कम्पनादिवधः
युद्धकाण्डः / कम्पनादिवधः
Script
Translation
Previous
लङ्कादाहः
Next
निकुम्भवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कम्पनादिवधः नाम षट्सप्ततितमः सर्गः ॥६-७६॥
प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये ।
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥६-७६-१॥
आहूय सोऽङ्गदं कोपात् ताडयामास वेगितः ।
गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥६-७६-२॥
स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ।
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥६-७६-३॥
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे ।
रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥६-७६-४॥
सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः ।
शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ॥६-७६-५॥
क्षुरक्षुरप्रनाराचैर्वत्सदन्तैः शिलीमुखैः ।
कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥६-७६-६॥
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् ।
धनुरुग्रं रथं बाणान् ममर्द तरसा बली ॥६-७६-७॥
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे ।
उत्पपात तदा क्रुद्धो वेगवानविचारयन् ॥६-७६-८॥
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली ।
करेण तस्य तं खड्गं समाच्छिद्य ननाद च ॥६-७६-९॥
तस्यांसफलके खड्गं निजघान ततोऽङ्गदः ।
यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ॥६-७६-१०॥
तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः ।
वालिपुत्रोऽभिदुद्राव रणशीर्षे परानरीन् ॥६-७६-११॥
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली ।
रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥६-७६-१२॥
आयसीं तु गदां गृह्य स वीरः कनकाङ्गदः ।
शोणिताक्षः समाश्वस्य तमेवानुपपात ह ॥६-७६-१३॥
प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली ।
गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥६-७६-१४॥
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः ।
विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ ॥६-७६-१५॥
अङ्गदं परिरक्षन्तौ मैन्दो द्विविद एव च ।
तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ॥६-७६-१६॥
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः ।
राक्षसा वानरान् रोषादसिबाणगदाधराः ॥६-७६-१७॥
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुंगवैः ।
संसक्तानां महद् युद्धमभवद् रोमहर्षणम् ॥६-७६-१८॥
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे ।
खड्गेन प्रतिचिक्षेप तान् प्रजङ्घो महाबलः ॥६-७६-१९॥
रथानश्वान् द्रुमाञ्छैलान् प्रतिचिक्षिपुराहवे ।
शरौघैः प्रतिचिच्छेद तान् यूपाक्षो महाबलः ॥६-७६-२०॥
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् ।
बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ॥६-७६-२१॥
उद्यम्य विपुलं खड्गं परमर्मविदारणम् ।
प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥६-७६-२२॥
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः ।
आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥६-७६-२३॥
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना ।
वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥६-७६-२४॥
तं दृष्ट्वा पतितं भूमौ खड्गं मुसलसंनिभम् ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥६-७६-२५॥
स ललाटे महावीर्यमङ्गदं वानरर्षभम् ।
आजघान महातेजाः स मुहूर्तं चचाल ह ॥६-७६-२६॥
स संज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् ।
प्रजङ्घस्य शिरः कायात् पातयामास मुष्टिना ॥६-७६-२७॥
स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे ।
अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ॥६-७६-२८॥
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् ।
आजघानोरसि क्रुद्धो जग्राह च बलाद् बली ॥६-७६-२९॥
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः ।
आजघान महातेजा वक्षसि द्विविदं ततः ॥६-७६-३०॥
स ततोऽभिहतस्तेन चचाल च महाबलः ।
उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥६-७६-३१॥
एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् ।
यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ॥६-७६-३२॥
तौ शोणिताक्षयूपाक्षौ प्लवंगाभ्यां तरस्विनौ ।
चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥६-७६-३३॥
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे ।
निष्पिपेष स वीर्येण क्षितावाविध्य वीर्यवान् ॥६-७६-३४॥
यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुङ्गवः ।
पीडयामास बाहुभ्यां पपात स हतः क्षितौ ॥६-७६-३५॥
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तथा ।
जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः ॥६-७६-३६॥
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ।
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवंगमैः ॥६-७६-३७॥
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा ।
कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥६-७६-३८॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्याञ्छरान् देहविदारणान् ॥६-७६-३९॥
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ।
विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ॥६-७६-४०॥
आकर्णकृष्टमुक्तेन जघान द्विविदं तदा ।
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥६-७६-४१॥
सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् ।
निपपात त्रिकूटाभो विह्वलन् प्लवगोत्तमः ॥६-७६-४२॥
मैन्दस्तु भ्रातरं तत्र भग्नं दृष्ट्वा महाहवे ।
अभिदुद्राव वेगेन प्रगृह्य विपुलां शिलाम् ॥६-७६-४३॥
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ।
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥६-७६-४४॥
संधाय चान्यं सुमुखं शरमाशीविषोपमम् ।
आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥६-७६-४५॥
स तु तेन प्रहारेण मैन्दो वानरयूथपः ।
मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ॥६-७६-४६॥
