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने ॥६-७९-१२॥
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह ।
कांक्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ॥६-७९-१३॥
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः ।
ये त्वया निहताः शूराः सह तैश्च वसिष्यसि ॥६-७९-१४॥
बहुनात्र किमुक्तेन शृणु राम वचो मम ।
पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥६-७९-१५॥
अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे ।
अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम् ॥६-७९-१६॥
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः ।
अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ॥६-७९-१७॥
कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते ।
न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥६-७९-१८॥
चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः ।
त्रिशिरा दूषणश्चापि दण्डके निहतो मया ॥६-७९-१९॥
स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः ।
भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः ॥६-७९-२०॥
राघवेणैवमुक्तस्तु मकराक्षो महाबलः ।
बाणौघानमुचत् तस्मै राघवाय रणाजिरे ॥६-७९-२१॥
ताञ्छराञ्छरवर्षेण रामश्चिच्छेद नैकधा ।
निपेतुर्भुवि विच्छिन्ना रुक्मपुङ्खाः सहस्रशः ॥६-७९-२२॥
तद् युद्धमभवत् तत्र समेत्यान्योन्यमोजसा ।
खरराक्षसपुत्रस्य सूनोर्दशरथस्य च ॥६-७९-२३॥
जीमूतयोरिवाकाशे शब्दो ज्यातलयोरिव ।
धनुर्मुक्तः स्वनोऽन्योन्यं श्रूयते च रणाजिरे ॥६-७९-२४॥
देवदानवगन्धर्वाः किंनराश्च महोरगाः ।
अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥६-७९-२५॥
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् ।
कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥६-७९-२६॥
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद् रणे ।
रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥६-७९-२७॥
बाणौघवितताः सर्वा दिशश्च प्रदिशस्तथा ।
संछन्ना वसुधा चैव समन्तान्न प्रकाशते ॥६-७९-२८॥
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद संयुगे ।
अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥६-७९-२९॥
भित्त्वा रथं शरै रामो हत्वा अश्वानपातयत् ।
विरथो वसुधास्थः स मकराक्षो निशाचरः ॥६-७९-३०॥
तत्तिष्ठद् वसुधां रक्षः शूलं जग्राह पाणिना ।
त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ॥६-७९-३१॥
दुरवापं महच्छूलं रुद्रदत्तं भयंकरम् ।
जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् ॥६-७९-३२॥
यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः ।
विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः ॥६-७९-३३॥
स क्रोधात् प्राहिणोत् तस्मै राघवाय महाहवे ।
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ॥६-७९-३४॥
बाणैश्चतुर्भिराकाशे शूलं चिच्छेद राघवः ।
स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः ।
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ॥६-७९-३५॥
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
साधु साध्विति भूतानि व्याहरन्ति नभोगताः ॥६-७९-३६॥
तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ।
मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥६-७९-३७॥
स तं दृष्ट्वा पतन्तं तु प्रहस्य रघुनन्दनः ।
पावकास्त्रं ततो रामः संदधे तु शरासने ॥६-७९-३८॥
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ।
संछिन्नहृदयं तत्र पपात च ममार च ॥६-७९-३९॥
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ।
लङ्कामेव प्रधावन्त रामबाणभयार्दिताः ॥६-७९-४०॥
दशरथनृपसूनुबाणवेगै रजनिचरं निहतं खरात्मजं तम् ।
प्रददृशुरथ देवताः प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ॥६-७९-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे मकराक्षवधः नाम एकोनाशीतितमः सर्गः ॥६-७९॥
Previous
मकराक्षाभिषेणनम्
Next
तिरोहितरावणियुद्धम्