सीताप्रलोभनोपायः
युद्धकाण्डः / सीताप्रलोभनोपायः
Script
Translation
Previous
कुम्भकर्णानुशोकः
Next
कुम्भकर्णाभिषेणनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सीताप्रलोभनोपायः नाम चतुःषष्ठितमः सर्गः ॥६-६४॥
तदुक्तमतिकायस्य बलिनो बाहुशालिनः ।
कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥६-६४-१॥
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः ।
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥६-६४-२॥
नहि राजा न जानीते कुम्भकर्ण नयानयौ ।
त्वं तु कैशोरकाद् धृष्टः केवलं वक्तुमिच्छसि ॥६-६४-३॥
स्थानं वृद्धिं च हानिं च देशकालविधानवित् ।
आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥६-६४-४॥
यत् त्वशक्यं बलवता वक्तुं प्राकृतबुद्धिना ।
अनुपासितवृद्धेन कः कुर्यात् तादृशं बुधः ॥६-६४-५॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ।
अवबोद्धुं स्वभावेन नहि लक्षणमस्ति तान् ॥६-६४-६॥
कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥६-६४-७॥
निःश्रेयसफलावेव धर्मार्थावितरावपि ।
अधर्मानर्थयोः प्राप्तं फलं च प्रत्यवायिकम् ॥६-६४-८॥
ऐहलौकिकपारक्यं कर्म पुंभिर्निषेव्यते ।
कर्माण्यपि तु कल्याणि लभते काममास्थितः ॥६-६४-९॥
तत्र क्लृप्तमिदं राज्ञा हृदि कार्यं मतं च नः ।
शत्रौ हि साहसं यत् तत् किमिवात्रापनीयते ॥६-६४-१०॥
एकस्यैवाभियाने तु हेतुर्यः प्राहृतस्त्वया ।
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥६-६४-११॥
येन पूर्वं जनस्थाने बहवोऽतिबला हताः ।
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥६-६४-१२॥
ये पूर्वं निर्जितास्तेन जनस्थाने महौजसः ।
राक्षसांस्तान् पुरे सर्वान् भीतानद्य न पश्यसि ॥६-६४-१३॥
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ।
सर्पं सुप्तमहो बुद्ध्वा प्रबोधयितुमिच्छसि ॥६-६४-१४॥
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ।
कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥६-६४-१५॥
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ।
एकस्य गमनं तात नहि मे रोचते भृशम् ॥६-६४-१६॥
हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतं यथा ।
निश्चितं जीवितत्यागे वशमानेतुमिच्छति ॥६-६४-१७॥
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ।
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥६-६४-१८॥
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः ।
उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥६-६४-१९॥
लब्ध्वा पुरस्ताद् वैदेहीं किमर्थं त्वं विलम्बसे ।
यदीच्छसि तदा सीता वशगा ते भविष्यति ॥६-६४-२०॥
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ।
रुचितश्चेत् स्वया बुद्ध्या राक्षसेन्द्र ततः शृणु ॥६-६४-२१॥
अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः ।
पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥६-६४-२२॥
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ।
जेष्यामो यदि ते शत्रून् नोपायैः कार्यमस्ति नः ॥६-६४-२३॥
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।
ततः समभिपत्स्यामो मनसा यत् समीक्षितम् ॥६-६४-२४॥
वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः ।
विदार्य स्वतनुं बाणै रामनामाङ्कितैः शरैः ॥६-६४-२५॥
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ।
ततः पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥६-६४-२६॥
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ।
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥६-६४-२७॥
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ।
भोगांश्च परिवारांश्च कामान् वसु च दापय ॥६-६४-२८॥
ततो माल्यानि वासांसि वीराणामनुलेपनम् ।
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥६-६४-२९॥
ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते ।
भक्षितः ससुहृद् रामो राक्षसैरिति विश्रुते ॥६-६४-३०॥
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वयन् ।
धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥६-६४-३१॥
अनयोपधया राजन् भूयः शोकानुबन्धया ।
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥६-६४-३२॥
रमणीयं हि भर्तारं विनष्टमधिगम्य सा ।
नैराश्यात् स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥६-६४-३३॥
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता ।
त्वय्यधीनं सुखं ज्ञात्वा सर्वथैव गमिष्यति ॥६-६४-३४॥
एतत् सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः ।
इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥६-६४-३५॥
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपुं त्वयुद्धेन जयञ्जनाधिपः ।
यशश्च पुण्यं च महान्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥६-६४-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सीताप्रलोभनोपायः नाम चतुःषष्ठितमः सर्गः ॥६-६४॥
Previous
कुम्भकर्णानुशोकः
Next
कुम्भकर्णाभिषेणनम्