देवान्तकादिवधः

युद्धकाण्डः / देवान्तकादिवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे देवान्तकादिवधः नाम सप्ततितमः सर्गः ॥६-७०॥
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥६-७०-१॥
आरूढो मेघसंकाशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वेगवान् ॥६-७०-२॥
भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली । आदाय परिघं घोरमङ्गदं समभिद्रवत् ॥६-७०-३॥
रथमादित्यसंकाशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात् ॥६-७०-४॥
स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥६-७०-५॥
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः । महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम् ॥६-७०-६॥
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः ॥६-७०-७॥
स ववर्ष ततो वृक्षान् शिलाश्च कपिकुञ्जरः । तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥६-७०-८॥
परिघाग्रेण तान् वृक्षान् बभञ्ज स महोदरः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥६-७०-९॥
गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः ॥६-७०-१०॥
देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम् । उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥६-७०-११॥
स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः । न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥६-७०-१२॥
स वेगवान् महावेगं कृत्वा परमदुर्जयः । तलेन समभिद्रुत्य जघानास्य महागजम् ॥६-७०-१३॥
तस्य तेन प्रहारेण नागराजस्य संयुगे । पेततुर्नयने तस्य विननाश स कुञ्जरः ॥६-७०-१४॥
विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः । देवान्तकमभिद्रुत्य ताडयामास संयुगे ॥६-७०-१५॥
स विह्वलस्तु तेजस्वी वातोद्धूत इव द्रुमः । लाक्षारससवर्णं च सुस्राव रुधिरं महत् ॥६-७०-१६॥
अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली । आविध्य परिघं वेगादाजघान तदाङ्गदम् ॥६-७०-१७॥
परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा । जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥६-७०-१८॥
तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः । घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥६-७०-१९॥
ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः । हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः ॥६-७०-२०॥
ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा । तद् रावणसुतो धीमान् बिभेद निशितैः शरैः ॥६-७०-२१॥
तद्बाणशतनिर्भिन्नं विदारितशिलातलम् । सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥६-७०-२२॥
स विजृम्भितमालोक्य हर्षाद् देवान्तको बली । परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥६-७०-२३॥
तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः । आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥६-७०-२४॥
शिरसि प्राहरद् वीरस्तदा वायुसुतो बली । नादेनाकम्पयच्चैव राक्षसान् स महाकपिः ॥६-७०-२५॥
स मुष्टिनिष्पिष्टविभिन्नमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वः । देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥६-७०-२६॥
तस्मिन् हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ । क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥६-७०-२७॥
महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्याशु मन्दरं रश्मिवानिव ॥६-७०-२८॥
ततो बाणमयं वर्षं नीलस्योपर्यपातयत् । गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः ॥६-७०-२९॥
ततः शरौघैरभिवृष्यमाणो विभिन्नगात्रः कपिसैन्यपालः । नीलो बभूवाथ विसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥६-७०-३०॥
ततस्तु नीलः प्रतिलब्धसंज्ञः शैलं समुत्पाट्य सवृक्षखण्डम् । ततः समुत्पत्य महोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥६-७०-३१॥
ततः स शैलाभिनिपातभग्नो महोदरस्तेन महाद्विपेन । व्यामोहितो भूमितले गतासुः पपात वज्राभिहतो यथाद्रिः ॥६-७०-३२॥
पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे । हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥६-७०-३३॥
स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥६-७०-३४॥
तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥६-७०-३५॥
तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥६-७०-३६॥
हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा । विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव ॥६-७०-३७॥
अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः । चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥६-७०-३८॥
दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम् । गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥६-७०-३९॥
तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता । प्रहृष्टा वानरगणा विनेदुर्जलदा यथा ॥६-७०-४०॥
ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः । निचखान तदा खड्गं वानरेन्द्रस्य वक्षसि ॥६-७०-४१॥
खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः । आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान् ॥६-७०-४२॥
स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि । निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥६-७०-४३॥
स तस्य पततः खड्गं तमाच्छिद्य महाकपिः । ननाद गिरिसंकाशस्त्रासयन् सर्वराक्षसान् ॥६-७०-४४॥
अमृष्यमाणस्तं घोषमुत्पपात निशाचरः । उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥६-७०-४५॥
तेन मुष्टिप्रहारेण संचुकोप महाकपिः । कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ॥६-७०-४६॥
स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि । क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ॥६-७०-४७॥
तान्यायताक्षाण्यगसंनिभानि प्रदीप्तवैश्वानरलोचनानि । पेतुः शिरांसीन्द्ररिपोः पृथिव्यां ज्योतींषि मुक्तानि यथार्कमार्गात् ॥६-७०-४८॥
तस्मिन् हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण । नेदुः प्लवंगाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ॥६-७०-४९॥
हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् । हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥६-७०-५०॥
चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः । जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा ॥६-७०-५१॥
हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् । विराजमानां विपुलां शत्रुशोणिततर्पिताम् ॥६-७०-५२॥
तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम् । ऐरावतमहापद्मसार्वभौमभयावहाम् ॥६-७०-५३॥
गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः । हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥६-७०-५४॥
अथर्षभः समुत्पत्य वानरो रावणानुजम् । मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ॥६-७०-५५॥
तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम् । आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥६-७०-५६॥
स तयाभिहतस्तेन गदया वानरर्षभः । भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥६-७०-५७॥
स सम्प्राप्य चिरात् संज्ञामृषभो वानरेश्वरः । क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत ॥६-७०-५८॥
स वेगवान् वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः । संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥६-७०-५९॥
स कृत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः । तां चास्य घोरां यमदण्डकल्पां गदां प्रगृह्याशु तदा ननाद ॥६-७०-६०॥
मुहूर्तमासीत् स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः । उत्पत्य संध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥६-७०-६१॥
स मूर्च्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः । तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्ये ॥६-७०-६२॥
सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वम्भ इवाद्रिराजः ॥६-७०-६३॥
अभिदुद्राव वेगेन गदां तस्य महात्मनः । तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः ॥६-७०-६४॥
मत्तानीकं महात्मा स जघान रणमूर्धनि । स स्वया गदया भग्नो विशीर्णदशनेक्षणः ॥६-७०-६५॥
निपपात तदा मत्तो वज्राहत इवाचलः । विशीर्णनयने भूमौ गतसत्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम् ॥६-७०-६६॥
तस्मिन् हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम् । त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसंनिकाशम् ॥६-७०-६७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे देवान्तकादिवधः नाम सप्ततितमः सर्गः ॥६-७०॥