लङ्कादाहः
युद्धकाण्डः / लङ्कादाहः
Script
Translation
Previous
ओषधिपर्वतानयनम्
Next
कम्पनादिवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे लङ्कादाहः नाम पञ्चसप्ततितमः सर्गः ॥६-७५॥
ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः ।
अर्थ्यं विज्ञापयंश्चापि हनूमन्तमिदं वचः ॥६-७५-१॥
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः ।
नेदानीमुपनिर्हारं रावणो दातुमर्हति ॥६-७५-२॥
ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः ।
लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥६-७५-३॥
ततोऽस्तं गत आदित्ये रौद्रे तस्मिन् निशामुखे ।
लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः ॥६-७५-४॥
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ।
आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः ॥६-७५-५॥
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ।
प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् ॥६-७५-६॥
तेषां गृहसहस्राणि ददाह हुतभुक् तदा ।
प्रासादाः पर्वताकाराः पतन्ति धरणीतले ॥६-७५-७॥
अगुरुर्दह्यते तत्र परं चैव सुचन्दनम् ।
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् ॥६-७५-८॥
क्षौमं च दह्यते तत्र कौशेयं चापि शोभनम् ।
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् ॥६-७५-९॥
नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदम् ।
गजग्रैवेयकक्ष्याश्च रथभाण्डांश्च संस्कृतान् ॥६-७५-१०॥
तनुत्राणि च योधानां हस्त्यश्वानां च वर्म च ।
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः ॥६-७५-११॥
रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ।
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः ॥६-७५-१२॥
विविधानस्त्रसंघातानग्निर्दहति तत्र वै ।
नानाविधान् गृहांश्चित्रान् ददाह हुतभुक् तदा ॥६-७५-१३॥
आवासान् राक्षसानां च सर्वेषां गृहगृध्नुनाम् ।
हेमचित्रतनुत्राणां स्रग्भाण्डाम्बरधारिणाम् ॥६-७५-१४॥
सीधुपानचलाक्षाणां मदविह्वलगामिनाम् ।
कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम् ॥६-७५-१५॥
गदाशूलासिहस्तानां खादतां पिबतामपि ।
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह ॥६-७५-१६॥
त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः ।
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् ॥६-७५-१७॥
अदहत् पावकस्तत्र जज्वाल च पुनः पुनः ।
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च ॥६-७५-१८॥
हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च ।
तत्र चित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥६-७५-१९॥
मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ।
क्रौञ्चबर्हिणवीणानां भूषणानां च निःस्वनैः ॥६-७५-२०॥
नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः ।
ज्वलनेन परीतानि तोरणानि चकाशिरे ॥६-७५-२१॥
विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ।
ज्वलनेन परीतानि गृहाणि प्रचकाशिरे ॥६-७५-२२॥
दावाग्निदीप्तानि यथा शिखराणि महागिरेः ।
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः ॥६-७५-२३॥
त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशुः ।
तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि ॥६-७५-२४॥
वज्रिवज्रहतानीव शिखराणि महागिरेः ।
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे ॥६-७५-२५॥
हिमवच्छिखराणीव दह्यमानानि सर्वशः ।
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि ॥६-७५-२६॥
रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ।
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ।
बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥६-७५-२७॥
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद् भीतोऽपसर्पति ।
भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥६-७५-२८॥
लङ्कायां दह्यमानायां शुशुभे च महोदधिः ।
छायासंसक्तसलिलो लोहितोद इवार्णवः ॥६-७५-२९॥
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी ।
लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥६-७५-३०॥
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः ।
स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम् ॥६-७५-३१॥
प्रदग्धकायानपरान् राक्षसान् निर्गतान् बहिः ।
सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥६-७५-३२॥
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम् ।
दिशो दश समुद्रं च पृथिवीं च व्यनादयत् ॥६-७५-३३॥
विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ ।
असम्भ्रान्तौ जगृहतुस्ते उभे धनुषी वरे ॥६-७५-३४॥
