अतिकायवधः

युद्धकाण्डः / अतिकायवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे अतिकायवधः नाम एकसप्ततितमः सर्गः ॥६-७१॥
स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम् । भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान् ॥६-७१-१॥
पितृव्यौ चापि संदृश्य समरे संनिपातितौ । युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसोत्तमौ ॥६-७१-२॥
चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसंकाशो देवदानवदर्पहा ॥६-७१-३॥
स भास्करसहस्रस्य संघातमिव भास्वरम् । रथमारुह्य शक्रारिरभिदुद्राव वानरान् ॥६-७१-४॥
स विस्फार्य तदा चापं किरीटी मृष्टकुण्डलः । नाम संश्रावयामास ननाद च महास्वनम् ॥६-७१-५॥
तेन सिंहप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥६-७१-६॥
ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥६-७१-७॥
ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद् वानरयोधास्ते विद्रवन्ति ततस्ततः ॥६-७१-८॥
तेऽतिकायं समासाद्य वानरा मूढचेतसः । शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥६-७१-९॥
ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनं दूराद् गर्जन्तं कालमेघवत् ॥६-७१-१०॥
स तं दृष्ट्वा महाकायं राघवस्तु सुविस्मितः । वानरान् सान्त्वयित्वा च विभीषणमुवाच ह ॥६-७१-११॥
कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥६-७१-१२॥
य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥६-७१-१३॥
कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥६-७१-१४॥
धनूंषि चास्य सज्जानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचापमिवाम्बरम् ॥६-७१-१५॥
य एष रक्षःशार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यवर्चसा ॥६-७१-१६॥
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥६-७१-१७॥
त्रिनतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम् । शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते ॥६-७१-१८॥
सध्वजः सपताकश्च सानुकर्षो महारथः । चतुःसादिसमायुक्तो मेघस्तनितनिःस्वनः ॥६-७१-१९॥
विंशतिर्दश चाष्टौ च तूणास्य रथमास्थिताः । कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥६-७१-२०॥
द्वौ च खड्गौ च पार्श्वस्थौ प्रदीप्तौ पार्श्वशोभितौ । चतुर्हस्तत्सरुयुतौ व्यक्तहस्तदशायतौ ॥६-७१-२१॥
रक्तकण्ठगुणो धीरो महापर्वतसंनिभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥६-७१-२२॥
काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः ॥६-७१-२३॥
कुण्डलाभ्यामुभाभ्यां च भाति वक्त्रं सुभीषणम् । पुनर्वस्वन्तरगतं परिपूर्णो निशाकरः ॥६-७१-२४॥
आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् । यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥६-७१-२५॥
स पृष्टो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ॥६-७१-२६॥
दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महात्मा हि रावणो राक्षसेश्वरः ॥६-७१-२७॥
तस्यासीद् वीर्यवान् पुत्रो रावणप्रतिमो बले । वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥६-७१-२८॥
अश्वपृष्ठे नागपृष्ठे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च सम्मतः ॥६-७१-२९॥
यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥६-७१-३०॥
एतेनाराधितो ब्रह्मा तपसा भावितात्मना । अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥६-७१-३१॥
सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा । एतच्च कवचं दिव्यं रथश्च रविभास्वरः ॥६-७१-३२॥
एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥६-७१-३३॥
वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमता । पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥६-७१-३४॥
एषोऽतिकायो बलवान् राक्षसानामथर्षभः । स रावणसुतो धीमान् देवदानवदर्पहा ॥६-७१-३५॥
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥६-७१-३६॥
ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ॥६-७१-३७॥
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् । अभिपेतुर्महात्मानः प्रधाना ये वनौकसः ॥६-७१-३८॥
कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशृङ्गैश्च युगपत् समभिद्रवन् ॥६-७१-३९॥
तेषां वृक्षांश्च शैलांश्च शरैः कनकभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥६-७१-४०॥
तांश्चैव सर्वान् स हरीन् शरैः सर्वायसैर्बली । विव्याधाभिमुखान् संख्ये भीमकायो निशाचरः ॥६-७१-४१॥
तेऽर्दिता बाणवर्षेण भिन्नगात्राः पराजिताः । न शेकुरतिकायस्य प्रतिकर्तुं महाहवे ॥६-७१-४२॥
