रावणाभिषेणनम्

युद्धकाण्डः / रावणाभिषेणनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रावणाभिषेणनम् नाम एकोनषष्ठितमः सर्गः ॥६-५९॥
तस्मिन् हते राक्षससैन्यपाले प्लवंगमानामृषभेण युद्धे । भीमायुधं सागरवेगतुल्यं विदुद्रुवे राक्षसराजसैन्यम् ॥६-५९-१॥
गत्वा तु रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥६-५९-२॥
संख्ये प्रहस्तं निहतं निशम्य क्रोधार्दितः शोकपरीतचेताः । उवाच तान् राक्षसयूथमुख्यानिन्द्रो यथा निर्जरयूथमुख्यान् ॥६-५९-३॥
नावज्ञा रिपवे कार्या यैरिन्द्रबलसादनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥६-५९-४॥
सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥६-५९-५॥
अद्य तद् वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः । अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ॥६-५९-६॥
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरंगोत्तमराजियुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥६-५९-७॥
स शङ्खभेरीपणवप्रणादैरास्फोटितक्ष्वेडितसिंहनादैः । पुण्यैः स्तवैश्चापि सुपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥६-५९-८॥
स शैलजीमूतनिकाशरूपैर्मांसाशनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवामरेशः ॥६-५९-९॥
ततो नगर्याः सहसा महौजा निष्क्रम्य तद् वानरसैन्यमुग्रम् । महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् ॥६-५९-१०॥
तद् राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः । विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥६-५९-११॥
नानापताकाध्वजछत्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् । कस्येदमक्षोभ्यमभीरुजुष्टं सैन्यं महेन्द्रोपमनागजुष्टम् ॥६-५९-१२॥
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः । शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम् ॥६-५९-१३॥
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः । संकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥६-५९-१४॥
योऽसौ रथस्थो मृगराजकेतुर्धुन्वन् धनुः शक्रधनुःप्रकाशम् । करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥६-५९-१५॥
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः । विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोऽतिविवृद्धकायः ॥६-५९-१६॥
योऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् । गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥६-५९-१७॥
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य संध्याभ्रगिरिप्रकाशम् । प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः ॥६-५९-१८॥
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम् । वृषेन्द्रमास्थाय शशिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ॥६-५९-१९॥
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन् याति धनुर्विधुन्वन् ॥६-५९-२०॥
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोबलकेतुभूतो योऽसौ निकुम्भोऽद्भुतघोरकर्मा ॥६-५९-२१॥
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥६-५९-२२॥
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः । भूतैर्वृतो भाति विवृत्तनेत्रैर्योऽसौ सुराणामपि दर्पहन्ता ॥६-५९-२३॥
यत्रैतदिन्दुप्रतिमं विभाति छत्रं सितं सूक्ष्मशलाकमग्र्यम् । अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥६-५९-२४॥
असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः । महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥६-५९-२५॥
प्रत्युवाच ततो रामो विभीषणमरिंदमः । अहो दीप्तमहातेजा रावणो राक्षसेश्वरः ॥६-५९-२६॥
आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः । न व्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥६-५९-२७॥
देवदानववीराणां वपुर्नैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतद् विराजते ॥६-५९-२८॥
सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधास्तस्य महात्मनः ॥६-५९-२९॥
विभाति रक्षोराजोऽसौ प्रदीप्तैर्भीमदर्शनैः । भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥६-५९-३०॥
दिष्ट्यायमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥६-५९-३१॥
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् । लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥६-५९-३२॥
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि । द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥६-५९-३३॥
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा । शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥६-५९-३४॥
विसर्जयित्वा सचिवांस्ततस्तान् गतेषु रक्षःसु यथानियोगम् । व्यदारयद् वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥६-५९-३५॥
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् । महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥६-५९-३६॥