ततो विस्फारयामास रामश्च धनुरुत्तमम् ।
बभूव तुमुलः शब्दो राक्षसानां भयावहः ॥६-७५-३५॥
अशोभत तदा रामो धनुर्विस्फारयन् महत् ।
भगवानिव संक्रुद्धो भवो वेदमयं धनुः ॥६-७५-३६॥
उद्घुष्टं वानराणां च राक्षसानां च निःस्वनम् ।
ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥६-७५-३७॥
वानरोद्घुष्टघोषश्च राक्षसानां च निःस्वनः ।
ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश ॥६-७५-३८॥
तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् ।
कैलासशृङ्गप्रतिमं विकीर्णमभवद् भुवि ॥६-७५-३९॥
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च ।
संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥६-७५-४०॥
तेषां संनह्यमानानां सिंहनादं च कुर्वताम् ।
शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत ॥६-७५-४१॥
आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना ।
आसन्नं द्वारमासाद्य युध्यध्वं च प्लवंगमाः ॥६-७५-४२॥
यश्च वो वितथं कुर्यात् तत्र तत्राप्युपस्थितः ।
स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ॥६-७५-४३॥
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु ।
स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥६-७५-४४॥
तस्य जृम्भितविक्षेपाद् व्यामिश्रा वै दिशो दश ।
रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥६-७५-४५॥
स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ ।
प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥६-७५-४६॥
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा ।
निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥६-७५-४७॥
शशास चैव तान् सर्वान् राक्षसान् स महाबलान् ।
राक्षसा गच्छताद्यैव सिंहनादं च नादयन् ॥६-७५-४८॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः ।
लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः ॥६-७५-४९॥
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः ।
चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥६-७५-५०॥
तत्र ताराधिपस्याभा ताराणां भा तथैव च ।
तयोराभरणाभा च ज्वलिता द्यामभासयत् ॥६-७५-५१॥
चन्द्राभा भूषणाभा च ग्रहाणां ज्वलतां च भा ।
हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥६-७५-५२॥
तत्र चार्धप्रदीप्तानां गृहाणां सागरः पुनः ।
भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ॥६-७५-५३॥
पताकाध्वजसंयुक्तमुत्तमासिपरश्वधम् ।
भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥६-७५-५४॥
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् ।
तद् राक्षसबलं भीमं घोरविक्रमपौरुषम् ॥६-७५-५५॥
ददृशे ज्वलितप्रासं किङ्किणीशतनादितम् ।
हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ॥६-७५-५६॥
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् ।
गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् ॥६-७५-५७॥
घोरं शूरजनाकीर्णं महाम्बुधरनिःस्वनम् ।
तद् दृष्ट्वा बलमायातं राक्षसानां दुरासदम् ॥६-७५-५८॥
संचचाल प्लवंगानां बलमुच्चैर्ननाद च ।
जवेनाप्लुत्य च पुनस्तद् बलं रक्षसां महत् ॥६-७५-५९॥
अभ्ययात् प्रत्यरिबलं पतंगा इव पावकम् ।
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ॥६-७५-६०॥
राक्षसानां बलं श्रेष्ठं भूयः परमशोभत ।
तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ॥६-७५-६१॥
तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् ।
तथैवापततां तेषां हरीणां निशितैः शरैः ॥६-७५-६२॥
शिरांसि सहसा जह्रू राक्षसा भीमविक्रमाः ।
दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः ।
शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः ॥६-७५-६३॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ।
प्रवरानभितो जघ्नुर्घोररूपा निशाचराः ॥६-७५-६४॥
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ।
गर्हमाणं जगर्हान्यो दशन्तमपरोऽदशत् ॥६-७५-६५॥
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ।
किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे ॥६-७५-६६॥
विप्रलम्भितशस्त्रं च विमुक्तकवचायुधम् ।
समुद्यतमहाप्रासं मुष्टिशूलासिकुन्तलम् ॥६-७५-६७॥
प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् ।
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे ॥६-७५-६८॥
राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ।
विप्रलम्भितवस्त्रं च विमुक्तकवचध्वजम् ।
बलं राक्षसमालम्ब्य वानराः पर्यवारयन् ॥६-७५-६९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे लङ्कादाहः नाम पञ्चसप्ततितमः सर्गः ॥६-७५॥
Previous
ओषधिपर्वतानयनम्
Next
कम्पनादिवधः