तत् सैन्यं हरिवीराणां त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥६-७१-४३॥
स राक्षसेन्द्रो हरियूथमध्ये नायुध्यमानं निजघान कंचित् । उत्पत्य रामं स धनुःकलापी सगर्वितं वाक्यमिदं बभाषे ॥६-७१-४४॥
रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि । यस्यास्ति शक्तिर्व्यवसाययुक्तो ददातु मे शीघ्रमिहाद्य युद्धम् ॥६-७१-४५॥
तत् तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता । अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥६-७१-४६॥
क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥६-७१-४७॥
पूरयन् स महीं सर्वामाकाशं सागरं दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान् ॥६-७१-४८॥
सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा । विसिस्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥६-७१-४९॥
तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् । आदाय निशितं बाणमिदं वचनमब्रवीत् ॥६-७१-५०॥
बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किं कालसंकाशं मां योधयितुमिच्छसि ॥६-७१-५१॥
नहि मद्बाहुसृष्टानां बाणानां हिमवानपि । सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥६-७१-५२॥
सुखप्रसुप्तं कालाग्निं विबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व प्राणान्न जहि मद्गतः ॥६-७१-५३॥
अथवा त्वं प्रतिस्तब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम् ॥६-७१-५४॥
पश्य मे निशितान् बाणान् रिपुदर्पनिषूदनान् । ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥६-७१-५५॥
एष ते सर्पसंकाशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् । इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे ॥६-७१-५६॥
श्रुत्वातिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः । स संचुकोपातिबलो मनस्वी उवाच वाक्यं च ततो महार्थम् ॥६-७१-५७॥
न वाक्यमात्रेण भवान् प्रधानो न कत्थनात् सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ निदर्शयस्वात्मबलं दुरात्मन् ॥६-७१-५८॥
कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥६-७१-५९॥
सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः । शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥६-७१-६०॥
ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः । मारुतः कालसम्पक्वं वृन्तात् तालफलं यथा ॥६-७१-६१॥
अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरं गात्राद् बाणशल्यान्तरोत्थितम् ॥६-७१-६२॥
बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ॥६-७१-६३॥
बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत् परमार्थवत् । अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥६-७१-६४॥
ततो विद्याधरा भूता देवा दैत्या महर्षयः । गुह्यकाश्च महात्मानस्तद् युद्धं द्रष्टुमागमन् ॥६-७१-६५॥
ततोऽतिकायः कुपितश्चापमारोप्य सायकम् । लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥६-७१-६६॥
तमापतन्तं निशितं शरमाशीविषोपमम् । अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा ॥६-७१-६७॥
तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् । अतिकायो भृशं क्रुद्धः पञ्च बाणान् समादधे ॥६-७१-६८॥
तान् शरान् सम्प्रचिक्षेप लक्ष्मणाय निशाचरः । तानप्राप्तान् शितैर्बाणैश्चिच्छेद भरतानुजः ॥६-७१-६९॥
स तान् छित्त्वा शितैर्बाणैर्लक्ष्मणः परवीरहा । आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥६-७१-७०॥
तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः । विचकर्ष च वेगेन विससर्ज च सायकम् ॥६-७१-७१॥
पूर्णायतविसृष्टेन शरेण नतपर्वणा । ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥६-७१-७२॥
स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः । ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥६-७१-७३॥
राक्षसः प्रचकम्पेऽथ लक्ष्मणेषु प्रपीडितः । रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥६-७१-७४॥
चिन्तयामास चाश्वास्य विमृश्य च महाबलः । साधु बाणनिपातेन श्लाघनीयोऽसि मे रिपुः ॥६-७१-७५॥
विधायैवं विदार्यास्यं नियम्य च महाभुजौ । स रथोपस्थमास्थाय रथेन प्रचचार ह ॥६-७१-७६॥
एवं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः । आददे संदधे चापि विचकर्षोत्ससर्ज च ॥६-७१-७७॥
ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः । हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥६-७१-७८॥
ततस्तान् राक्षसोत्सृष्टान् शरौघान् राघवानुजः । असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥६-७१-७९॥
