धूम्राक्षाभिषेणनम्
युद्धकाण्डः / धूम्राक्षाभिषेणनम्
Script
Translation
Previous
नागपाशविमोक्षणम्
Next
धूम्राक्षवधः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे धूम्राक्षाभिषेणनम् नाम एकपञ्चाशः सर्गः ॥६-५१॥
तेषां तु तुमुलं शब्दं वानराणां महौजसाम् ।
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥६-५१-१॥
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम् ।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥६-५१-२॥
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः ।
बहूनां सुमहान् नादो मेघानामिव गर्जताम् ॥६-५१-३॥
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः ।
तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः ॥६-५१-४॥
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ ।
अयं च सुमहान् नादः शङ्कां जनयतीव मे ॥६-५१-५॥
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः ।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥६-५१-६॥
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम् ।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥६-५१-७॥
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च ।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥६-५१-८॥
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ ।
समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः ॥६-५१-९॥
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते ।
विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः ॥६-५१-१०॥
तदप्रियं दीनमुखा रावणस्य च राक्षसाः ।
कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः ॥६-५१-११॥
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥६-५१-१२॥
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे ।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥६-५१-१३॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः ।
चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् ॥६-५१-१४॥
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः ।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि ॥६-५१-१५॥
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम ।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥६-५१-१६॥
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः ।
आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम ॥६-५१-१७॥
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा ।
अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥६-५१-१८॥
बलेन महता युक्तो रक्षसां भीमविक्रम ।
त्वं वधायाशु निर्याहि रामस्य सह वानरैः ॥६-५१-१९॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता ।
परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात् ॥६-५१-२०॥
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह ।
त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः ॥६-५१-२१॥
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः ।
बलमुद्योजयामास रावणस्याज्ञया भृशम् ॥६-५१-२२॥
ते बद्धघण्टा बलिनो घोररूपा निशाचराः ।
विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥६-५१-२३॥
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि ॥६-५१-२४॥
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः ।
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥६-५१-२५॥
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः ।
सुवर्णजालविहितैः खरैश्च विविधाननैः ॥६-५१-२६॥
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः ।
निर्ययुर्नैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः ॥६-५१-२७॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषितैः ।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः ॥६-५१-२८॥
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः ।
हसन् वै पश्चिमद्वाराद्धनूमान् यत्र तिष्ठति ॥६-५१-२९॥
रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ।
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम् ॥६-५१-३०॥
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन् ।
रथशीर्षे महाभीमो गृध्रश्च निपपात ह ॥६-५१-३१॥
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि ॥६-५१-३२॥
विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः ।
ववर्ष रुधिरं देवः संचचाल च मेदिनी ॥६-५१-३३॥
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः ।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥६-५१-३४॥
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान् ।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥६-५१-३५॥
ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली ।
ददर्श तां राघवबाहुपालितां महौघकल्पां बहु वानरीं चमूम् ॥६-५१-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे धूम्राक्षाभिषेणनम् नाम एकपञ्चाशः सर्गः ॥६-५१॥
Previous
नागपाशविमोक्षणम्
Next
धूम्राक्षवधः