वानरपर्यवस्थापनम्

युद्धकाण्डः / वानरपर्यवस्थापनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे वानरपर्यवस्थापनम् नाम षट्षष्ठितमः सर्गः ॥६-६६॥
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ॥६-६६-१॥
ननाद च महानादं समुद्रमभिनादयन् । विजयन्निव निर्घातान् विधमन्निव पर्वतान् ॥६-६६-२॥
तमवध्यं मघवता यमेन वरुणेन वा । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥६-६६-३॥
तांस्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥६-६६-४॥
आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥६-६६-५॥
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥६-६६-६॥
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥६-६६-७॥
कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः । वृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे ॥६-६६-८॥
ते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥६-६६-९॥
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥६-६६-१०॥
तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥६-६६-११॥
सोऽपि सैन्यानि संक्रुद्धौ वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥६-६६-१२॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥६-६६-१३॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । केचित् समुद्रे पतिताः केचिद् गगनमास्थिताः ॥६-६६-१४॥
वध्यमानास्तु ते वीरा राक्षसेन च लीलया । सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥६-६६-१५॥
ते स्थलानि तदा निम्नं विवर्णवदना भयात् । ऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥६-६६-१६॥
ममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः । निपेतुः केचिदपरे केचिन्नैवावतस्थिरे । केचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव ॥६-६६-१७॥
तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् । अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ॥६-६६-१८॥
भग्नानां वो न पश्यामि परिक्रम्य महीमिमाम् । स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥६-६६-१९॥
निरायुधानां क्रमतामसङ्गगतिपौरुषाः । दारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम् ॥६-६६-२०॥
कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥६-६६-२१॥
विकत्थनानि वो यानि भवद्भिर्जनसंसदि । तानि वः क्व नु यातानि सोदग्राणि हितानि च ॥६-६६-२२॥
भीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥६-६६-२३॥
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ॥६-६६-२४॥
अवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥६-६६-२५॥
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥६-६६-२६॥
पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥६-६६-२७॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥६-६६-२८॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥६-६६-२९॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥६-६६-३०॥
द्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः । सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः ॥६-६६-३१॥
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥६-६६-३२॥
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥६-६६-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे वानरपर्यवस्थापनम् नाम षट्षष्ठितमः सर्गः ॥६-६६॥