कुम्भकर्णानुशोकः
युद्धकाण्डः / कुम्भकर्णानुशोकः
Script
Translation
Previous
रावणाभ्यर्थना
Next
सीताप्रलोभनोपायः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णानुशोकः नाम त्रिषष्ठितमः सर्गः ॥६-६३॥
तस्य राक्षसराजस्य निशम्य परिदेवितम् ।
कुम्भकर्णो बभाषेदं वचनं प्रजहास च ॥६-६३-१॥
दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।
हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥६-६३-२॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।
निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥६-६३-३॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् ।
केवलं वीर्यदर्पेण नानुबन्धो विचारितः ॥६-६३-४॥
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।
पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥६-६३-५॥
देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥६-६३-६॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपद्यते ।
सचिवैः समयं कृत्वा स सम्यग् वर्तते पथि ॥६-६३-७॥
यथागमं च यो राजा समयं च चिकीर्षति ।
बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति ॥६-६३-८॥
धर्ममर्थं हि कामं वा सर्वान् वा रक्षसां पते ।
भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥६-६३-९॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।
राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥६-६३-१०॥
उपप्रदानं सान्त्वं च भेदं काले च विक्रमम् ।
योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥६-६३-११॥
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह ।
निषेवेतात्मवाँल्लोके न स व्यसनमाप्नुयात् ॥६-६३-१२॥
हितानुबन्धमालोक्य कुर्यात् कार्यमिहात्मनः ।
राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥६-६३-१३॥
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः ।
प्रागल्भ्याद् वक्तुमिच्छन्ति मन्त्रिष्वभ्यन्तरीकृताः ॥६-६३-१४॥
अशास्त्रविदुषां तेषां कार्यं नाभिहितं वचः ।
अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥६-६३-१५॥
अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
अवश्यं मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥६-६३-१६॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः ।
विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥६-६३-१७॥
तान् भर्ता मित्रसंकाशानमित्रान् मन्त्रनिर्णये ।
व्यवहारेण जानीयात् सचिवानुपसंहितान् ॥६-६३-१८॥
चपलस्येह कृत्यानि सहसानुप्रधावतः ।
छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-६३-१९॥
यो हि शत्रुमवज्ञाय आत्मानं नाभिरक्षति ।
अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥६-६३-२०॥
यदुक्तमिह ते पूर्वं प्रियया मेऽनुजेन च ।
तदेव नो हितं वाक्यं यथेच्छसि तथा कुरु ॥६-६३-२१॥
तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।
भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमभाषत ॥६-६३-२२॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससे ।
किमेवं वाक्श्रमं कृत्वा यद् युक्तं तद् विधीयताम् ॥६-६३-२३॥
विभ्रमाच्चित्तमोहाद् वा बलवीर्याश्रयेण वा ।
नाभिपन्नमिदानीं यद् व्यर्था तस्य पुनः कथा ॥६-६३-२४॥
अस्मिन् काले तु यद् युक्तं तदिदानीं विचिन्त्यताम् ।
गतं तु नानुशोचन्ति गतं तु गतमेव हि ॥६-६३-२५॥
ममापनयजं दोषं विक्रमेण समीकुरु ।
यदि खल्वस्ति मे स्नेहो विक्रमं वाधिगच्छसि ॥६-६३-२६॥
यदि कार्यं ममैतत्ते हृदि कार्यतमं मतम् ।
स सुहृद् यो विपन्नार्थं दीनमभ्युपपद्यते ॥६-६३-२७॥
स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ।
तमथैवं ब्रुवाणं स वचनं धीरदारुणम् ॥६-६३-२८॥
रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ।
