कुम्भकर्णप्रबोधः
युद्धकाण्डः / कुम्भकर्णप्रबोधः
Script
Translation
Previous
रावणाभिषेणनम्
Next
कुम्भकर्णवृत्तकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे कुम्भकर्णप्रबोधः नाम षष्ठितमः सर्गः ॥६-६०॥
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः ।
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥६-६०-१॥
मातंग इव सिंहेन गरुडेनेव पन्नगः ।
अभिभूतोऽभवद् राजा राघवेण महात्मना ॥६-६०-२॥
ब्रह्मदण्डप्रतीकानां विद्युच्चलितवर्चसाम् ।
स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ॥६-६०-३॥
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् ।
विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥६-६०-४॥
सर्वं तत् खलु मे मोघं यत् तप्तं परमं तपः ।
यत् समानो महेन्द्रेण मानुषेण विनिर्जितः ॥६-६०-५॥
इदं तद् ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् ।
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥६-६०-६॥
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः ।
अवध्यत्वं मया प्रोक्तं मानुषेभ्यो न याचितम् ॥६-६०-७॥
तमिमं मानुषं मन्ये रामं दशरथात्मजम् ।
इक्ष्वाकुकुलजातेन अनरण्येन यत् पुरा ॥६-६०-८॥
उत्पत्स्यति हि मद्वंशपुरुषो राक्षसाधम ।
यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥६-६०-९॥
निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते ।
शप्तोऽहं वेदवत्या च यथा सा धर्षिता पुरा ॥६-६०-१०॥
सेयं सीता महाभागा जाता जनकनन्दिनी ।
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥६-६०-११॥
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम् ।
एतदेव समागम्य यत्नं कर्तुमिहार्हथ ॥६-६०-१२॥
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ।
स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा ॥६-६०-१३॥
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ।
समरे जितमात्मानं प्रहस्तं च निषूदितम् ॥६-६०-१४॥
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ।
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् ॥६-६०-१५॥
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ।
सुखं स्वपिति निश्चिन्तः कामोपहतचेतनः ॥६-६०-१६॥
नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः ।
मन्त्रं कृत्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि ॥६-६०-१७॥
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ।
स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम् ।
वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति ॥६-६०-१८॥
एष केतुः परं संख्ये मुख्यो वै सर्वरक्षसाम् ।
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥६-६०-१९॥
रामेणाभिनिरस्तस्य संग्रामेऽस्मिन् सुदारुणे ।
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥६-६०-२०॥
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ।
ईदृशे व्यसने घोरे यो न साह्याय कल्पते ॥६-६०-२१॥
ते तु तद् वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ।
जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥६-६०-२२॥
ते रावणसमादिष्टा मांसशोणितभोजनाः ।
गन्धं माल्यं महद्भक्ष्यमादाय सहसा ययुः ॥६-६०-२३॥
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् ।
कुम्भकर्णगुहां रम्यां पुष्पगन्धप्रवाहिनीम् ॥६-६०-२४॥
कुम्भकर्णस्य निःश्वासादवधूता महाबलाः ।
प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ॥६-६०-२५॥
तां प्रविश्य गुहां रम्यां रत्नकाञ्चनकुट्टिमाम् ।
ददृशुर्नैर्ऋतव्याघ्राः शयानं भीमविक्रमम् ॥६-६०-२६॥
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।
कुम्भकर्णं महानिद्रं समेताः प्रत्यबोधयन् ॥६-६०-२७॥
ऊर्ध्वलोमाञ्चिततनुं श्वसन्तमिव पन्नगम् ।
भ्रामयन्तं विनिःश्वासैः शयानं भीमविक्रमम् ॥६-६०-२८॥
भीमनासापुटं तं तु पातालविपुलाननम् ।
शयने न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥६-६०-२९॥
काञ्चनाङ्गदनद्धाङ्गं किरीटेनार्कवर्चसम् ।
ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णमरिंदमम् ॥६-६०-३०॥
ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रतः ।
भूतानां मेरुसंकाशं राशिं परमतर्पणम् ॥६-६०-३१॥
मृगाणां महिषाणां च वराहाणां च संचयान् ।
चक्रुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ॥६-६०-३२॥
ततः शोणितकुम्भांश्च मांसानि विविधानि च ।
पुरस्तात् कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः ॥६-६०-३३॥
लिलिपुश्च परार्घ्येन चन्दनेन परंतपम् ।
दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः ॥६-६०-३४॥
धूपगन्धांश्च ससृजुस्तुष्टुवुश्च परंतपम् ।
जलदा इव चानेदुर्यातुधानास्ततस्ततः ॥६-६०-३५॥
शङ्खांश्च पूरयामासुः शशाङ्कसदृशप्रभान् ।
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥६-६०-३६॥
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ।
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वरम् ॥६-६०-३७॥
सशङ्खभेरीपणवप्रणादं सास्फोटितक्ष्वेलितसिंहनादम् ।
दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहंगाः सहसा निपेतुः ॥६-६०-३८॥
यदा भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः ।
ततो भुशुण्डीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥६-६०-३९॥
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वक्षःस्थले मुद्गरमुष्टिभिश्च ।
सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥६-६०-४०॥
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः ।
राक्षसाः कुम्भकर्णस्य स्थातुं शेकुर्न चाग्रतः ॥६-६०-४१॥
ततः परिहिता गाढं राक्षसा भीमविक्रमाः ।
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा ॥६-६०-४२॥
दश राक्षससाहस्रं युगपत्पर्यवारयत् ।
नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन् ॥६-६०-४३॥
अभिघ्नन्तो नदन्तश्च न च सम्बुबुधे तदा ।
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥६-६०-४४॥
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ।
अश्वानुष्ट्रान् खरान् नागाञ्जघ्नुर्दण्डकशाङ्कुशैः ॥६-६०-४५॥
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ।
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटंकरैः ॥६-६०-४६॥
मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः ।
तेन नादेन महता लङ्का सर्वा प्रपूरिता ।
सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥६-६०-४७॥
ततो भेरीसहस्रं तु युगपत् समहन्यत ।
मृष्टकाञ्चनकोणानामसक्तानां समन्ततः ॥६-६०-४८॥
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ।
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः ॥६-६०-४९॥
ततः कोपसमाविष्टाः सर्वे भीमपराक्रमाः ।
