इन्द्रजिन्मायायुद्धम्

युद्धकाण्डः / इन्द्रजिन्मायायुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे इन्द्रजिन्मायायुद्धम् नाम त्रिसप्ततितमः सर्गः ॥६-७३॥
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोऽतिकायान् । रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरिताः शशंसुः ॥६-७३-१॥
ततो हतांस्तान् सहसा निशम्य राजा महाबाष्पपरिप्लुताक्षः । पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ॥६-७३-२॥
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम् । रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद् वाक्यमिदं बभाषे ॥६-७३-३॥
न तात मोहं परिगन्तुमर्हसे यत्रेन्द्रजिज्जीवति नैर्ऋतेश । नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरेऽभिपातुम् ॥६-७३-४॥
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् । गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ॥६-७३-५॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् । अद्यैव रामं सह लक्ष्मणेन संतर्पयिष्यामि शरैरमोघैः ॥६-७३-६॥
अद्येन्द्रवैवस्वतविष्णुरुद्रसाध्याश्च वैश्वानरचन्द्रसूर्याः । द्रक्ष्यन्ति मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ॥६-७३-७॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः । समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ॥६-७३-८॥
समास्थाय महातेजा रथं हरिरथोपमम् । जगाम सहसा तत्र यत्र युद्धमरिंदमः ॥६-७३-९॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः । संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥६-७३-१०॥
गजस्कन्धगताः केचित् केचित् परमवाजिभिः । व्याघ्रवृश्चिकमार्जारखरोष्ट्रैश्च भुजङ्गमैः ॥६-७३-११॥
वराहैः श्वापदैः सिंहैर्जम्बुकैः पर्वतोपमैः । काकहंसमयूरैश्च राक्षसा भीमविक्रमाः ॥६-७३-१२॥
प्रासपट्टिशनिस्त्रिंशपरश्वधगदाधराः । भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधाः ॥६-७३-१३॥
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निःस्वनैः । जगाम त्रिदशेन्द्रारिराजिं वेगेन वीर्यवान् ॥६-७३-१४॥
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः । रराज प्रतिपूर्णेन नभश्चन्द्रमसा यथा ॥६-७३-१५॥
वीज्यमानस्ततो वीरो हैमैर्हेमविभूषणः । चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥६-७३-१६॥
स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम् । राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् ॥६-७३-१७॥
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः । किं पुनर्मानुषं धृष्यं निहनिष्यसि राघवम् ॥६-७३-१८॥
तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाशिषः । ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ॥६-७३-१९॥
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता । स सम्प्राप्य महातेजा युद्धभूमिमरिंदमः ॥६-७३-२०॥
स्थापयामास रक्षांसि रथं प्रति समन्ततः । ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ॥६-७३-२१॥
जुहुवे राक्षसश्रेष्ठो विधिवन्मन्त्रसत्तमैः । स हविर्लाजसत्कारैर्माल्यगन्धपुरस्कृतैः ॥६-७३-२२॥
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् । शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः ॥६-७३-२३॥
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा । स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ॥६-७३-२४॥
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः । सकृदेव समिद्धस्य विधूमस्य महार्चिषः ॥६-७३-२५॥
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् । प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ॥६-७३-२६॥
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः । सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविशारदः ॥६-७३-२७॥
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् । तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके । सार्कग्रहेन्दुनक्षत्रं वितत्रास नभस्थलम् ॥६-७३-२८॥
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः । सचापबाणासिरथाश्वसूतः खेऽन्तर्दधेऽऽत्मानमचिन्त्यवीर्यः ॥६-७३-२९॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम् । निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ॥६-७३-३०॥
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलंकृतैः । तोमरैरङ्कुशैश्चापि वानराञ्जघ्नुराहवे ॥६-७३-३१॥
रावणिस्तु सुसंक्रुद्धस्तान् निरीक्ष्य निशाचरान् । हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥६-७३-३२॥
ततस्ते राक्षसाः सर्वे गर्जन्तो जयकांक्षिणः । अभ्यवर्षंस्ततो घोरं वानरान् शरवृष्टिभिः ॥६-७३-३३॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिः संवृतः संख्ये वानरान् विचकर्ष ह ॥६-७३-३४॥
ते वध्यमानाः समरे वानराः पादपायुधाः । अभ्यवर्षन्त सहसा रावणिं शैलपादपैः ॥६-७३-३५॥
इन्द्रजित् तु तदा क्रुद्धो महातेजा महाबलः । वानराणां शरीराणि व्यधमद् रावणात्मजः ॥६-७३-३६॥
शरेणैकेन च हरीन् नव पञ्च च सप्त च । बिभेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ॥६-७३-३७॥