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ॥६-६३-२९॥
कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ।
शृणु राजन्नवहितो मम वाक्यमरिंदम ॥६-६३-३०॥
अलं राक्षसराजेन्द्र संतापमुपपद्य ते ।
रोषं च सम्परित्यज्य स्वस्थो भवितुमर्हसि ॥६-६३-३१॥
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव ।
तमहं नाशयिष्यामि यत् कृते परितप्यते ॥६-६३-३२॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।
बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥६-६३-३३॥
सदृशं यच्च कालेऽस्मिन् कर्तुं स्नेहेन बन्धुना ।
शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥६-६३-३४॥
अद्य पश्य महाबाहो मया समरमूर्धनि ।
हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥६-६३-३५॥
अद्य रामस्य तद् दृष्ट्वा मयाऽऽनीतं रणाच्छिरः ।
सुखी भव महाबाहो सीता भवतु दुःखिता ॥६-६३-३६॥
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् ।
लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः ॥६-६३-३७॥
अद्य शोकपरीतानां स्वबन्धुवधशोचिनाम् ।
शत्रोर्युधि विनाशेन करोम्यश्रुप्रमार्जनम् ॥६-६३-३८॥
अद्य पर्वतसंकाशं ससूर्यमिव तोयदम् ।
विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम् ॥६-६३-३९॥
कथं च राक्षसैरेभिर्मया च परिसान्त्वितः ।
जिघांसुभिर्दाशरथिं व्यथसे त्वं सदानघ ॥६-६३-४०॥
मां निहत्य किल त्वां हि निहनिष्यति राघवः ।
नाहमात्मनि संतापं गच्छेयं राक्षसाधिप ॥६-६३-४१॥
कामं त्विदानीमपि मां व्यादिश त्वं परंतप ।
न परः प्रेक्षणीयस्ते युद्धायातुलविक्रम ॥६-६३-४२॥
अहमुत्सादयिष्यामि शत्रूंस्तव महाबलान् ।
यदि शक्रो यदि यमो यदि पावकमारुतौ ॥६-६३-४३॥
तानहं योधयिष्यामि कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य शितशूलधरस्य मे ॥६-६३-४४॥
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाद् वै पुरंदरः ।
अथ वा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ॥६-६३-४५॥
न मे प्रतिमुखः कश्चित् स्थातुं शक्तो जिजीविषुः ।
नैव शक्त्या न गदया नासिना निशितैः शरैः ॥६-६३-४६॥
हस्ताभ्यामेव संरभ्य हनिष्यामि सवज्रिणम् ।
यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ॥६-६३-४७॥
ततः पास्यन्ति बाणौघा रुधिरं राघवस्य मे ।
चिन्तया तप्यसे राजन् किमर्थं मयि तिष्ठति ॥६-६३-४८॥
सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ।
मुञ्च रामाद् भयं घोरं निहनिष्यामि संयुगे ॥६-६३-४९॥
राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।
हनूमन्तं च रक्षोघ्नं येन लङ्का प्रदीपिता ॥६-६३-५०॥
हरींश्च भक्षयिष्यामि संयुगे समुपस्थिते ।
असाधारणमिच्छामि तव दातुं महद् यशः ॥६-६३-५१॥
यदि चेन्द्राद् भयं राजन् यदि चापि स्वयंभुवः ।
ततोऽहं नाशयिष्यामि नैशं तम इवांशुमान् ॥६-६३-५२॥
अपि देवाः शयिष्यन्ते मयि क्रुद्धे महीतले ।
यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥६-६३-५३॥
आदित्यं पातयिष्यामि सनक्षत्रं महीतले ।
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् ॥६-६३-५४॥
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् ।
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥६-६३-५५॥
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः ।
न त्विदं त्रिदिवं सर्वमाहारो मम पूर्यते ॥६-६३-५६॥
वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि ।
निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥६-६३-५७॥
रमस्व राजन् पिब चाद्य वारुणीं कुरुष्व कृत्यानि विनीय दुःखम् ।
मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥६-६३-५८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णानुशोकः नाम त्रिषष्ठितमः सर्गः ॥६-६३॥
Previous
रावणाभ्यर्थना
Next
सीताप्रलोभनोपायः