धूम्राक्षवधः

युद्धकाण्डः / धूम्राक्षवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे धूम्राक्षवधः नाम द्विपञ्चाशः सर्गः ॥६-५२॥
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥६-५२-१॥
तेषां सुतुमुलं युद्धं संजज्ञे कपिरक्षसाम् । अन्योन्यं पादपैर्घोरैर्निघ्नतां शूलमुद्गरैः ॥६-५२-२॥
राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः । वानरै राक्षसाश्चापि द्रुमैर्भूमिसमीकृताः ॥६-५२-३॥
राक्षसास्त्वभिसंक्रुद्धा वानरान् निशितैः शरैः । विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥६-५२-४॥
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः । घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संश्रितैः ॥६-५२-५॥
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षजनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥६-५२-६॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥६-५२-७॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्थू राक्षसान् वीरान् नामानि च बभाषिरे ॥६-५२-८॥
तद् बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः ॥६-५२-९॥
राक्षसा मथिताः केचिद् वानरैर्जितकाशिभिः । प्रवेमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥६-५२-१०॥
पार्श्वेषु दारिताः केचित् केचिद् राशीकृता द्रुमैः । शिलाभिश्चूर्णिताः केचित् केचिद् दन्तैर्विदारिताः ॥६-५२-११॥
ध्वजैर्विमथितैर्भग्नैः खड्गैश्च विनिपातितैः । रथैर्विध्वंसितैः केचिद् व्यथिता रजनीचराः ॥६-५२-१२॥
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥६-५२-१३॥
वानरैर्भीमविक्रान्तैराप्लुत्योत्प्लुत्य वेगितैः । राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिदारिताः ॥६-५२-१४॥
विषण्णवदना भूयो विप्रकीर्णशिरोरुहाः । मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥६-५२-१५॥
अन्ये तु परमक्रुद्धा राक्षसा भीमविक्रमाः । तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥६-५२-१६॥
वानरैः पातयन्तस्ते वेगिता वेगवत्तरैः । मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥६-५२-१७॥
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः । रोषेण कदनं चक्रे वानराणां युयुत्सताम् ॥६-५२-१८॥
प्रासैः प्रमथिताः केचिद् वानराः शोणितस्रवाः । मुद्गरैराहताः केचित् पतिता धरणीतले ॥६-५२-१९॥
परिघैर्मथिताः केचिद् भिन्दिपालैश्च दारिताः । पट्टिशैर्मथिताः केचिद् विह्वलन्तो गतासवः ॥६-५२-२०॥
केचिद् विनिहता भूमौ रुधिरार्द्रा वनौकसः । केचिद् विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि ॥६-५२-२१॥
विभिन्नहृदयाः केचिदेकपार्श्वेन शायिताः । विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥६-५२-२२॥
तत् सुभीमं महद्युद्धं हरिराक्षससंकुलम् । प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम् ॥६-५२-२३॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् । मन्दस्तनितगीतं तद् युद्धगान्धर्वमाबभौ ॥६-५२-२४॥
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि । हसन् विद्रावयामास दिशस्ताञ्छरवृष्टिभिः ॥६-५२-२५॥
धूम्राक्षेणार्दितं सैन्यं व्यथितं प्रेक्ष्य मारुतिः । अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥६-५२-२६॥
क्रोधाद् द्विगुणताम्राक्षः पितुस्तुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥६-५२-२७॥
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात् । रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥६-५२-२८॥
सा प्रमथ्य रथं तस्य निपपात शिला भुवि । सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥६-५२-२९॥
स भङ्क्त्वा तु रथं तस्य हनूमान् मारुतात्मजः । रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥६-५२-३०॥
विभिन्नशिरसो भूत्वा राक्षसा रुधिरोक्षिताः । द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले ॥६-५२-३१॥
विद्राव्य राक्षसं सैन्यं हनूमान् मारुतात्मजः । गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥६-५२-३२॥
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तमभिद्रवत् ॥६-५२-३३॥
तस्य क्रुद्धस्य रोषेण गदां तां बहुकण्टकाम् । पातयामास धूम्राक्षो मस्तकेऽथ हनूमतः ॥६-५२-३४॥
ताडितः स तया तत्र गदया भीमवेगया । स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ॥६-५२-३५॥
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् । स विस्फारितसर्वाङ्गो गिरिशृङ्गेण ताडितः ॥६-५२-३६॥
पपात सहसा भूमौ विकीर्ण इव पर्वतः । धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः । त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः ॥६-५२-३७॥
स तु पवनसुतो निहत्य शत्रून् क्षतजवहाः सरितश्च संविकीर्य । रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिः सुपूज्यमानः ॥६-५२-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे धूम्राक्षवधः नाम द्विपञ्चाशः सर्गः ॥६-५२॥