वज्रदंष्ट्रयुद्धम्

युद्धकाण्डः / वज्रदंष्ट्रयुद्धम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे वज्रदंष्ट्रयुद्धम् नाम त्रिपञ्चाशः सर्गः ॥६-५३॥
धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽऽविष्टो निःश्वसन्नुरगो यथा ॥६-५३-१॥
दीर्घमुष्णं विनिःश्वस्य क्रोधेन कलुषीकृतः । अब्रवीद् राक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ॥६-५३-२॥
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥६-५३-३॥
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः । निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥६-५३-४॥
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च बहुभिः समलंकृतः ॥६-५३-५॥
ततो विचित्रकेयूरमुकुटेन विभूषितः । तनुत्रं स समावृत्य सधनुर्निर्ययौ द्रुतम् ॥६-५३-६॥
पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम् । रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥६-५३-७॥
ऋष्टिभिस्तोमरैश्चित्रैः श्लक्ष्णैश्च मुसलैरपि । भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिशैरपि ॥६-५३-८॥
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥६-५३-९॥
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः । गजा महोत्कटाः शूराश्चलन्त इव पर्वताः ॥६-५३-१०॥
ते युद्धकुशला रूढास्तोमराङ्कुशपाणिभिः । अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥६-५३-११॥
तद् राक्षसबलं सर्वं विप्रस्थितमशोभत । प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥६-५३-१२॥
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ॥६-५३-१३॥
आकाशाद् विघनात् तीव्रा उल्काश्चाभ्यपतंस्तदा । वमन्तः पावकज्वालाः शिवा घोरा ववाशिरे ॥६-५३-१४॥
व्याहरन्त मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ॥६-५३-१५॥
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः । धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥६-५३-१६॥
तांस्तु विद्रवतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदुः सुमहानादान् दिशः शब्देन पूरयन् ॥६-५३-१७॥
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥६-५३-१८॥
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन् धरणीतले ॥६-५३-१९॥
केचिदन्योन्यमासाद्य शूराः परिघबाहवः । चिक्षिपुर्विविधान् शस्त्रान् समरेष्वनिवर्तिनः ॥६-५३-२०॥
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥६-५३-२१॥
रथनेमिस्वनस्तत्र धनुषश्चापि घोरवत् । शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥६-५३-२२॥
केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत ॥६-५३-२३॥
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि । जानुभिश्च हताः केचिद् भग्नदेहाश्च राक्षसाः । शिलाभिश्चूर्णिताः केचिद् वानरैर्युद्धदुर्मदैः ॥६-५३-२४॥
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन् । चचार लोकसंहारे पाशहस्त इवान्तकः ॥६-५३-२५॥
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे । जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधर्मूच्छिताः ॥६-५३-२६॥
जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे । क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥६-५३-२७॥
तान् राक्षसगणान् सर्वान् वृक्षमुद्यम्य वीर्यवान् । अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव ॥६-५३-२८॥
चकार कदनं घोरं शक्रतुल्यपराक्रमः । अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ॥६-५३-२९॥
विभिन्नशिरसः पेतुर्निकृत्ता इव पादपाः । रथैश्चित्रैर्ध्वजैरश्वैः शरीरैर्हरिरक्षसाम् ॥६-५३-३०॥
रुधिरौघेण संछन्ना भूमिर्भयकरी तदा । हारकेयूरवस्त्रैश्च शस्त्रैश्च समलंकृता ॥६-५३-३१॥
भूमिर्भाति रणे तत्र शारदीव यथा निशा । अङ्गदस्य च वेगेन तद् राक्षसबलं महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥६-५३-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे वज्रदंष्ट्रयुद्धम् नाम त्रिपञ्चाशः सर्गः ॥६-५३॥