नरान्तकवधः
युद्धकाण्डः / नरान्तकवधः
Script
Translation
Previous
रावणानुशोकः
Next
देवान्तकादिवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे नरान्तकवधः नाम एकोनसप्ततितमः सर्गः ॥६-६९॥
एवं विलपमानस्य रावणस्य दुरात्मनः ।
श्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ॥६-६९-१॥
एवमेव महावीर्यो हतो नस्तातमध्यमः ।
न तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥६-६९-२॥
नूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो ।
स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥६-६९-३॥
ब्रह्मदत्तास्ति ते शक्तिः कवचं सायको धनुः ।
सहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥६-६९-४॥
त्वयासकृद्धि शस्त्रेण विशस्ता देवदानवाः ।
स सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥६-६९-५॥
कामं तिष्ठ महाराज निर्गमिष्याम्यहं रणे ।
उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥६-६९-६॥
शम्बरो देवराजेन नरको विष्णुना यथा ।
तथाद्य शयिता रामो मया युधि निपातितः ॥६-६९-७॥
श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः ।
पुनर्जातमिवात्मानं मन्यते कालचोदितः ॥६-६९-८॥
श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ ।
अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥६-६९-९॥
ततोऽहमहमित्येवं गर्जन्तो नैर्ऋतर्षभाः ।
रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥६-६९-१०॥
अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः ।
सर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ॥६-६९-११॥
सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः ।
सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥६-६९-१२॥
देवैरपि सगन्धर्वैः सकिंनरमहोरगैः ।
सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः ।
सर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥६-६९-१३॥
स तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः ।
रराज राजा मघवान् यथामरैर्वृतो महादानवदर्पनाशनैः ॥६-६९-१४॥
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः ।
आशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ॥६-६९-१५॥
युद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः ।
रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥६-६९-१६॥
तेऽभिवाद्य महात्मानं रावणं लोकरावणम् ।
कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥६-६९-१७॥
सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः ।
निर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥६-६९-१८॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥६-६९-१९॥
ततः सुदर्शनं नागं नीलजीमूतसंनिभम् ।
ऐरावतकुले जातमारुरोह महोदरः ॥६-६९-२०॥
सर्वायुधसमायुक्तस्तूणीभिश्चाप्यलंकृतः ।
रराज गजमास्थाय सवितेवास्तमूर्धनि ॥६-६९-२१॥
हयोत्तमसमायुक्तं सर्वायुधसमाकुलम् ।
आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥६-६९-२२॥
त्रिशिरा रथमास्थाय विरराज धनुर्धरः ।
सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥६-६९-२३॥
त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे ।
हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥६-६९-२४॥
अतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा ।
आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥६-६९-२५॥
सुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् ।
तूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥६-६९-२६॥
स काञ्चनविचित्रेण किरीटेन विराजता ।
भूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ॥६-६९-२७॥
स रराज रथे तस्मिन् राजसूनुर्महाबलः ।
वृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥६-६९-२८॥
हयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् ।
मनोजवं महाकायमारुरोह नरान्तकः ॥६-६९-२९॥
गृहीत्वा प्रासमुल्काभं विरराज नरान्तकः ।
शक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥६-६९-३०॥
देवान्तकः समादाय परिघं हेमभूषणम् ।
परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥६-६९-३१॥
महापार्श्वो महातेजा गदामादाय वीर्यवान् ।
विरराज गदापाणिः कुबेर इव संयुगे ॥६-६९-३२॥
ते प्रतस्थुर्महात्मानोऽमरावत्याः सुरा इव ।
तान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः ॥६-६९-३३॥
अनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः ।
ते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ॥६-६९-३४॥
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ।
प्रगृहीता बभौ तेषां शस्त्राणामवलिः सिता ॥६-६९-३५॥
शरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे ।
मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥६-६९-३६॥
इति कृत्वा मतिं वीराः संजग्मुः संयुगार्थिनः ।
जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥६-६९-३७॥
जगृहुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः ।
क्ष्वेडितास्फोटितानां वै संचचालेव मेदिनी ॥६-६९-३८॥
रक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम् ।
तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ॥६-६९-३९॥
ददृशुर्वानरानीकं समुद्यतशिलानगम् ।
हरयोऽपि महात्मानो ददृशू राक्षसं बलम् ॥६-६९-४०॥
हस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ।
नीलजीमूतसंकाशं समुद्यतमहायुधम् ॥६-६९-४१॥
दीप्तानलरविप्रख्यैर्नैर्ऋतैः सर्वतो वृतम् ।
तद् दृष्ट्वा बलमायातं लब्धलक्षाः प्लवङ्गमाः ॥६-६९-४२॥
समुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः ।
अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः ॥६-६९-४३॥
ततः समुत्कृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् ।
अमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं प्रणेदुः ॥६-६९-४४॥
ते राक्षसबलं घोरं प्रविश्य हरियूथपाः ।
विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥६-६९-४५॥
केचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः ।
रक्षःसैन्येषु संक्रुद्धाः केचिद् द्रुमशिलायुधाः ॥६-६९-४६॥
द्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः ।
तद् युद्धमभवद् घोरं रक्षोवानरसंकुलम् ॥६-६९-४७॥
ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् ।
बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥६-६९-४८॥
सिंहनादान् विनेदुश्च रणे राक्षसवानराः ।
शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥६-६९-४९॥
निर्जघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् ।
केचिद् रथगतान् वीरान् गजवाजिगतानपि ॥६-६९-५०॥
