रावणाभ्यर्थना
युद्धकाण्डः / रावणाभ्यर्थना
Script
Translation
Previous
कुम्भकर्णवृत्तकथनम्
Next
कुम्भकर्णानुशोकः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणाभ्यर्थना नाम द्विषष्ठितमः सर्गः ॥६-६२॥
स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥६-६२-१॥
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।
गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥६-६२-२॥
स हेमजालविततं भानुभास्वरदर्शनम् ।
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥६-६२-३॥
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशनम् ।
ददर्श दूरेऽग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम् ॥६-६२-४॥
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः ।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥६-६२-५॥
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥६-६२-६॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् ।
तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत् ॥६-६२-७॥
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः ।
भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥६-६२-८॥
उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।
स भ्रात्रा सम्परिष्वक्तो यथावच्चाभिनन्दितः ॥६-६२-९॥
कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।
स तदासनमाश्रित्य कुम्भकर्णो महाबलः ॥६-६२-१०॥
संरक्तनयनः क्रोधाद् रावणं वाक्यमब्रवीत् ।
किमर्थमहमादृत्य त्वया राजन् प्रबोधितः ॥६-६२-११॥
शंस कस्माद् भयं तेऽत्र को वा प्रेतो भविष्यति ।
भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ॥६-६२-१२॥
रोषेण परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ।
अद्य ते सुमहान् कालः शयानस्य महाबल ॥६-६२-१३॥
सुषुप्तस्त्वं न जानीषे मम रामकृतं भयम् ।
एष दाशरथिः श्रीमान् सुग्रीवसहितो बली ॥६-६२-१४॥
समुद्रं लङ्घयित्वा तु मूलं नः परिकृन्तति ।
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ॥६-६२-१५॥
सेतुना सुखमागत्य वानरैकार्णवं कृतम् ।
ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ॥६-६२-१६॥
वानराणां क्षयं युद्धे न पश्यामि कथंचन ।
न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥६-६२-१७॥
तदेतद् भयमुत्पन्नं त्रायस्वेह महाबल ।
नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥६-६२-१८॥
सर्वक्षपितकोशं च स त्वमभ्युपपद्य माम् ।
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥६-६२-१९॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।
मयैवं नोक्तपूर्वो हि भ्राता कश्चित् परंतप ॥६-६२-२०॥
त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे ।
देवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ॥६-६२-२१॥
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ॥६-६२-२२॥
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम ।
नहि ते सर्वभूतेषु दृश्यते सदृशो बली ॥६-६२-२३॥
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय ।
स्वतेजसा व्यथय सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥६-६२-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणाभ्यर्थना नाम द्विषष्ठितमः सर्गः ॥६-६२॥
Previous
कुम्भकर्णवृत्तकथनम्
Next
कुम्भकर्णानुशोकः