कुम्भकर्णाभिषेणनम्
युद्धकाण्डः / कुम्भकर्णाभिषेणनम्
Script
Translation
Previous
सीताप्रलोभनोपायः
Next
वानरपर्यवस्थापनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णाभिषेणनम् नाम पञ्चषष्ठितमः सर्गः ॥६-६५॥
स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् ।
अब्रवीद् राक्षसश्रेष्ठं भ्रातरं रावणं ततः ॥६-६५-१॥
सोऽहं तव भयं घोरं वधात् तस्य दुरात्मनः ।
रामस्याद्य प्रमार्जामि निर्वैरो हि सुखी भव ॥६-६५-२॥
गर्जन्ति न वृथा शूरा निर्जला इव तोयदाः ।
पश्य सम्पद्यमानं तु गर्जितं युधि कर्मणा ॥६-६५-३॥
न मर्षयन्ति चात्मानं सम्भावयितुमात्मना ।
अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥६-६५-४॥
विक्लवानां ह्यबुद्धीनां राज्ञां पण्डितमानिनाम् ।
रोचते त्वद्वचो नित्यं कथ्यमानं महोदर ॥६-६५-५॥
युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः ।
राजानमनुगच्छद्भिः सर्वं कृत्यं विनाशितम् ॥६-६५-६॥
राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम् ।
राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥६-६५-७॥
एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये ।
दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥६-६५-८॥
एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः ।
प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः ॥६-६५-९॥
महोदरोऽयं रामात् तु परित्रस्तो न संशयः ।
न हि रोचयते तात युद्धं युद्धविशारद ॥६-६५-१०॥
कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च ।
गच्छ शत्रुवधाय त्वं कुम्भकर्ण जयाय च ॥६-६५-११॥
शयानः शत्रुनाशार्थं भवान् सम्बोधितो मया ।
अयं हि कालः सुमहान् राक्षसानामरिंदम ॥६-६५-१२॥
संगच्छ शूलमादाय पाशहस्त इवान्तकः ।
वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥६-६५-१३॥
समालोक्य तु ते रूपं विद्रविष्यन्ति वानराः ।
रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥६-६५-१४॥
एवमुक्त्वा महातेजाः कुम्भकर्णं महाबलम् ।
पुनर्जातमिवात्मानं मेने राक्षसपुङ्गवः ॥६-६५-१५॥
कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् ।
बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥६-६५-१६॥
इत्येवमुक्तः संहृष्टो निर्जगाम महाबलः ।
राज्ञस्तु वचनं श्रुत्वा योद्धुमुद्युक्तवांस्तदा ॥६-६५-१७॥
आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः ।
सर्वं कालायसं दीप्तं तप्तकाञ्चनभूषणम् ॥६-६५-१८॥
इन्द्राशनिसमप्रख्यं वज्रप्रतिमगौरवम् ।
देवदानवगन्धर्वयक्षपन्नगसूदनम् ॥६-६५-१९॥
रक्तमाल्यमहादामं स्वतश्चोद्गतपावकम् ।
आदाय विपुलं शूलं शत्रुशोणितरञ्जितम् ॥६-६५-२०॥
कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत् ।
गमिष्याम्यहमेकाकी तिष्ठत्विह बलं मम ॥६-६५-२१॥
अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् ।
कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥६-६५-२२॥
सैन्यैः परिवृतो गच्छ शूलमुद्गरपाणिभिः ।
वानरा हि महात्मानः शूराः सुव्यवसायिनः ॥६-६५-२३॥
एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम् ।
तस्मात् परमदुर्धर्षः सैन्यैः परिवृतो व्रज ।
रक्षसामहितं सर्वं शत्रुपक्षं निषूदय ॥६-६५-२४॥
अथासनात् समुत्पत्य स्रजं मणिकृतान्तराम् ।
आबबन्ध महातेजाः कुम्भकर्णस्य रावणः ॥६-६५-२५॥
अङ्गदान्यङ्गुलीवेष्टान् वराण्याभरणानि च ।
हारं च शशिसंकाशमाबबन्ध महात्मनः ॥६-६५-२६॥
दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ।
गात्रेषु सज्जयामास श्रोत्रयोश्चास्य कुण्डले ॥६-६५-२७॥
काञ्चनाङ्गदकेयूरनिष्काभरणभूषितः ।
कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥६-६५-२८॥
श्रोणीसूत्रेण महता मेचकेन व्यराजत ।
अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः ॥६-६५-२९॥