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय । तमापतन्तं सहसा समीक्ष्य चिच्छेद बाणैस्तपनीयपुङ्खैः ॥६-५९-३७॥
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विदीर्णे पतिते पृथिव्याम् । महाहिकल्पं शरमन्तकाभं समादधे राक्षसलोकनाथः ॥६-५९-३८॥
स तं गृहीत्वानिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् । बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥६-५९-३९॥
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुःप्रकाशम् । सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥६-५९-४०॥
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः । तं वीक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥६-५९-४१॥
ततो गवाक्षो गवयः सुषेणस्त्वथर्षभो ज्योतिमुखो नलश्च । शैलान् समुत्पाट्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥६-५९-४२॥
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणशतैः शिताग्रैः । तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥६-५९-४३॥
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना निपेतुर्भुवि भीमकायाः । ततस्तु तद् वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥६-५९-४४॥
ते वध्यमानाः पतिताश्च वीरा नानद्यमाना भयशल्यविद्धाः । शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥६-५९-४५॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम । तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच रामं परमार्थयुक्तम् ॥६-५९-४६॥
काममार्य सुपर्याप्तो वधायास्य दुरात्मनः । विधमिष्याम्यहं चैतमनुजानीहि मां विभो ॥६-५९-४७॥
तमब्रवीन्महातेजा रामः सत्यपराक्रमः । गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे ॥६-५९-४८॥
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः । त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥६-५९-४९॥
तस्यच्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय । चक्षुषा धनुषाऽऽत्मानं गोपायस्व समाहितः ॥६-५९-५०॥
राघवस्य वचः श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य च रामाय ययौ सौमित्रिराहवे ॥६-५९-५१॥
स रावणं वारणहस्तबाहुं ददर्श भीमोद्यतदीप्तचापम् । प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ॥६-५९-५२॥
तमालोक्य महातेजा हनूमान् मारुतात्मजः । निवार्य शरजालानि विदुद्राव स रावणम् ॥६-५९-५३॥
रथं तस्य समासाद्य बाहुमुद्यम्य दक्षिणम् । त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत् ॥६-५९-५४॥
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः । अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥६-५९-५५॥
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः । विधमिष्यति ते देहे भूतात्मानं चिरोषितम् ॥६-५९-५६॥
श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः । संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥६-५९-५७॥
क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि । ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥६-५९-५८॥
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् । प्रहतं हि मया पूर्वमक्षं तव सुतं स्मर ॥६-५९-५९॥
एवमुक्तो महातेजा रावणो राक्षसेश्वरः । आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥६-५९-६०॥
स तलाभिहतस्तेन चचाल च मुहुर्मुहुः । स्थितो मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥६-५९-६१॥
आजघान च संक्रुद्धस्तलेनैवामरद्विषम् । ततः स तेनाभिहतो वानरेण महात्मना ॥६-५९-६२॥
दशग्रीवः समाधूतो यथा भूमितलेऽचलः । संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ॥६-५९-६३॥
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः । अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत् ॥६-५९-६४॥
साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥६-५९-६५॥
धिगस्तु मम वीर्यस्य यत् त्वं जीवसि रावण । सकृत् तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ॥६-५९-६६॥
ततस्त्वां मामको मुष्टिर्नयिष्यति यमक्षयम् । ततो मारुतिवाक्येन कोपस्तस्य प्रजज्वले ॥६-५९-६७॥
संरक्तनयनो यत्नान्मुष्टिमावृत्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ॥६-५९-६८॥
हनूमान् वक्षसि व्यूढे संचचाल पुनः पुनः । विह्वलं तु तदा दृष्ट्वा हनूमन्तं महाबलम् ॥६-५९-६९॥
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् । राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ॥६-५९-७०॥
पन्नगप्रतिमैर्भीमैः परमर्माभिभेदनैः । शरैरादीपयामास नीलं हरिचमूपतिम् ॥६-५९-७१॥
स शरौघसमायस्तो नीलो हरिचमूपतिः । करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥६-५९-७२॥
हनूमानपि तेजस्वी समाश्वस्तो महामनाः । विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥६-५९-७३॥
