कुम्भकर्णवधः

युद्धकाण्डः / कुम्भकर्णवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णवधः नाम सप्तषष्ठितमः सर्गः ॥६-६७॥
ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः ॥६-६७-१॥
समुदीरितवीर्यास्ते समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन बलीयसा ॥६-६७-२॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥६-६७-३॥
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥६-६७-४॥
कुम्भकर्णः सुसंक्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् स महाकायः समन्ताद् व्यक्षिपद् रिपून् ॥६-६७-५॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥६-६७-६॥
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन् स परिधावति । भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव ॥६-६७-७॥
कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि ॥६-६७-८॥
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः । दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ॥६-६७-९॥
तं समुत्पाट्य चिक्षेप कुम्भकर्णाय वानरः । तमप्राप्य महाकायं तस्य सैन्येऽपतत् ततः ॥६-६७-१०॥
ममर्दाश्वान् गजांश्चापि रथांश्चापि गजोत्तमान् । तानि चान्यानि रक्षांसि एवं चान्यद्गिरेः शिरः ॥६-६७-११॥
तच्छैलवेगाभिहतं हताश्वं हतसारथिम् । रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ॥६-६७-१२॥
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः । शिरांसि नर्दतां जह्रुः सहसा भीमनिःस्वनाः ॥६-६७-१३॥
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् । रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ॥६-६७-१४॥
हनूमान् शैलशृङ्गाणि शिलाश्च विविधान् द्रुमान् । ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥६-६७-१५॥
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह । बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥६-६७-१६॥
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य । तस्थौ स तस्यापततः परस्तान्महीधराग्रं हनुमान् प्रगृह्य ॥६-६७-१७॥
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् । संचुक्षुभे तेन तदाभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ॥६-६७-१८॥
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्निशृङ्गम् । बाह्वन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥६-६७-१९॥
स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात् । ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥६-६७-२०॥
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवंगमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥६-६७-२१॥
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥६-६७-२२॥
तदापतन्तं सम्प्रेक्ष्य मुष्टिनाभिजघान ह । मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत । सविस्फुलिङ्गं सज्वालं निपपात महीतले ॥६-६७-२३॥
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः । पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥६-६७-२४॥
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः । कुम्भकर्णं महाकायं निजघ्नुः सर्वतो युधि ॥६-६७-२५॥
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे । ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥६-६७-२६॥
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः । निपपातर्षभो भीमः प्रमुखागतशोणितः ॥६-६७-२७॥
मुष्टिना शरभं हत्वा जानुना नीलमाहवे । आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम् ॥६-६७-२८॥
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः । निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥६-६७-२९॥
तेषु वानरमुख्येषु पातितेषु महात्मसु । वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥६-६७-३०॥
तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः । समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥६-६७-३१॥
तं नखैर्दशनैश्चापि मुष्टिभिर्बाहुभिस्तथा । कुम्भकर्णं महाबाहुं निजघ्नुः प्लवगर्षभाः ॥६-६७-३२॥
स वानरसहस्रैस्तु विचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥६-६७-३३॥
बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः । भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥६-६७-३४॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां संजग्मुः कर्णाभ्यां चैव वानराः ॥६-६७-३५॥
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः । बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः ॥६-६७-३६॥
मांसशोणितसंक्लेदां कुर्वन् भूमिं स राक्षसः । चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥६-६७-३७॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलहस्तो बभौ युद्धे कुम्भकर्णो महाबलः ॥६-६७-३८॥
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥६-६७-३९॥
ततस्ते वध्यमानास्तु हतयूथाः प्लवंगमाः । वानरा भयसंविग्ना विनेदुर्विकृतैः स्वरैः ॥६-६७-४०॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवं शरणं जग्मुर्व्यथिता भिन्नचेतसः ॥६-६७-४१॥
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः । अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥६-६७-४२॥
शैलशृङ्गं महद् गृह्य विनदन् स मुहुर्मुहुः । त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ॥६-६७-४३॥
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ॥६-६७-४४॥
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥६-६७-४५॥