तद् रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥६-६०-५०॥
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् ।
केशानन्ये प्रलुलुपुः कर्णानन्ये दशन्ति च ॥६-६०-५१॥
उदकुम्भशतानन्ये समसिञ्चन्त कर्णयोः ।
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥६-६०-५२॥
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ॥६-६०-५३॥
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।
वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥६-६०-५४॥
वारणानां सहस्रं च शरीरेऽस्य प्रधावितम् ।
कुम्भकर्णस्तदा बुद्ध्वा स्पर्शं परमबुध्यत ॥६-६०-५५॥
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् ।
निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥६-६०-५६॥
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू जितवज्रसारौ ।
विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ॥६-६०-५७॥
तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम् ।
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥६-६०-५८॥
स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः ।
निःश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः ॥६-६०-५९॥
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद् बभौ ।
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ॥६-६०-६०॥
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी ।
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥६-६०-६१॥
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् ।
वराहान् महिषांश्चैव बभक्ष स महाबलः ॥६-६०-६२॥
आदद् बुभुक्षितो मांसं शोणितं तृषितोऽपिबत् ।
मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा ॥६-६०-६३॥
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः ।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥६-६०-६४॥
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः ।
चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ॥६-६०-६५॥
स सर्वान् सान्त्वयामास नैर्ऋतान् नैर्ऋतर्षभः ।
बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ॥६-६०-६६॥
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः ।
कच्चित् सुकुशलं राज्ञो भयं वा नेह किंचन ॥६-६०-६७॥
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् ।
यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः ॥६-६०-६८॥
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् ।
दारयिष्ये महेन्द्रं वा शीतयिष्ये तथानलम् ॥६-६०-६९॥
न ह्यल्पकारणे सुप्तं बोधयिष्यति मादृशम् ।
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥६-६०-७०॥
एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम् ।
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥६-६०-७१॥
न नो देवकृतं किंचिद् भयमस्ति कदाचन ।
मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥६-६०-७२॥
न दैत्यदानवेभ्यो वा भयमस्ति न नः क्वचित् ।
यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ॥६-६०-७३॥
वानरैः पर्वताकारैर्लङ्केयं परिवारिता ।
सीताहरणसंतप्ताद् रामान्नस्तुमुलं भयम् ॥६-६०-७४॥
एकेन वानरेणेयं पूर्वं दग्धा महापुरी ।
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥६-६०-७५॥
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ।
व्रजेति संयुगे मुक्तो रामेणादित्यवर्चसा ॥६-६०-७६॥
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥६-६०-७७॥
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराभवम् ।
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥६-६०-७८॥
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् ।
राघवं च रणे जित्वा ततो द्रक्ष्यामि रावणम् ॥६-६०-७९॥
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः ।
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥६-६०-८०॥
तत् तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् ।
महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥६-६०-८१॥
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ।
पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ॥६-६०-८२॥
महोदरवचः श्रुत्वा राक्षसैः परिवारितः ।
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥६-६०-८३॥
सुप्तमुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् ।
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥६-६०-८४॥
तेऽभिगम्य दशग्रीवमासीनं परमासने ।
ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥६-६०-८५॥
कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर ।
कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥६-६०-८६॥
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् ।
द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥६-६०-८७॥
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः ।
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥६-६०-८८॥
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः ।
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥६-६०-८९॥
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् ।
तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥६-६०-९०॥
प्रक्षाल्य वदनं हृष्टः स्नातः परमहर्षितः ।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥६-६०-९१॥
ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया ।
मद्यं भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन् ॥६-६०-९२॥
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे ।
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ॥६-६०-९३॥
कुम्भकर्णो बभौ रुष्टः कालान्तकयमोपमः ।
भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः ।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥६-६०-९४॥
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः ।
जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयंभुवः ॥६-६०-९५॥
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिःस्थिताः ।
दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते सह यूथपालैः ॥६-६०-९६॥
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद् व्यथिताः पतन्ति ।
केचिद् दशश्च व्यथिताः पतन्ति केचिद् भयार्ता भुवि शेरते स्म ॥६-६०-९७॥
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा ।
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे यतस्ततः ॥६-६०-९८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे कुम्भकर्णप्रबोधः नाम षष्ठितमः सर्गः ॥६-६०॥
Previous
रावणाभिषेणनम्
Next
कुम्भकर्णवृत्तकथनम्