रावणमन्युशल्याविष्कारः

युद्धकाण्डः / रावणमन्युशल्याविष्कारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणमन्युशल्याविष्कारः नाम द्विसप्ततितमः सर्गः ॥६-७२॥
अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना । उद्वेगमगमद् राजा वचनं चेदमब्रवीत् ॥६-७२-१॥
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ॥६-७२-२॥
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥६-७२-३॥
ससैन्यास्ते हता वीरा रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ॥६-७२-४॥
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ॥६-७२-५॥
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः । यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ॥६-७२-६॥
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वपन्नगैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥६-७२-७॥
शरबन्धाद् विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताः शूरा राक्षसा मम शासनात् ॥६-७२-८॥
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ॥६-७२-९॥
नाशयेत् सबलं वीरं ससुग्रीवं विभीषणम् । अहो सुबलवान् रामो महदस्त्रबलं च वै ॥६-७२-१०॥
यस्य विक्रममासाद्य राक्षसा निधनं गताः । तं मन्ये राघवं वीरं नारायणमनामयम् ॥६-७२-११॥
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा । अप्रमत्तैश्च सर्वत्र गुल्मे रक्ष्या पुरी त्वियम् ॥६-७२-१२॥
अशोकवनिका चैव यत्र सीताभिरक्ष्यते । निष्क्रमो वा प्रवेशो वा ज्ञातव्यः सर्वदैव नः ॥६-७२-१३॥
यत्र यत्र भवेद् गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वं स्वैः स्वैः परिवृता बलैः ॥६-७२-१४॥
द्रष्टव्यं च पदं तेषां वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ॥६-७२-१५॥
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत् किं स्थितं यथा ॥६-७२-१६॥
ततस्ते राक्षसाः सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत् तु महाबलाः ॥६-७२-१७॥
तान् सर्वान् हि समादिश्य रावणो राक्षसाधिपः । मन्युशल्यं वहन् दीनः प्रविवेश स्वमालयम् ॥६-७२-१८॥
ततः स संदीपितकोपवह्निर्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनं विचिन्तयन् मुहुर्मुहुश्चैव तदा विनिःश्वसन् ॥६-७२-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणमन्युशल्याविष्कारः नाम द्विसप्ततितमः सर्गः ॥६-७२॥