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् । शूलं ससर्ज वै रोषादङ्गदे तु महाबलः ॥६-६७-४६॥
तदापतन्तं बलवान् युद्धमार्गविशारदः । लाघवान्मोक्षयामास बलवान् वानरर्षभः ॥६-६७-४७॥
उत्पत्य चैनं तरसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ॥६-६७-४८॥
स लब्धसंज्ञोऽतिबलो मुष्टिं संगृह्य राक्षसः । अपहस्तेन चिक्षेप विसंज्ञः स पपात ह ॥६-६७-४९॥
तस्मिन् प्लवगशार्दूले विसंज्ञे पतिते भुवि । तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥६-६७-५०॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥६-६७-५१॥
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥६-६७-५२॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवंगमम् । तस्थौ विवृत्तसर्वाङ्गो वानरेन्द्रस्य सम्मुखः ॥६-६७-५३॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् । कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥६-६७-५४॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥६-६७-५५॥
त्यज तद् वानरानीकं प्राकृतैः किं करिष्यसि । सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥६-६७-५६॥
तद् वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद् वचः ॥६-६७-५७॥
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः । धृतिपौरुषसम्पन्नस्तस्माद् गर्जसि वानर ॥६-६७-५८॥
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच । तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसंनिभेन ॥६-६७-५९॥
तच्छैलशृङ्गं सहसा विभिन्नं भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवंगा रक्षोगणाश्चापि मुदा विनेदुः ॥६-६७-६०॥
स शैलशृङ्गाभिहतश्चुकोप ननाद रोषाच्च विवृत्य वक्त्रम् । व्याविध्य शूलं स तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ॥६-६७-६१॥
तत् कुम्भकर्णस्य भुजप्रणुन्नं शूलं शितं काञ्चनधामयष्टिम् । क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥६-६७-६२॥
कृतं भारसहस्रस्य शूलं कालायसं महत् । बभञ्ज जानुमारोप्य तदा हृष्टः प्लवंगमः ॥६-६७-६३॥
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥६-६७-६४॥
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत् । सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः । मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलं तथागतम् ॥६-६७-६५॥
स तत् तथा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा । उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥६-६७-६६॥
स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥६-६७-६७॥
समभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमिव प्रचण्डः ॥६-६७-६८॥
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो मेरुर्यथा व्युच्छ्रितघोरशृङ्गः ॥६-६७-६९॥
ततस्तमादाय जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रः । शृण्वन् निनादं त्रिदिवालयानां प्लवङ्गराजग्रहविस्मितानाम् ॥६-६७-७०॥
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन् हते सर्वमिदं हतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ॥६-६७-७१॥
विद्रुतां वाहिनीं दृष्ट्वा वानराणामितस्ततः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥६-६७-७२॥
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥६-६७-७३॥
यद्धि न्याय्यं मया कर्तुं तत् करिष्याम्यसंशयम् । भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥६-६७-७४॥
मया हते संयति कुम्भकर्णे महाबले मुष्टिविशीर्णदेहे । विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समग्राः ॥६-६७-७५॥
अथवा स्वयमप्येष मोक्षं प्राप्स्यति वानरः । गृहीतोऽयं यदि भवेत् त्रिदशैः सासुरोरगैः ॥६-६७-७६॥
मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥६-६७-७७॥
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ॥६-६७-७८॥
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ॥६-६७-७९॥
तस्मान्मुहूर्तं कांक्षिष्ये विक्रमं मोक्षितस्य तु । भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥६-६७-८०॥
इत्येवं चिन्तयित्वाथ हनूमान् मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥६-६७-८१॥
स कुम्भकर्णोऽथ विवेश लङ्कां स्फुरन्तमादाय महाहरिं तम् । विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरभिपूज्यमानः ॥६-६७-८२॥
लाजगन्धोदवर्षैस्तु सेच्यमानः शनैः शनैः । राजवीथ्यास्तु शीतत्वात् संज्ञां प्राप महाबलः ॥६-६७-८३॥
ततः स संज्ञामुपलभ्य कृच्छ्राद् बलीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥६-६७-८४॥
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य । तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥६-६७-८५॥
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रोः । खरैश्च कर्णौ दशनैश्च नासां ददंश पादैर्विददार पार्श्वौ ॥६-६७-८६॥
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन रदैर्नखैश्च । रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥६-६७-८७॥
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः । जगाम खं कन्दुकवज्जवेन पुनश्च रामेण समाजगाम ॥६-६७-८८॥
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः । रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥६-६७-८९॥
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः । युद्धायाभिमुखो भूयो मनश्चक्रे निशाचरः ॥६-६७-९०॥
अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः । नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः ॥६-६७-९१॥