तान् शरान् युधि सम्प्रेक्ष्य निकृत्तान् रावणात्मजः । चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥६-७१-८०॥
स संधाय महातेजास्तं बाणं सहसोत्सृजत् । तेन सौमित्रिमायान्तमाजघान स्तनान्तरे ॥६-७१-८१॥
अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि । सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥६-७१-८२॥
स चकार तदात्मानं विशल्यं सहसा विभुः । जग्राह च शरं तीक्ष्णमस्त्रेणापि समाददे ॥६-७१-८३॥
आग्नेयेन तदास्त्रेण योजयामास सायकम् । स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥६-७१-८४॥
अतिकायोऽतितेजस्वी रौद्रमस्त्रं समाददे । तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥६-७१-८५॥
तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम् । अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥६-७१-८६॥
आग्नेयास्त्राभिसंयुक्तं दृष्ट्वा बाणं निशाचरः । उत्ससर्ज तदा बाणं रौद्रं सूर्यास्त्रयोजितम् ॥६-७१-८७॥
तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः । तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥६-७१-८८॥
तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले ॥६-७१-८९॥
निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ । तावुभौ दीप्यमानौ स्म न भ्राजेते महीतले ॥६-७१-९०॥
ततोऽतिकायः संक्रुद्धस्त्वाष्ट्रमैषीकमुत्सृजत् । ततश्चिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥६-७१-९१॥
ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः । याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ॥६-७१-९२॥
ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥६-७१-९३॥
अथैनं शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम् ॥६-७१-९४॥
तेऽतिकायं समासाद्य कवचे वज्रभूषिते । भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥६-७१-९५॥
तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षत बाणानां सहस्रेण महायशाः ॥६-७१-९६॥
स वृष्यमाणो बाणौघैरतिकायो महाबलः । अवध्यकवचः संख्ये राक्षसो नैव विव्यथे ॥६-७१-९७॥
शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥६-७१-९८॥
मुहूर्तमात्रं निःसंज्ञो ह्यभवच्छत्रुतापनः । ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ॥६-७१-९९॥
निजघान हयान् संख्ये सारथिं च महाबलः । ध्वजस्योन्मथनं कृत्वा शरवर्षैररिंदमः ॥६-७१-१००॥
असम्भ्रान्तः स सौमित्रिस्तान् शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ॥६-७१-१०१॥
न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥६-७१-१०२॥
ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः । ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा । अवध्य एष ह्यन्येषामस्त्राणां कवची बली ॥६-७१-१०३॥
ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः । समादधे बाणमथोग्रवेगं तद्ब्राह्ममस्त्रं सहसा नियुज्य ॥६-७१-१०४॥
तस्मिन् वरास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिताग्रे । दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास ररास चोर्वी ॥६-७१-१०५॥
तं ब्रह्मणोऽस्त्रेण नियुज्य चापे शरं सपुङ्खं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ॥६-७१-१०६॥
तं लक्ष्मणोत्सृष्टविवृद्धवेगं समापतन्तं श्वसनोग्रवेगम् । सुपर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ॥६-७१-१०७॥
तं प्रेक्षमाणः सहसातिकायो जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस्तथातिवेगेन जगाम पार्श्वम् ॥६-७१-१०८॥
तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यृष्टिगदाकुठारैः शूलैः शरैश्चाप्यविपन्नचेष्टः ॥६-७१-१०९॥
तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रगृह्य तस्यैव किरीटजुष्टं तदातिकायस्य शिरो जहार ॥६-७१-११०॥
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रमर्दितम् । पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥६-७१-१११॥
तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥६-७१-११२॥
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥६-७१-११३॥
ततस्तत्परितं याता निरपेक्षा निशाचराः । पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥६-७१-११४॥
प्रहर्षयुक्ता बहवस्तु वानराः प्रफुल्लपद्मप्रतिमाननास्तदा । अपूजयँल्लक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥६-७१-११५॥
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः । त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ॥६-७१-११६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अतिकायवधः नाम एकसप्ततितमः सर्गः ॥६-७१॥