रावणानुशोकः
युद्धकाण्डः / रावणानुशोकः
Script
Translation
Previous
कुम्भकर्णवधः
Next
नरान्तकवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणानुशोकः नाम अष्टषष्ठितमः सर्गः ॥६-६८॥
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥६-६८-१॥
राजन् स कालसंकाशः संयुक्तः कालकर्मणा ।
विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥६-६८-२॥
प्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा ।
कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥६-६८-३॥
निकृत्तनासाकर्णेन विक्षरद्रुधिरेण च ।
रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥६-६८-४॥
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।
अगण्डभूतो विवृतो दावदग्ध इव द्रुमः ॥६-६८-५॥
श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् ।
रावणः शोकसंतप्तो मुमोह च पपात च ॥६-६८-६॥
पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥६-६८-७॥
भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥६-६८-८॥
ततः कृच्छ्रात् समासाद्य संज्ञां राक्षसपुङ्गवः ।
कुम्भकर्णवधाद् दीनो विललापाकुलेन्द्रियः ॥६-६८-९॥
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।
त्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम् ॥६-६८-१०॥
मम शल्यमनुद्धृत्य बान्धवानां महाबल ।
शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि ॥६-६८-११॥
इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः ।
दक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरात् ॥६-६८-१२॥
कथमेवंविधो वीरो देवदानवदर्पहा ।
कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥६-६८-१३॥
यस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा ।
स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥६-६८-१४॥
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥६-६८-१५॥
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवंगमाः ।
आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥६-६८-१६॥
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।
कुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः ॥६-६८-१७॥
यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् ।
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥६-६८-१८॥
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।
नहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥६-६८-१९॥
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥६-६८-२०॥
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।
यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥६-६८-२१॥
विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः ।
विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥६-६८-२२॥
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।
यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥६-६८-२३॥
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् ।
न्यपतदपि दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥६-६८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणानुशोकः नाम अष्टषष्ठितमः सर्गः ॥६-६८॥
Previous
कुम्भकर्णवधः
Next
नरान्तकवधः