गते च तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः । अनायुधोऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥६-६७-९२॥
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम् । बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रवृद्धः ॥६-६७-९३॥
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद् वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन् पिशाचान्नृक्षांश्च मोहाद् युधि कुम्भकर्णः । यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥६-६७-९४॥
एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥६-६७-९५॥
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः । वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥६-६७-९६॥
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् । कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ॥६-६७-९७॥
शतानि सप्त चाष्टौ च विंशत् त्रिंशत् तथैव च । सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ॥६-६७-९८॥
मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः । ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः ॥६-६७-९९॥
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ॥६-६७-१००॥
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् । निचखानाददे चान्यान् विससर्ज च लक्ष्मणः ॥६-६७-१०१॥
पीड्यमानस्तदस्त्रं तु विशेषं तत् स राक्षसः । ततश्चुकोप बलवान् सुमित्रानन्दवर्धनः ॥६-६७-१०२॥
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभम् । प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः ॥६-६७-१०३॥
नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः । आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥६-६७-१०४॥
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञमेव प्रोवाच वाक्यं मेघौघनिःस्वनः ॥६-६७-१०५॥
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥६-६७-१०६॥
प्रगृहीतायुधस्येह मृत्योरिव महामृधे । तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः ॥६-६७-१०७॥
ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः । नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ॥६-६७-१०८॥
अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमैः । तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ॥६-६७-१०९॥
यत् तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया । राममेवैकमिच्छामि हन्तुं यस्मिन् हते हतम् ॥६-६७-११०॥
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे । तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥६-६७-१११॥
इत्युक्तवाक्यं तद् रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥६-६७-११२॥
यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम् । तत् सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥६-६७-११३॥
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः । इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥६-६७-११४॥
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः । राममेवाभिदुद्राव कम्पयन्निव मेदिनीम् ॥६-६७-११५॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥६-६७-११६॥
तस्य रामेण विद्धस्य सहसाभिप्रधावतः । अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥६-६७-११७॥
रामास्त्रविद्धो घोरं वै नर्दन् राक्षसपुङ्गवः । अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे ॥६-६७-११८॥
तस्योरसि निमग्नास्ते शरा बर्हिणवाससः । हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्यां पपात ह ॥६-६७-११९॥
आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले । स निरायुधमात्मानं यदा मेने महाबलः ॥६-६७-१२०॥
मुष्टिभ्यां च कराभ्यां च चकार कदनं महत् । स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः । रुधिरं परिसुस्राव गिरिः प्रस्रवणं यथा ॥६-६७-१२१॥
स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः । वानरान् राक्षसानृक्षान् खादन् स परिधावति ॥६-६७-१२२॥
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः । चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥६-६७-१२३॥
अप्राप्तमन्तरा रामः सप्तभिस्तमजिह्मगैः । चिच्छेद गिरिशृङ्गं तं पुनः संधाय कार्मुकम् ॥६-६७-१२४॥
ततस्तु रामो धर्मात्मा तस्य शृङ्गं महत् तदा । शरैः काञ्चनचित्राङ्गैश्चिच्छेद भरताग्रजः ॥६-६७-१२५॥
तन्मेरुशिखराकारं द्योतमानमिव श्रिया । द्वे शते वानराणां च पतमानमपातयत् ॥६-६७-१२६॥
तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत् । कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ॥६-६७-१२७॥
नैवायं वानरान् राजन् न विजानाति राक्षसान् । मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ॥६-६७-१२८॥
साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः । यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्मिन् समन्ततः ॥६-६७-१२९॥
अद्यायं दुर्मतिः काले गुरुभारप्रपीडितः । प्रचरन् राक्षसो भूमौ नान्यान् हन्यात् प्लवंगमान् ॥६-६७-१३०॥
तस्य तद् वचनं श्रुत्वा राजपुत्रस्य धीमतः । ते समारुरुहुर्हृष्टाः कुम्भकर्णं महाबलाः ॥६-६७-१३१॥
कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः । व्यधूनयत् तान् वेगेन दुष्टहस्तीव हस्तिपान् ॥६-६७-१३२॥
तान् दृष्ट्वा निर्धुतान् रामो रुष्टोऽयमिति राक्षसम् । समुत्पपात वेगेन धनुरुत्तममाददे ॥६-६७-१३३॥
क्रोधरक्तेक्षणो धीरो निर्दहन्निव चक्षुषा । राघवो राक्षसं वेगादभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णबलार्दितान् ॥६-६७-१३४॥
