अकम्पनवधः

युद्धकाण्डः / अकम्पनवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे अकम्पनवधः नाम षट्पञ्चाशः सर्गः ॥६-५६॥
तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥६-५६-१॥
क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥६-५६-२॥
तत्रैव तावत् त्वरितो रथं प्रापय सारथे । एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे ॥६-५६-३॥
एते च बलवन्तो वा भीमकोपाश्च वानराः । द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥६-५६-४॥
एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम् ॥६-५६-५॥
ततः प्रचलिताश्वेन रथेन रथिनां वरः । हरीनभ्यपतद् दूराच्छरजालैरकम्पनः ॥६-५६-६॥
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः ॥६-५६-७॥
तान् मृत्युवशमापन्नानकम्पनशरानुगान् । समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥६-५६-८॥
तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः । समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥६-५६-९॥
व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः । बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥६-५६-१०॥
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥६-५६-११॥
अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः । अकम्पनवधार्थाय मनो दध्रे महाबलः ॥६-५६-१२॥
स प्रहस्य महातेजा हनूमान् मारुतात्मजः । अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥६-५६-१३॥
तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥६-५६-१४॥
आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः । शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥६-५६-१५॥
गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः । स विनद्य महानादं भ्रामयामास वीर्यवान् ॥६-५६-१६॥
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥६-५६-१७॥
अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥६-५६-१८॥
तं पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः ॥६-५६-१९॥
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥६-५६-२०॥
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः । प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥६-५६-२१॥
प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान् । हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम् ॥६-५६-२२॥
गजांश्च सगजारोहान् सरथान् रथिनस्तथा । जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥६-५६-२३॥
तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् । हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥६-५६-२४॥
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् । ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च ॥६-५६-२५॥
स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः । निर्बिभेद महावीर्यं हनूमन्तमकम्पनः ॥६-५६-२६॥
स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः । हनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥६-५६-२७॥
विरराज महावीर्यो महाकायो महाबलः । पुष्पिताशोकसंकाशो विधूम इव पावकः ॥६-५६-२८॥
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥६-५६-२९॥
स वृक्षेण हतस्तेन सक्रोधेन महात्मना । राक्षसो वानरेन्द्रेण पपात च ममार च ॥६-५६-३०॥
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥६-५६-३१॥
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः ॥६-५६-३२॥
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः । भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः ॥६-५६-३३॥
अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात् । पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥६-५६-३४॥
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥६-५६-३५॥
सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥६-५६-३६॥
विनेदुश्च यथाप्राणं हरयो जितकाशिनः । चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥६-५६-३७॥
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । महासुरं भीमममित्रनाशनं विष्णुर्यथैवोरुबलं चमूमुखे ॥६-५६-३८॥
अपूजयन् देवगणास्तदाकपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः । तथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा ॥६-५६-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अकम्पनवधः नाम षट्पञ्चाशः सर्गः ॥६-५६॥