स काञ्चनं भारसहं निवातं विद्युत्प्रभं दीप्तमिवात्मभासा ।
आबध्यमानः कवचं रराज संध्याभ्रसंवीत इवाद्रिराजः ॥६-६५-३०॥
सर्वाभरणसर्वाङ्गः शूलपाणिः स राक्षसः ।
त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥६-६५-३१॥
भ्रातरं सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् ।
प्रणम्य शिरसा तस्मै प्रतस्थे स महाबलः ॥६-६५-३२॥
तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ।
शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः ॥६-६५-३३॥
तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः ।
अनुजग्मुर्महात्मानो रथिनो रथिनां वरम् ॥६-६५-३४॥
सर्पैरुष्ट्रैः खरैश्चैव सिंहद्विपमृगद्विजैः ।
अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम् ॥६-६५-३५॥
स पुष्पवर्षैरवकीर्यमाणो धृतातपत्रः शितशूलपाणिः ।
मदोत्कटः शोणितगन्धमत्तो विनिर्ययौ दानवदेवशत्रुः ॥६-६५-३६॥
पदातयश्च बहवो महानादा महाबलाः ।
अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥६-६५-३७॥
रक्ताक्षाः सुबहुव्यामा नीलाञ्जनचयोपमाः ।
शूलानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥६-६५-३८॥
भिन्दिपालांश्च परिघान् गदाश्च मुसलानि च ।
तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान् ॥६-६५-३९॥
अथान्यद्वपुरादाय दारुणं घोरदर्शनम् ।
निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥६-६५-४०॥
धनुःशतपरीणाहः स षट्शतसमुच्छ्रितः ।
रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥६-६५-४१॥
संनिपत्य च रक्षांसि दग्धशैलोपमो महान् ।
कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥६-६५-४२॥
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
निर्दहिष्यामि संक्रुद्धः पतङ्गानिव पावकः ॥६-६५-४३॥
नापराध्यन्ति मे कामं वानरा वनचारिणः ।
जातिरस्मद्विधानां सा पुरोद्यानविभूषणम् ॥६-६५-४४॥
पुररोधस्य मूलं तु राघवः सहलक्ष्मणः ।
हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे ॥६-६५-४५॥
एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः ।
नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥६-६५-४६॥
तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः ।
बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥६-६५-४७॥
उल्काशनियुता मेघा बभूवुर्गर्दभारुणाः ।
ससागरवना चैव वसुधा समकम्पत ॥६-६५-४८॥
घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः ।
मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ॥६-६५-४९॥
निष्पपात च गृध्रोऽस्य शूले वै पथि गच्छतः ।
प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत ॥६-६५-५०॥
निष्पपात तदा चोल्का ज्वलन्ती भीमनिःस्वना ।
आदित्यो निष्प्रभश्चासीन्न वाति च सुखोऽनिलः ॥६-६५-५१॥
अचिन्तयन् महोत्पातानुदितान् रोमहर्षणान् ।
निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥६-६५-५२॥
स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः ।
ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम् ॥६-६५-५३॥
ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम् ।
वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥६-६५-५४॥
तद् वानरानीकमतिप्रचण्डं दिशो द्रवद्भिन्नमिवाभ्रजालम् ।
स कुम्भकर्णः समवेक्ष्य हर्षान्ननाद भूयो घनवद्घनाभः ॥६-६५-५५॥
ते तस्य घोरं निनदं निशम्य यथा निनादं दिवि वारिदस्य ।
पेतुर्धरण्यां बहवः प्लवङ्गा निकृत्तमूला इव शालवृक्षाः ॥६-६५-५६॥
विपुलपरिघवान् स कुम्भकर्णो रिपुनिधनाय विनिःसृतो महात्मा ।
कपिगणभयमाददत् सुभीमं प्रभुरिव किंकरदण्डवान् युगान्ते ॥६-६५-५७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णाभिषेणनम् नाम पञ्चषष्ठितमः सर्गः ॥६-६५॥
Previous
सीताप्रलोभनोपायः
Next
वानरपर्यवस्थापनम्