ओषधिपर्वतानयनम्
युद्धकाण्डः / ओषधिपर्वतानयनम्
Script
Translation
Previous
इन्द्रजिन्मायायुद्धम्
Next
लङ्कादाहः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे ओषधिपर्वतानयनम् नाम चतुःसप्ततितमः सर्गः ॥६-७४॥
तयोस्तदासादितयो रणाग्रे मुमोह सैन्यं हरियूथपानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित् प्रतिपेदिरे ते ॥६-७४-१॥
ततो विषण्णं समवेक्ष्य सर्वं विभीषणो बुद्धिमतां वरिष्ठः ।
उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥६-७४-२॥
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
स्वयंभुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजितास्त्रजालैः ॥६-७४-३॥
तस्मै तु दत्तं परमास्त्रमेतत् स्वयंभुवा ब्राह्मममोघवीर्यम् ।
तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥६-७४-४॥
ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः ।
विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत् ॥६-७४-५॥
अस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम् ।
यो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥६-७४-६॥
तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥६-७४-७॥
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥६-७४-८॥
पतितैः पर्वताकारैर्वानरैरभिसंवृताम् ।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ॥६-७४-९॥
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥६-७४-१०॥
मैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम् ।
विभीषणो हनूमांश्च ददृशाते हतान् रणे ॥६-७४-११॥
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।
अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुवः ॥६-७४-१२॥
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।
मार्गते जाम्बवन्तं च हनूमान् सविभीषणः ॥६-७४-१३॥
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥६-७४-१४॥
दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत् ।
कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥६-७४-१५॥
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।
कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥६-७४-१६॥
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये ।
विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥६-७४-१७॥
अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत ।
हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥६-७४-१८॥
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।
आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥६-७४-१९॥
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।
आर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥६-७४-२०॥
विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् ।
शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥६-७४-२१॥
अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।
हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥६-७४-२२॥
धरते मारुतिस्तात मारुतप्रतिमो यदि ।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥६-७४-२३॥
ततो वृद्धमुपागम्य विनयेनाभ्यवादयत् ।
गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः ॥६-७४-२४॥
श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः ।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥६-७४-२५॥
ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥६-७४-२६॥
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।
त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥६-७४-२७॥
ऋक्षवानरवीराणामनीकानि प्रहर्षय ।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥६-७४-२८॥
गत्वा परममध्वानमुपर्युपरि सागरम् ।
हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि ॥६-७४-२९॥
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।
कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन ॥६-७४-३०॥
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।
सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥६-७४-३१॥
तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः ।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ॥६-७४-३२॥
मृतसञ्जीवनीं चैव विशल्यकरणीमपि ।
सुवर्णकरणीं चैव संधानीं च महौषधीम् ॥६-७४-३३॥
ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि ।
आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥६-७४-३४॥
श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः ।
आपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः ॥६-७४-३५॥
स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् ।
हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥६-७४-३६॥
हरिपादविनिर्भग्नो निषसाद स पर्वतः ।
न शशाक तदात्मानं वोढुं भृशनिपीडितः ॥६-७४-३७॥
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।
शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥६-७४-३८॥
तस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले ।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥६-७४-३९॥
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।
लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा ॥६-७४-४०॥
पृथिवीधरसंकाशो निपीड्य पृथिवीधरम् ।
पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥६-७४-४१॥
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।
मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥६-७४-४२॥
नानाद्रुमलताकीर्णं विकासिकमलोत्पलम् ।
सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥६-७४-४३॥
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥६-७४-४४॥
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।
हनूमान् मेघसंकाशो ववृधे मारुतात्मजः ॥६-७४-४५॥
पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।
विवृत्योग्रं ननादोच्चैस्त्रासयन् रजनीचरान् ॥६-७४-४६॥
तस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम् ।
लङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित् ॥६-७४-४७॥
नमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः ।
राघवार्थे परं कर्म समीहत परंतपः ॥६-७४-४८॥
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुच्य ।
विवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योम्नि स चण्डवेगः ॥६-७४-४९॥
स वृक्षखण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च ।
बाहूरुवेगोद्गतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥६-७४-५०॥
स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजंगारिनिकाशवीर्यः ।
जगाम शैलं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥६-७४-५१॥
स सागरं घूर्णितवीचिमालं तदम्भसा भ्रामितसर्वसत्त्वम् ।
समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥६-७४-५२॥
स पर्वतान् पक्षिगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि ।
स्फीताञ्जनांस्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥६-७४-५३॥
आदित्यपथमाश्रित्य जगाम स गतश्रमः ।
हनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः ॥६-७४-५४॥
जवेन महता युक्तो मारुतिर्वातरंहसा ।
जगाम हरिशार्दूलो दिशः शब्देन नादयन् ॥६-७४-५५॥
स्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः ।
ददर्श सहसा चापि हिमवन्तं महाकपिः ॥६-७४-५६॥
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।
श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ।
शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥६-७४-५७॥
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमहेमशृङ्गम् ।
ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥६-७४-५८॥
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ।
हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिंकरांश्च ॥६-७४-५९॥
वह्न्यालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मालयं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥६-७४-६०॥
कैलासमग्र्यं हिमवच्छिलां च तं वै वृषं काञ्चनशैलमग्र्यम् ।
प्रदीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥६-७४-६१॥
स तं समीक्ष्यानलराशिदीप्तं विसिस्मिये वासवदूतसूनुः ।
आप्लुत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥६-७४-६२॥
स योजनसहस्राणि समतीत्य महाकपिः ।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥६-७४-६३॥
महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे ।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥६-७४-६४॥
स ता महात्मा हनुमानपश्यंश्चुकोप रोषाच्च भृशं ननाद ।
अमृष्यमाणोऽग्निसमानचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥६-७४-६५॥
किमेतदेवं सुविनिश्चितं ते यद् राघवे नासि कृतानुकम्पः ।
पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥६-७४-६६॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।
विकीर्णकूटं ज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥६-७४-६७॥
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान् ।
संस्तूयमानः खचरैरनेकैर्जगाम वेगाद् गरुडोग्रवेगः ॥६-७४-६८॥
स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य ।
बभौ तदा भास्करसंनिकाशो रवेः समीपे प्रतिभास्कराभः ॥६-७४-६९॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।
सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥६-७४-७०॥
तं वानराः प्रेक्ष्य तदा विनेदुः स तानपि प्रेक्ष्य मुदा ननाद ।
तेषां समुत्कृष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥६-७४-७१॥
ततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये ।
हर्युत्तमेभ्यः शिरसाभिवाद्य विभीषणं तत्र च सस्वजे सः ॥६-७४-७२॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।
बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥६-७४-७३॥
सर्वे विशल्या विरुजाः क्षणेन हरिप्रवीराश्च हताश्च ये स्युः ।
गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥६-७४-७४॥
यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः ।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥६-७४-७५॥
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।
हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥६-७४-७६॥
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवेगः ।
निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥६-७४-७७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे ओषधिपर्वतानयनम् नाम चतुःसप्ततितमः सर्गः ॥६-७४॥
Previous
इन्द्रजिन्मायायुद्धम्
Next
लङ्कादाहः