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् । अन्येन युध्यमानस्य न युक्तमभिधावनम् ॥६-५९-७४॥
रावणोऽथ महातेजास्तं शृङ्गं सप्तभिः शरैः । आजघान सुतीक्ष्णाग्रैस्तद् विकीर्णं पपात ह ॥६-५९-७५॥
तद् विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः । कालाग्निरिव जज्वाल कोपेन परवीरहा ॥६-५९-७६॥
सोऽश्वकर्णद्रुमान् शालांश्चूतांश्चापि सुपुष्पितान् । अन्यांश्च विविधान् वृक्षान् नीलश्चिक्षेप संयुगे ॥६-५९-७७॥
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः । अभ्यवर्षच्च घोरेण शरवर्षेण पावकिम् ॥६-५९-७८॥
अभिवृष्टः शरौघेण मेघेनेव महाचलः । ह्रस्वं कृत्वा ततो रूपं ध्वजाग्रे निपपात ह ॥६-५९-७९॥
पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम् । जज्वाल रावणः क्रोधात् ततो नीलो ननाद च ॥६-५९-८०॥
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम् । लक्ष्मणोऽथ हनूमांश्च रामश्चापि सुविस्मिताः ॥६-५९-८१॥
रावणोऽपि महातेजाः कपिलाघवविस्मितः । अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥६-५९-८२॥
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवंगमाः । नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥६-५९-८३॥
वानराणां च नादेन संरब्धो रावणस्तदा । सम्भ्रमाविष्टहृदयो न किंचित् प्रत्यपद्यत ॥६-५९-८४॥
आग्नेयेनापि संयुक्तं गृहीत्वा रावणः शरम् । ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥६-५९-८५॥
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः । कपे लाघवयुक्तोऽसि मायया परया सह ॥६-५९-८६॥
जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर । तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ॥६-५९-८७॥
तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः । जीवितं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ॥६-५९-८८॥
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः । संधाय बाणमस्त्रेण चमूपतिमताडयत् ॥६-५९-८९॥
सोऽस्त्रमुक्तेन बाणेन नीलो वक्षसि ताडितः । निर्दह्यमानः सहसा स पपात महीतले ॥६-५९-९०॥
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा । जानुभ्यामपतद् भूमौ न तु प्राणैर्वियुज्यत ॥६-५९-९१॥
विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः । रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥६-५९-९२॥
आसाद्य रणमध्ये तं वारयित्वा स्थितो ज्वलन् । धनुर्विस्फारयामास राक्षसेन्द्रः प्रतापवान् ॥६-५९-९३॥
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् । अवेहि मामद्य निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हसि ॥६-५९-९४॥
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा । आसाद्य सौमित्रिमुपस्थितं तं रोषान्वितं वाचमुवाच रक्षः ॥६-५९-९५॥
दिष्ट्यासि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः । अस्मिन् क्षणे यास्यसि मृत्युलोकं संसाद्यमानो मम बाणजालैः ॥६-५९-९६॥
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम् । राजन् न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥६-५९-९७॥
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च । अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥६-५९-९८॥
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान् । ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥६-५९-९९॥
तान् प्रेक्षमाणः सहसा निकृत्तान् निकृत्तभोगानिव पन्नगेन्द्रान् । लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान् निशितान् पृषत्कान् ॥६-५९-१००॥
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम् । क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥६-५९-१०१॥
स बाणजालान्यपि तानि तानि मोघानि पश्यंस्त्रिदशारिराजः । विसिस्मिये लक्ष्मणलाघवेन पुनश्च बाणान् निशितान् मुमोच ॥६-५९-१०२॥
स लक्ष्मणश्चापि शिताञ् शिताग्रान् महेन्द्रतुल्योऽशनिभीमवेगान् । संधाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ॥६-५९-१०३॥
स तान् प्रचिच्छेद हि राक्षसेन्द्रः शिताञ् शराल्ँ लक्ष्मणमाजघान । शरेण कालाग्निसमप्रभेण स्वयंभुदत्तेन ललाटदेशे ॥६-५९-१०४॥
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य । पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥६-५९-१०५॥
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः । स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥६-५९-१०६॥
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः । जग्राह शक्तिं स्वयमुग्रशक्तिः स्वयंभुदत्तां युधि देवशत्रुः ॥६-५९-१०७॥
स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम् । चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥६-५९-१०८॥
तामापतन्तीं भरतानुजोऽस्त्रैर्जघान बाणैश्च हुताग्निकल्पैः । तथापि सा तस्य विवेश शक्तिर्भुजान्तरं दाशरथेर्विशालम् ॥६-५९-१०९॥
