अकम्पनयुद्धम्
युद्धकाण्डः / अकम्पनयुद्धम्
Script
Translation
Previous
वज्रदंष्ट्रवधः
Next
अकम्पनवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे अकम्पनयुद्धम् नाम पञ्चपञ्चाशः सर्गः ॥६-५५॥
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम् ॥६-५५-१॥
शीघ्रं निर्यान्तुदुर्धर्षा राक्षसा भीमविक्रमाः ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् ॥६-५५-२॥
एष शास्ता च गोप्ता च नेता च युधि सत्तमः ।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥६-५५-३॥
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
वानरांश्चापरान् घोरान् हनिष्यति न संशयः ॥६-५५-४॥
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥६-५५-५॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥६-५५-६॥
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम् ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥६-५५-७॥
राक्षसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः ।
नहि कम्पयितुं शक्यः सुरैरपि महामृधे ॥६-५५-८॥
अकम्पनस्ततस्तेषामादित्य इव तेजसा ।
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ॥६-५५-९॥
अकस्माद् दैन्यमागच्छद्धयानां रथवाहिनाम् ।
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ॥६-५५-१०॥
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ।
अभवत् सुदिने काले दुर्दिनं रूक्षमारुतम् ॥६-५५-११॥
ऊचुः खगमृगाः सर्वे वाचः क्रूरा भयावहाः ।
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ॥६-५५-१२॥
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ।
तथा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ॥६-५५-१३॥
बभूव सुमहान् नादः क्षोभयन्निव सागरम् ।
तेन शब्देन वित्रस्ता वानराणां महाचमूः ॥६-५५-१४॥
द्रुमशैलप्रहाराणां योद्धुं समुपतिष्ठताम् ।
तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम् ॥६-५५-१५॥
रामरावणयोरर्थे समभित्यक्तदेहिनः ।
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः ॥६-५५-१६॥
हरयो राक्षसाश्चैव परस्परजिघांसया ।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ॥६-५५-१७॥
शुश्रुवे सुमहान् कोपादन्योन्यमभिगर्जताम् ।
रजश्चारुणवर्णाभं सुभीममभवद् भृशम् ॥६-५५-१८॥
उद्धृतं हरिरक्षोभिः संरुरोध दिशो दश ।
अन्योन्यं रजसा तेन कौशेयोद्धतपाण्डुना ॥६-५५-१९॥
संवृतानि च भूतानि ददृशुर्न रणाजिरे ।
न ध्वजो न पताका वा चर्म वा तुरगोऽपि वा ॥६-५५-२०॥
आयुधं स्यन्दनो वापि ददृशे तेन रेणुना ।
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम् ॥६-५५-२१॥
श्रूयते तुमुलो युद्धे न रूपाणि चकाशिरे ।
हरीनेव सुसंरुष्टा हरयो जघ्नुराहवे ॥६-५५-२२॥
राक्षसा राक्षसांश्चापि निजघ्नुस्तिमिरे तदा ।
ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥६-५५-२३॥
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ।
ततस्तु रुधिरौघेण सिक्तं ह्यपगतं रजः ॥६-५५-२४॥
शरीरशवसंकीर्णा बभूव च वसुंधरा ।
द्रुमशक्तिगदाप्रासैः शिलापरिघतोमरैः ॥६-५५-२५॥
राक्षसा हरयस्तूर्णं जघ्नुरन्योन्यमोजसा ।
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमान् ॥६-५५-२६॥
हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे ।
राक्षसास्त्वभिसंक्रुद्धाः प्रासतोमरपाणयः ॥६-५५-२७॥
कपीन् निजघ्निरे तत्र शस्त्रैः परमदारुणैः ।
अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः ॥६-५५-२८॥
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ।
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ॥६-५५-२९॥
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ।
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ॥६-५५-३०॥
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ।
ते तु वृक्षैर्महावीरा राक्षसानां चमूमुखे ॥६-५५-३१॥
कदनं सुमहच्चक्रुर्लीलया हरिपुंगवाः ।
ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम् ॥६-५५-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अकम्पनयुद्धम् नाम पञ्चपञ्चाशः सर्गः ॥६-५५॥
Previous
वज्रदंष्ट्रवधः
Next
अकम्पनवधः