निर्जघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः ।
शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ॥६-६९-५१॥
चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः ।
राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥६-६९-५२॥
शूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः ।
अन्योन्यं पातयामासुः परस्परजयैषिणः ॥६-६९-५३॥
रिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः ।
ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥६-६९-५४॥
मुहूर्तेनावृता भूमिरभवच्छोणितोक्षिता ।
विकीर्णैः पर्वताकारै रक्षोभिरभिमर्दितैः ।
आसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः ॥६-६९-५५॥
आक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलाश्च वानराः ।
पुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम् ॥६-६९-५६॥
वानरान् वानरैरेव जघ्नुस्ते नैर्ऋतर्षभाः ।
राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥६-६९-५७॥
आक्षिप्य च शिलाः शैलाञ्जघ्नुस्ते राक्षसास्तदा ।
तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥६-६९-५८॥
निर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम् ।
सिंहनादान् विनेदुश्च रणे राक्षसवानराः ॥६-६९-५९॥
छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः ।
रुधिरं प्रसृतास्तत्र रससारमिव द्रुमाः ॥६-६९-६०॥
रथेन च रथं चापि वारणेनापि वारणम् ।
हयेन च हयं केचिन्निर्जघ्नुर्वानरा रणे ॥६-६९-६१॥
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः ।
राक्षसा वानरेन्द्राणां बिभिदुः पादपान् शिलाः ॥६-६९-६२॥
विकीर्णाः पर्वतास्तैश्च द्रुमच्छिन्नैश्च संयुगे ।
हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥६-६९-६३॥
ते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य ।
युद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः ॥६-६९-६४॥
तस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु ।
निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥६-६९-६५॥
ततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य ।
नरान्तको वानरसैन्यमुग्रं महार्णवं मीन इवाविवेश ॥६-६९-६६॥
स वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद ।
एकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥६-६९-६७॥
ददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम् ।
चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥६-६९-६८॥
स तस्य ददृशे मार्गो मांसशोणितकर्दमः ।
पतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥६-६९-६९॥
यावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः ।
तावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥६-६९-७०॥
ज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः ।
ददाह हरिसैन्यानि वनानीव विभावसुः ॥६-६९-७१॥
यावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः ।
तावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥६-६९-७२॥
दिक्षु सर्वासु बलवान् विचचार नरान्तकः ।
प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः ॥६-६९-७३॥
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् ।
उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥६-६९-७४॥
एकेनान्तककल्पेन प्रासेनादित्यतेजसा ।
भग्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥६-६९-७५॥
वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् ।
न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥६-६९-७६॥
पततां हरिवीराणां रूपाणि प्रचकाशिरे ।
वज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥६-६९-७७॥
ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः ।
ते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥६-६९-७८॥
प्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम् ।
नरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ॥६-६९-७९॥
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् ।
गृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥६-६९-८०॥
दृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः ।
कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥६-६९-८१॥
गच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितः ।
क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥६-६९-८२॥
स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा ।
अनीकान्मेघसंकाशादंशुमानिव वीर्यवान् ॥६-६९-८३॥
शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः ।
रराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥६-६९-८४॥
निरायुधो महातेजाः केवलं नखदंष्ट्रवान् ।
नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ॥६-६९-८५॥
तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि ।
अस्मिन् वज्रसमस्पर्शं प्रासं क्षिप्र ममोरसि ॥६-६९-८६॥
अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः ।
संदश्य दशनैरोष्ठं निःश्वस्य च भुजंगवत् ।
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥६-६९-८७॥
स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज ।
स वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥६-६९-८८॥
तं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् ।
तलं समुद्यम्य स वालिपुत्रस्तुरंगमस्याभिजघान मूर्ध्नि ॥६-६९-८९॥
निमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसंनिकाशः ।
स तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥६-६९-९०॥
नरान्तकः क्रोधवशं जगाम हतं तुरंगं पतितं समीक्ष्य ।
स मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥६-६९-९१॥
अथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् ।
मुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिस्मिये च ॥६-६९-९२॥
अथाङ्गदो मृत्युसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् ।
निपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥६-६९-९३॥
स मुष्टिनिर्भिन्ननिमग्नवक्षा ज्वाला वमन् शोणितदिग्धगात्रः ।
नरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥६-६९-९४॥
तदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः ।
बभूव तस्मिन् निहतेऽग्र्यवीर्ये नरान्तके वालिसुतेन संख्ये ॥६-६९-९५॥
अथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् ।
विसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ॥६-६९-९६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नरान्तकवधः नाम एकोनसप्ततितमः सर्गः ॥६-६९॥
Previous
रावणानुशोकः
Next
देवान्तकादिवधः