प्रहस्तयुद्धम्

युद्धकाण्डः / प्रहस्तयुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे प्रहस्तयुद्धम् नाम सप्तपञ्चाशः सर्गः ॥६-५७॥
अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किंचिद् दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥६-५७-१॥
स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ॥६-५७-२॥
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् । ददर्श नगरीं राजा पताकाध्वजमालिनीम् ॥६-५७-३॥
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः । उवाचात्महितं काले प्रहस्तं युद्धकोविदम् ॥६-५७-४॥
पुरस्योपनिविष्टस्य सहसा पीडितस्य ह । नान्ययुद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥६-५७-५॥
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम । इन्द्रजिद् वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥६-५७-६॥
स त्वं बलमतः शीघ्रमादाय परिगृह्य च । विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥६-५७-७॥
निर्याणादेव तूर्णं च चलिता हरिवाहिनी । नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥६-५७-८॥
चपला ह्यविनीताश्च चलचित्ताश्च वानराः । न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥६-५७-९॥
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह । अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥६-५७-१०॥
आपत्संशयिता श्रेयो नात्र निःसंशयीकृता । प्रतिलोमानुलोमं वा यत् तु नो मन्यसे हितम् ॥६-५७-११॥
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः । राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥६-५७-१२॥
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः । विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥६-५७-१३॥
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया । अप्रदाने पुनर्युद्धं दृष्टमेव तथैव नः ॥६-५७-१४॥
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया । सान्त्वैश्च विविधैः काले किं न कुर्यां हितं तव ॥६-५७-१५॥
नहि मे जीवितं रक्ष्यं पुत्रदारधनानि च । त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि ॥६-५७-१६॥
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः । उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ॥६-५७-१७॥
समानयत मे शीघ्रं राक्षसानां महाबलम् । मद्बाणानां तु वेगेन हतानां च रणाजिरे ॥६-५७-१८॥
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् । तस्य तद् वचनं श्रुत्वा बलाध्यक्षा महाबलाः ॥६-५७-१९॥
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे । सा बभूव मुहूर्तेन भीमैर्नानाविधायुधैः ॥६-५७-२०॥
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला । हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ॥६-५७-२१॥
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ । स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥६-५७-२२॥
संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा । सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥६-५७-२३॥
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् । अथामन्त्र्य तु राजानं भेरीमाहत्य भैरवाम् ॥६-५७-२४॥
आरुरोह रथं युक्तः प्रहस्तः सज्जकल्पितम् । हयैर्महाजवैर्युक्तं सम्यक्सूतं सुसंयतम् ॥६-५७-२५॥
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् । उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ॥६-५७-२६॥
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया । ततस्तं रथमास्थाय रावणार्पितशासनः ॥६-५७-२७॥
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः । ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । वादित्राणां च निनदः पूरयन्निव मेदिनीम् ॥६-५७-२८॥
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ । निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः ॥६-५७-२९॥
भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः । नरान्तकः कुम्भहनुर्महानादः समुन्नतः । प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥६-५७-३०॥
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ । गजयूथनिकाशेन बलेन महता वृतः ॥६-५७-३१॥
सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ क्रुद्धः कालान्तकयमोपमः ॥६-५७-३२॥
तस्य निर्याणघोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥६-५७-३३॥
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः । मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥६-५७-३४॥
वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे । अन्तरिक्षात् पपातोल्का वायुश्च परुषं ववौ ॥६-५७-३५॥
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे । मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः ॥६-५७-३६॥
ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् । केतुमूर्धनि गृध्रस्तु विलीनो दक्षिणामुखः ॥६-५७-३७॥
नदन्नुभयतः पार्श्वं समग्रां श्रियमाहरत् । सारथेर्बहुशश्चास्य संग्राममवगाहतः ॥६-५७-३८॥
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः । निर्याणश्रीश्च या च स्याद् भास्वरा च सुदुर्लभा ॥६-५७-३९॥
सा ननाश मुहूर्तेन समे च स्खलिता हयाः । प्रहस्तं तं हि निर्यान्तं प्रख्यातगुणपौरुषम् । युधि नानाप्रहरणा कपिसेनाभ्यवर्तत ॥६-५७-४०॥
अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुर्वीर्वै गृह्णतां शिलाः ॥६-५७-४१॥
नदतां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥६-५७-४२॥
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् । परस्परं चाह्वयतां निनादः श्रूयते महान् ॥६-५७-४३॥
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः । विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥६-५७-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रहस्तयुद्धम् नाम सप्तपञ्चाशः सर्गः ॥६-५७॥