अङ्गदो मातुलौ दृष्ट्वा मथितौ तु महाबलौ ।
अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥६-७६-४७॥
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।
त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः ।
सोऽङ्गदं बहुभिर्बाणैः कुम्भो विव्याध वीर्यवान् ॥६-७६-४८॥
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ॥६-७६-४९॥
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः ॥६-७६-५०॥
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ।
आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ॥६-७६-५१॥
भ्रुवौ विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ।
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ॥६-७६-५२॥
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ।
सालमासन्नमेकेन परिजग्राह पाणिना ॥६-७६-५३॥
सम्पीड्योरसि सस्कन्धं करेणाभिनिवेश्य च ।
किंचिदभ्यवनम्यैनमुन्ममाथ महारणे ॥६-७६-५४॥
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ।
समुत्सृजत वेगेन मिषतां सर्वरक्षसाम् ॥६-७६-५५॥
स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः ।
अङ्गदो विव्यथेऽभीक्ष्णं स पपात मुमोह च ॥६-७६-५६॥
अङ्गदं पतितं दृष्ट्वा सीदन्तमिव सागरे ।
दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् ॥६-७६-५७॥
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे ।
व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः ॥६-७६-५८॥
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ।
अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम् ॥६-७६-५९॥
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।
रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः ॥६-७६-६०॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ॥६-७६-६१॥
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान् ।
आववार शरौघेण नगेनेव जलाशयम् ॥६-७६-६२॥
तस्य बाणपथं प्राप्य न शेकुरपि वीक्षितुम् ।
वानरेन्द्रा महात्मानो वेलामिव महोदधिः ॥६-७६-६३॥
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिभिरर्दितान् ।
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ॥६-७६-६४॥
अभिदुद्राव सुग्रीवः कुम्भकर्णात्मजं रणे ।
शैलसानुचरं नागं वेगवानिव केसरी ॥६-७६-६५॥
उत्पाट्य च महावृक्षानश्वकर्णादिकान् बहून् ।
अन्यांश्च विविधान् वृक्षांश्चिक्षेप स महाकपिः ॥६-७६-६६॥
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ।
कुम्भकर्णात्मजः श्रीमांश्चिच्छेद स्वशरैः शितैः ॥६-७६-६७॥
अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः ।
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ।
द्रुमवर्षं तु तद् भिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥६-७६-६८॥
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ।
स विध्यमानः सहसा सहमानस्तु ताञ्छरान् ॥६-७६-६९॥
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् ।
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥६-७६-७०॥
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ।
निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ॥६-७६-७१॥
संनतिश्च प्रभावश्च तव वा रावणस्य वा ।
प्रह्लादबलिवृत्रघ्नकुबेरवरुणोपम ॥६-७६-७२॥
एकस्त्वमनुजातोऽसि पितरं बलवत्तरम् ।
त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम् ॥६-७६-७३॥
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ।
विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥६-७६-७४॥
वरदानात् पितृव्यस्ते सहते देवदानवान् ।
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥६-७६-७५॥
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ।
त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥६-७६-७६॥
महाविमर्दं समरे मया सह तवाद्भुतम् ।
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥६-७६-७७॥
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ।
पतिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥६-७६-७८॥
उपालम्भभयाच्चैव नासि वीर मया हतः ।
कृतकर्मपरिश्रान्तो विश्रान्तः पश्य मे बलम् ॥६-७६-७९॥
तेन सुग्रीववाक्येन सावमानेन मानितः ।
अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥६-७६-८०॥
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ।
गजाविवातीतमदौ निःश्वसन्तौ मुहुर्मुहुः ॥६-७६-८१॥
अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम् ।
सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥६-७६-८२॥
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही ।
व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥६-७६-८३॥
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि ।
पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥६-७६-८४॥
ततः कुम्भनिपातेन जलराशिः समुत्थितः ।
विन्ध्यमन्दरसंकाशो विससर्प समन्ततः ॥६-७६-८५॥
ततः कुम्भः समुत्पत्य सुग्रीवमभिपात्य च ।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥६-७६-८६॥
तस्य वर्म च पुस्फोट संजज्ञे चापि शोणितम् ।
तस्य मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥६-७६-८७॥
तस्य वेगेन तत्रासीत् तेजः प्रज्वलितं महत् ।
वज्रनिष्पेषसंजाता ज्वाला मेरोर्यथा गिरेः ॥६-७६-८८॥
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥६-७६-८९॥
अर्चिःसहस्रविकचरविमण्डलवर्चसम् ।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥६-७६-९०॥
स तु तेन प्रहारेण विह्वलो भृशपीडितः ।
निपपात तदा कुम्भो गतार्चिरिव पावकः ॥६-७६-९१॥
मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः ।
लोहिताङ्ग इवाकाशाद् दीप्तरश्मिर्यदृच्छया ॥६-७६-९२॥
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ।
बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ॥६-७६-९३॥
तस्मिन् हते भीमपराक्रमेण प्लवंगमानामृषभेण युद्धे ।
मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ॥६-७६-९४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कम्पनादिवधः नाम षट्सप्ततितमः सर्गः ॥६-७६॥
Previous
लङ्कादाहः
Next
निकुम्भवधः