स शरैः सूर्यसंकाशैः शातकुम्भविभूषणैः । वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥६-७३-३८॥
ते भिन्नगात्राः समरे वानराः शरपीडिताः । पेतुर्मथितसंकल्पाः सुरैरिव महासुराः ॥६-७३-३९॥
ते तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः । अभ्यधावन्त संक्रुद्धाः संयुगे वानरर्षभाः ॥६-७३-४०॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः । व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥६-७३-४१॥
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः । नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः ॥६-७३-४२॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः । अभ्यवर्षन्त समरे रावणिं समवस्थिताः ॥६-७३-४३॥
तं द्रुमाणां शिलानां च वर्षं प्राणहरं महत् । व्यपोहत महातेजा रावणिः समितिंजयः ॥६-७३-४४॥
ततः पावकसंकाशैः शरैराशीविषोपमैः । वानराणामनीकानि बिभेद समरे प्रभुः ॥६-७३-४५॥
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम् । विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥६-७३-४६॥
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः । पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ॥६-७३-४७॥
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च । सुग्रीवमृषभं चैव सोऽङ्गदं द्विविदं तथा ॥६-७३-४८॥
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत् तदा । अन्यानपि तथा मुख्यान् वानरान् बहुभिः शरैः ॥६-७३-४९॥
अर्दयामास संक्रुद्धः कालाग्निरिव मूर्च्छितः । स शरैः सूर्यसंकाशैः सुमुक्तैः शीघ्रगामिभिः ॥६-७३-५०॥
वानराणामनीकानि निर्ममन्थ महारणे । आकुलां वानरीं सेनां शरजालेन पीडिताम् ॥६-७३-५१॥
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् । पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥६-७३-५२॥
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् । ममर्द वानरानीकं परितस्त्विन्द्रजिद् बली ॥६-७३-५३॥
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महाहवे वानरवाहिनीषु । अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथाम्बु ॥६-७३-५४॥
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः । रणे निपेतुर्हरयोऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ॥६-७३-५५॥
ते केवलं संददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु । मायाविगूढं च सुरेन्द्रशत्रुं न चात्र तं राक्षसमप्यपश्यन् ॥६-७३-५६॥
ततः स रक्षोधिपतिर्महात्मा सर्वा दिशो बाणगणैः शिताग्रैः । प्रच्छादयामास रविप्रकाशैर्विदारयामास च वानरेन्द्रान् ॥६-७३-५७॥
स शूलनिस्त्रिंशपरश्वधानि व्याविद्धदीप्तानलसप्रभाणि । सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥६-७३-५८॥
ततो ज्वलनसंकाशैर्बाणैर्वानरयूथपाः । ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥६-७३-५९॥
तेऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् । राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥६-७३-६०॥
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः । शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥६-७३-६१॥
हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम् । जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥६-७३-६२॥
मैन्दं च द्विविदं नीलं गवाक्षं गवयं तथा । केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥६-७३-६३॥
सूर्याननं ज्योतिर्मुखं तथा दधिमुखं हरिम् । पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥६-७३-६४॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः । विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ॥६-७३-६५॥
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयवर्णैः । ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ॥६-७३-६६॥
स बाणवर्षैरभिवृष्यमाणो धारानिपातानिव तानचिन्त्य । समीक्षमाणः परमाद्भुतश्रीरामस्तदा लक्ष्मणमित्युवाच ॥६-७३-६७॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः । निपातयित्वा हरिसैन्यमस्मान्शितैः शरैरर्दयति प्रसक्तम् ॥६-७३-६८॥
स्वयंभुवा दत्तवरो महात्मा समाहितोऽन्तर्हितभीमकायः । कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥६-७३-६९॥
मन्ये स्वयंभूर्भगवानचिन्त्यस्तस्यैतदस्त्रं प्रभवश्च योऽस्य । बाणावपातं त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥६-७३-७०॥
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः । एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ॥६-७३-७१॥
आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ हतहर्षरोषौ । ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समासाद्य रणाग्र्यलक्ष्मीम् ॥६-७३-७२॥
ततस्तु ताविन्द्रजितोऽस्त्रजालैर्बभूवतुस्तत्र तदा विशस्तौ । स चापि तौ तत्र विषादयित्वा ननाद हर्षाद् युधि राक्षसेन्द्रः ॥६-७३-७३॥
ततस्तदा वानरसैन्यमेवं रामं च संख्ये सह लक्ष्मणेन । विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् । संस्तूयमानः स तु यातुधानैः पित्रे च सर्वं हृषितोऽभ्युवाच ॥६-७३-७४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे इन्द्रजिन्मायायुद्धम् नाम त्रिसप्ततितमः सर्गः ॥६-७३॥