कुम्भकर्णवृत्तकथनम्
युद्धकाण्डः / कुम्भकर्णवृत्तकथनम्
Script
Translation
Previous
कुम्भकर्णप्रबोधः
Next
रावणाभ्यर्थना
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णवृत्तकथनम् नाम एकषष्ठितमः सर्गः ॥६-६१॥
ततो रामो महातेजा धनुरादाय वीर्यवान् ।
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥६-६१-१॥
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।
क्रममाणमिवाकाशं पुरा नारायणं यथा ॥६-६१-२॥
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ।
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥६-६१-३॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।
सविस्मितमिदं रामो विभीषणमुवाच ह ॥६-६१-४॥
कोऽसौ पर्वतसंकाशः किरीटी हरिलोचनः ।
लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥६-६१-५॥
पृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥६-६१-६॥
आचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः ।
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥६-६१-७॥
सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥६-६१-८॥
येन वैवस्वतो युद्धे वासवश्च पराजितः ।
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।
अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते ॥६-६१-९॥
एतेन देवा युधि दानवाश्च यक्षा भुजंगाः पिशिताशनाश्च ।
गन्धर्वविद्याधरकिंनराश्च सहस्रशो राघव सम्प्रभग्नाः ॥६-६१-१०॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥६-६१-११॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥६-६१-१२॥
बालेन जातमात्रेण क्षुधार्तेन महात्मना ।
भक्षितानि सहस्राणि प्रजानां सुबहून्यपि ॥६-६१-१३॥
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।
यान्त स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥६-६१-१४॥
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री ।
स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥६-६१-१५॥
तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः ।
श्रुत्वा निनादं वित्रस्ताः प्रजा भूयो वितत्रसुः ॥६-६१-१६॥
ततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः ।
निष्कृष्यैरावताद् दन्तं जघानोरसि वासवम् ॥६-६१-१७॥
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।
ततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः ॥६-६१-१८॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः ।
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥६-६१-१९॥
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।
आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥६-६१-२०॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।
अचिरेणैव कालेन शून्यो लोको भविष्यति ॥६-६१-२१॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥६-६१-२२॥
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।
कुम्भकर्णमथाश्वास्तः स्वयंभूरिदमब्रवीत् ॥६-६१-२३॥
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।
तस्मात् त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥६-६१-२४॥
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ।
ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥६-६१-२५॥
प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥६-६१-२६॥
न मिथ्यावचनश्च त्वं स्वप्स्यत्येव न संशयः ।
कालस्तु क्रियतामस्य शयने जागरे तथा ॥६-६१-२७॥
रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत् ।
शयिता ह्येष षण्मासमेकाहं जागरिष्यति ॥६-६१-२८॥
एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।
व्यात्तास्यो भक्षयेल्लोकान् संवृद्ध इव पावकः ॥६-६१-२९॥
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥६-६१-३०॥
स एष निर्गतो वीरः शिबिराद् भीमविक्रमः ।
वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति ॥६-६१-३१॥
कुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः ।
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥६-६१-३२॥
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥६-६१-३३॥
विभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम् ।
उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥६-६१-३४॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।
द्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ संक्रमान् ॥६-६१-३५॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ।
भवन्तः सायुधाः सर्वे वानराः शैलपाणयः ॥६-६१-३६॥
राघवेण समादिष्टो नीलो हरिचमूपतिः ।
शशास वानरानीकं यथावत् कपिकुञ्जरः ॥६-६१-३७॥
ततो गवाक्षः शरभो हनूमानङ्गदस्तथा ।
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥६-६१-३८॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।
पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥६-६१-३९॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतवृक्षहस्तम् ।
गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥६-६१-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णवृत्तकथनम् नाम एकषष्ठितमः सर्गः ॥६-६१॥
Previous
कुम्भकर्णप्रबोधः
Next
रावणाभ्यर्थना