स शक्तिमाञ् शक्तिसमाहतः सन् जज्वाल भूमौ स रघुप्रवीरः । तं विह्वलन्तं सहसाभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥६-५९-११०॥
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुद्धर्तुं न शक्यो भरतानुजः ॥६-५९-१११॥
शक्त्या ब्राह्म्या तु सौमित्रिस्ताडितोऽपि स्तनान्तरे । विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ॥६-५९-११२॥
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्यां न प्रभुर्लङ्घनेऽभवत् ॥६-५९-११३॥
ततः क्रुद्धो वायुसुतो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥६-५९-११४॥
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामगमद् भूमौ चचाल च पपात च ॥६-५९-११५॥
आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु । विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ॥६-५९-११६॥
विसंज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् । विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ॥६-५९-११७॥
ऋषयो वानराश्चैव नेदुर्देवाश्च सासुराः । हनूमानथ तेजस्वी लक्ष्मणं रावणार्दितम् ॥६-५९-११८॥
आनयद् राघवाभ्याशं बाहुभ्यां परिगृह्य तम् । वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः । शत्रूणामप्यकम्प्योऽपि लघुत्वमगमत् कपेः ॥६-५९-११९॥
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि निर्जितम् । रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत् ॥६-५९-१२०॥
रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे । आददे निशितान् बाणाञ्जग्राह च महद्धनुः ॥६-५९-१२१॥
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः । विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥६-५९-१२२॥
निपातितमहावीरां वानराणां महाचमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥६-५९-१२३॥
अथैनमनुसंक्रम्य हनूमान् वाक्यमब्रवीत् । मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥६-५९-१२४॥
विष्णुर्यथा गरुत्मन्तमारुह्यामरवैरिणम् । तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ॥६-५९-१२५॥
अथारुरोह सहसा हनूमन्तं महाकपिम् । रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥६-५९-१२६॥
तमालोक्य महातेजाः प्रदुद्राव स रावणम् । वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥६-५९-१२७॥
ज्याशब्दमकरोत् तीव्रं वज्रनिष्पेषनिष्ठुरम् । गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥६-५९-१२८॥
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि ॥६-५९-१२९॥
यदीन्द्रवैवस्वतभास्करान् वा स्वयंभुवैश्वानरशंकरान् वा । गमिष्यसि त्वं दशधा दिशो वा तथापि मे नाद्य गतो विमोक्ष्यसे ॥६-५९-१३०॥
यश्चैष शक्त्या निहतस्त्वयाद्य गच्छन् विषादं सहसाभ्युपेत्य । स एष रक्षोगणराज मृत्युः सपुत्रपौत्रस्य तवाद्य युद्धे ॥६-५९-१३१॥
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि । चतुर्दशान्यात्तवरायुधानि रक्षःसहस्राणि निषूदितानि ॥६-५९-१३२॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः । वायुपुत्रं महावेगं वहन्तं राघवं रणे ॥६-५९-१३३॥
रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैर्दीप्तैः कालानलशिखोपमैः ॥६-५९-१३४॥
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥६-५९-१३५॥
ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान् ॥६-५९-१३६॥
तस्याभिसंक्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् । ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शितैः शराग्रैः ॥६-५९-१३७॥
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसंनिभेन । भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥६-५९-१३८॥
यो वज्रपाताशनिसंनिपातान्न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥६-५९-१३९॥
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ॥६-५९-१४०॥
तं निर्विषाशीविषसंनिकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् । गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥६-५९-१४१॥
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् । तस्मात् परिश्रान्त इति व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥६-५९-१४२॥
प्रयाहि जानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् । आश्वस्य निर्याहि रथी च धन्वी तदा बलं प्रेक्ष्यसि मे रथस्थः ॥६-५९-१४३॥
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः । शरार्दितो भग्नमहाकिरीटो विवेश लङ्कां सहसा स्म राजा ॥६-५९-१४४॥
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ । हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥६-५९-१४५॥
तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च । ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराः प्रहृष्टाः ॥६-५९-१४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रावणाभिषेणनम् नाम एकोनषष्ठितमः सर्गः ॥६-५९॥