प्रहस्तवधः

युद्धकाण्डः / प्रहस्तवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे प्रहस्तवधः नाम अष्टपञ्चाशः सर्गः ॥६-५८॥
ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम् । उवाच सस्मितं रामो विभीषणमरिंदमः ॥६-५८-१॥
क एष सुमहाकायो बलेन महता वृतः । आगच्छति महावेगः किंरूपबलपौरुषः ॥६-५८-२॥
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् । राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥६-५८-३॥
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः । लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः । वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः ॥६-५८-४॥
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥६-५८-५॥
ददर्श महती सेना वानराणां बलीयसाम् । अभिसंजातघोषाणां प्रहस्तमभिगर्जताम् ॥६-५८-६॥
खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च । गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥६-५८-७॥
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यराजन्त वानरानभिधावताम् ॥६-५८-८॥
जगृहुः पादपांश्चापि पुष्पितांस्तु गिरींस्तथा । शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः ॥६-५८-९॥
तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवर्षं च वर्षताम् ॥६-५८-१०॥
बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान् । वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥६-५८-११॥
शूलैः प्रमथिताः केचित् केचित् तु परमायुधैः । परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ॥६-५८-१२॥
निरुच्छ्वासाः पुनः केचित् पतिता जगतीतले । विभिन्नहृदयाः केचिदिषुसंधानसाधिताः ॥६-५८-१३॥
केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूरैः पार्श्वतश्च विदारिताः ॥६-५८-१४॥
वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः । पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥६-५८-१५॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् । वमन् शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥६-५८-१६॥
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसामपि ॥६-५८-१७॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः । विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥६-५८-१८॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥६-५८-१९॥
तेषां निपततां शीघ्रं निघ्नतां चापि वानरान् । द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥६-५८-२०॥
दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम् । राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत् ॥६-५८-२१॥
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि ॥६-५८-२२॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् । वृक्षेण महता सद्यः प्राणान् संत्याजयद् रणे ॥६-५८-२३॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥६-५८-२४॥
आवर्त इव संजज्ञे सेनयोरुभयोस्तदा । क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः ॥६-५८-२५॥
महता हि शरौघेण राक्षसो रणदुर्मदः । अर्दयामास संक्रुद्धो वानरान् परमाहवे ॥६-५८-२६॥
वानराणां शरीरैस्तु राक्षसानां च मेदिनी । बभूवातिचिता घोरैः पर्वतैरिव संवृता ॥६-५८-२७॥
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते । संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥६-५८-२८॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् । शोणितौघमहातोयां यमसागरगामिनीम् ॥६-५८-२९॥
यकृत् प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥६-५८-३०॥
गृध्रहंसवराकीर्णां कङ्कसारससेविताम् । मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम् ॥६-५८-३१॥
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् । नदीमिव घनापाये हंससारससेविताम् ॥६-५८-३२॥
राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम् । यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥६-५८-३३॥
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् । ददर्श तरसा नीलो विधमन्तं प्लवंगमान् ॥६-५८-३४॥
उद्धूत इव वायुः खे महदभ्रबलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ॥६-५८-३५॥
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे । स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ॥६-५८-३६॥
नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः । ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ॥६-५८-३७॥
महीं जग्मुर्महावेगा रोषिता इव पन्नगाः । नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ॥६-५८-३८॥
स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥६-५८-३९॥
स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः । ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ ॥६-५८-४०॥
तस्य बाणगणानेव राक्षसस्य दुरात्मनः । अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः । यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् ॥६-५८-४१॥
एवमेव प्रहस्तस्य शरवर्षान् दुरासदान् । निमीलिताक्षः सहसा नीलः सेहे दुरासदान् ॥६-५८-४२॥
रोषितः शरवर्षेण सालेन महता महान् । प्रजघान हयान् नीलः प्रहस्तस्य महाबलः ॥६-५८-४३॥
ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः । बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥६-५८-४४॥
विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥६-५८-४५॥
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ । स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ ॥६-५८-४६॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥६-५८-४७॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोरिव ॥६-५८-४८॥
आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम् ॥६-५८-४९॥
ततः शोणितदिग्धाङ्गः प्रगृह्य च महातरुम् । प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥६-५८-५०॥
तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ॥६-५८-५१॥
तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥६-५८-५२॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥६-५८-५३॥
नीलेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥६-५८-५४॥
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥६-५८-५५॥
विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥६-५८-५६॥
हते प्रहस्ते नीलेन तदकम्प्यं महाबलम् । राक्षसानामहृष्टानां लङ्कामभिजगाम ह ॥६-५८-५७॥
न शेकुः समवस्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा ॥६-५८-५८॥
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः ॥६-५८-५९॥
प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन् ॥६-५८-६०॥
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः सुकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः ॥६-५८-६१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रहस्तवधः नाम अष्टपञ्चाशः सर्गः ॥६-५८॥