स चापमादाय भुजंगकल्पं दृढज्यमुग्रं तपनीयचित्रम् । हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ॥६-६७-१३५॥
स वानरगणैस्तैस्तु वृतः परमदुर्जयैः । लक्ष्मणानुचरो वीरः सम्प्रतस्थे महाबलः ॥६-६७-१३६॥
स ददर्श महात्मानं किरीटिनमरिंदमम् । शोणिताप्लुतरक्ताक्षं कुम्भकर्णं महाबलः ॥६-६७-१३७॥
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ॥६-६७-१३८॥
विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्राद् वर्षमेघमिवोत्थितम् ॥६-६७-१३९॥
जिह्वया परिलिह्यन्तं सृक्किणी शोणितोक्षिते । मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ॥६-६७-१४०॥
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् । विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥६-६७-१४१॥
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः । अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥६-६७-१४२॥
ततस्तु वातोद्धतमेघकल्पं भुजंगराजोत्तमभोगबाहुः । तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥६-६७-१४३॥
आगच्छ रक्षोऽधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः । अवेहि मां राक्षसवंशनाशनं यस्त्वं मुहूर्ताद् भविता विचेताः ॥६-६७-१४४॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे ॥६-६७-१४५॥
दारयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ॥६-६७-१४६॥
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् । नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णः समागतः ॥६-६७-१४७॥
पश्य मे मुद्गरं भीमं सर्वं कालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥६-६७-१४८॥
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि । स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥६-६७-१४९॥
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मेऽनघ । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥६-६७-१५०॥
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान् । तैराहतो वज्रसमप्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥६-६७-१५१॥
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च । ते कुम्भकर्णस्य तदा शरीरं वज्रोपमा न व्यथयाम्प्रचक्रुः ॥६-६७-१५२॥
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥६-६७-१५३॥
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् । व्याविध्य तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥६-६७-१५४॥
वायव्यमादाय ततोऽपरास्त्रं रामः प्रचिक्षेप निशाचराय । समुद्गरं तेन जहार बाहुं स कृत्तबाहुस्तुमुलं ननाद ॥६-६७-१५५॥
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः । पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहिनीं च ॥६-६७-१५६॥
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रपीडिताङ्गा ददृशुः सुघोरं नरेन्द्ररक्षोऽधिपसंनिपातम् ॥६-६७-१५७॥
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्महासिकृत्ताग्र इवाचलेन्द्रः । उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ॥६-६७-१५८॥
तं तस्य बाहुं सहतालवृक्षं समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥६-६७-१५९॥
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसंनिकाशः । विचेष्टमानो निजघान वृक्षान् शैलान् शिलावानरराक्षसांश्च ॥६-६७-१६०॥
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥६-६७-१६१॥
तौ तस्य पादौ प्रदिशो दिशश्च गिरेर्गुहाश्चैव महार्णवं च । लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥६-६७-१६२॥
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामं सहसाभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ॥६-६७-१६३॥
अपूरयत् तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः । सम्पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमूर्च्छ चापि ॥६-६७-१६४॥
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ॥६-६७-१६५॥
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥६-६७-१६६॥
स सायको राघवबाहुचोदितो दिशःस्वभासा दश सम्प्रकाशयन् । विधूमवैश्वानरभीमदर्शनो जगाम शक्राशनिभीमविक्रमः ॥६-६७-१६७॥
स तन्महापर्वतकूटसंनिभं सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा यथैव वृत्रस्य पुरा पुरंदरः ॥६-६७-१६८॥
कुम्भकर्णशिरो भाति कुण्डलालंकृतं महत् । आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥६-६७-१६९॥
तद् रामबाणाभिहतं पपात रक्षःशिरः पर्वतसंनिकाशम् । बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥६-६७-१७०॥
तच्चातिकायं हिमवत् प्रकाशं रक्षस्तदा तोयनिधौ पपात । ग्राहान् परान् मीनवरान् भुजंगमान् ममर्द भूमिं च तथा विवेश ॥६-६७-१७१॥
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥६-६७-१७२॥
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः । सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥६-६७-१७३॥
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः । विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतंगजाः ॥६-६७-१७४॥
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद् विमुक्तः । तथा व्यभासीद्धरिसैन्यमध्ये निहत्य रामो युधि कुम्भकर्णम् ॥६-६७-१७५॥
प्रहर्षमीयुर्बहवश्च वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले नृपात्मजम् ॥६-६७-१७६॥
स कुम्भकर्णं सुरसैन्यमर्दनं महत्सु युद्धेषु कदाचनाजितम् । ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥६-६७-१७७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णवधः नाम सप्तषष्ठितमः सर्गः ॥६-६७॥