वज्रदंष्ट्रवधः
युद्धकाण्डः / वज्रदंष्ट्रवधः
Script
Translation
Previous
वज्रदंष्ट्रयुद्धम्
Next
अकम्पनयुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे वज्रदंष्ट्रवधः नाम चतुःपञ्चाशः सर्गः ॥६-५४॥
स्वबलस्य च घातेन अङ्गदस्य बलेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥६-५४-१॥
विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥६-५४-२॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥६-५४-३॥
वानराणां च शूरास्तु ते सर्वे प्लवगर्षभाः ।
अयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥६-५४-४॥
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥६-५४-५॥
वानराश्चैव रक्षःसु गिरिवृक्षान् महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसंनिभाः ॥६-५४-६॥
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् ।
तद् राक्षसगणानां च सुयुद्धं समवर्तत ॥६-५४-७॥
प्रभिन्नशिरसः केचिच्छिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः ॥६-५४-८॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कगृध्रबलाढ्याश्च गोमायुकुलसंकुलाः ॥६-५४-९॥
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै ।
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥६-५४-१०॥
वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले ।
ततो वानरसैन्येन हन्यमानं निशाचरम् ॥६-५४-११॥
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ।
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवंगमैः ॥६-५४-१२॥
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ।
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम् ॥६-५४-१३॥
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ।
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥६-५४-१४॥
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ।
त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः ।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥६-५४-१५॥
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ॥६-५४-१६॥
वज्रदंष्ट्रोऽङ्गदश्चोभौ योयुध्येते परस्परम् ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥६-५४-१७॥
ततः शतसहस्रेण हरिपुत्रं महाबलम् ।
जघान मर्मदेशेषु शरैरग्निशिखोपमैः ॥६-५४-१८॥
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥६-५४-१९॥
दृष्ट्वा पतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः ।
चिच्छेद बहुधा सोऽपि मथितः प्रापतद् भुवि ॥६-५४-२०॥
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥६-५४-२१॥
तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान् ।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥६-५४-२२॥
अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि ।
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥६-५४-२३॥
ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम् ।
वज्रदंष्ट्रस्य शिरसि पातयामास वानरः ॥६-५४-२४॥
अभवच्छोणितोद्गारी वज्रदंष्ट्रः सुमूर्च्छितः ।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ॥६-५४-२५॥
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥६-५४-२६॥
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत ।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥६-५४-२७॥
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥६-५४-२८॥
ततः परमतेजस्वी अङ्गदः प्लवगर्षभः ।
उत्पाट्य वृक्षं स्थितवानासीत् पुष्पफलैर्युतः ॥६-५४-२९॥
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।
किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् ॥६-५४-३०॥
चित्रांश्च रुचिरान् मार्गांश्चेरतुः कपिराक्षसौ ।
जघ्नतुश्च तदान्योन्यं नर्दन्तौ जयकांक्षिणौ ॥६-५४-३१॥
व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ ।
युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥६-५४-३२॥
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥६-५४-३३॥
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ॥६-५४-३४॥
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।
तच्च तस्य परीताक्षं शुभं खड्गहतं शिरः ॥६-५४-३५॥
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।
त्रस्ता ह्यभ्यद्रवँल्लङ्कां वध्यमानाः प्लवङ्गमैः ।
विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥६-५४-३६॥
निहत्य तं वज्रधरः प्रतापवान् स वालिसूनुः कपिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥६-५४-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे वज्रदंष्ट्रवधः नाम चतुःपञ्चाशः सर्गः ॥६-५४॥
Previous
वज्रदंष्ट्रयुद्धम्
Next
अकम्पनयुद्धम्