नागपाशविमोक्षणम्
युद्धकाण्डः / नागपाशविमोक्षणम्
Script
Translation
Previous
रामनिर्वेदः
Next
धूम्राक्षाभिषेणनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे नागपाशविमोक्षणम् नाम पञ्चाशः सर्गः ॥६-५०॥
अथोवाच महातेजा हरिराजो महाबलः ।
किमियं व्यथिता सेना मूढवातेव नौर्जले ॥६-५०-१॥
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।
न त्वं पश्यसि रामं च लक्ष्मणं च महारथम् ॥६-५०-२॥
शरजालाचितौ वीरावुभौ दशरथात्मजौ ।
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥६-५०-३॥
अथाब्रवीद् वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् ।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥६-५०-४॥
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः ।
पलायन्तेऽत्र हरयस्त्रासादुत्फुल्ललोचनाः ॥६-५०-५॥
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः ।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥६-५०-६॥
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः ।
सुग्रीवं वर्धयामास राघवं च जयाशिषा ॥६-५०-७॥
विभीषणं च सुग्रीवो दृष्ट्वा वानरभीषणम् ।
ऋक्षराजं महात्मानं समीपस्थमुवाच ह ॥६-५०-८॥
विभीषणोऽयं सम्प्राप्तो यं दृष्ट्वा वानरर्षभाः ।
द्रवन्त्यायतसंत्रासा रावणात्मजशङ्कया ॥६-५०-९॥
शीघ्रमेतान् सुसंत्रस्तान् बहुधा विप्रधावितान् ।
पर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥६-५०-१०॥
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः ।
वानरान् सान्त्वयामास संनिवर्त्य प्रधावतः ॥६-५०-११॥
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसाध्वसाः ।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥६-५०-१२॥
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् ।
लक्ष्मणस्य तु धर्मात्मा बभूव व्यथितस्तदा ॥६-५०-१३॥
जलक्लिन्नेन हस्तेन तयोर्नेत्रे विमृज्य च ।
शोकसम्पीडितमना रुरोद विललाप च ॥६-५०-१४॥
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ॥६-५०-१५॥
भ्रातृपुत्रेण चैतेन दुष्पुत्रेण दुरात्मना ।
राक्षस्या जिह्मया बुद्ध्या वञ्चितावृजुविक्रमौ ॥६-५०-१६॥
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥६-५०-१७॥
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया ।
ताविमौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥६-५०-१८॥
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः ।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥६-५०-१९॥
एवं विलपमानं तं परिष्वज्य विभीषणम् ।
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥६-५०-२०॥
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नेह संशयः ।
रावणः सह पुत्रेण स्वकामं नेह लप्स्यते ॥६-५०-२१॥
गरुडाधिष्ठितावेतावुभौ राघवलक्ष्मणौ ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥६-५०-२२॥
तमेवं सान्त्वयित्वा तु समाश्वास्य तु राक्षसम् ।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥६-५०-२३॥
सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥६-५०-२४॥
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् ।
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् ॥६-५०-२५॥
श्रुत्वैतद् वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ।
देवासुरं महायुद्धमनुभूतं पुरातनम् ॥६-५०-२६॥
तदा स्म दानवा देवान् शरसंस्पर्शकोविदान् ।
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥६-५०-२७॥
तानार्तान् नष्टसंज्ञांश्च गतासूंश्च बृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥६-५०-२८॥
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् ।
जवेन वानराः शीघ्रं सम्पातिपनसादयः ॥६-५०-२९॥
हरयस्तु विजानन्ति पार्वती ते महौषधी ।
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥६-५०-३०॥
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे ।
अमृतं यत्र मथितं तत्र ते परमौषधी ॥६-५०-३१॥
तौ तत्र विहितौ देवैः पर्वतौ तौ महोदधौ ।
अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु ॥६-५०-३२॥
एतस्मिन्नन्तरे वायुर्मेघाश्चापि सविद्युतः ।
पर्यस्य सागरे तोयं कम्पयन्निव पर्वतान् ॥६-५०-३३॥
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः ।
निपेतुर्भग्नविटपाः सलिले लवणाम्भसि ॥६-५०-३४॥
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः ।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥६-५०-३५॥
ततो मुहूर्ताद् गरुडं वैनतेयं महाबलम् ।
वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम् ॥६-५०-३६॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः ।
यैस्तु तौ पुरुषौ बद्धौ शरभूतैर्महाबलैः ॥६-५०-३७॥
ततः सुपर्णः काकुत्स्थौ स्पृष्ट्वा प्रत्यभिनन्द्य च ।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥६-५०-३८॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः ।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥६-५०-३९॥
तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः ।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणा तयोः ॥६-५०-४०॥
तावुत्थाप्य महातेजा गरुडो वासवोपमौ ।
उभौ च सस्वजे हृष्टो रामश्चैनमुवाच ह ॥६-५०-४१॥
भवत्प्रसादाद् व्यसनं रावणिप्रभवं महत् ।
उपायेन व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ ॥६-५०-४२॥
यथा तातं दशरथं यथाजं च पितामहम् ।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥६-५०-४३॥
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः ।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥६-५०-४४॥
तमुवाच महातेजा वैनतेयो महाबलः ।
पतत्त्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणम् ॥६-५०-४५॥
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः ।
गरुत्मानिह सम्प्राप्तो युवयोः साह्यकारणात् ॥६-५०-४६॥
असुरा वा महावीर्या दानवा वा महाबलाः ।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥६-५०-४७॥
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् ।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥६-५०-४८॥
एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्रा विषोल्बणाः ।
रक्षोमायाप्रभावेण शरभूतास्त्वदाश्रयाः ॥६-५०-४९॥
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम ।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥६-५०-५०॥
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः ।
सहसैवावयोः स्नेहात् सखित्वमनुपालयन् ॥६-५०-५१॥
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात् ।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥६-५०-५२॥
प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः ।
शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥६-५०-५३॥
तन्न विश्वसनीयं वो राक्षसानां रणाजिरे ।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥६-५०-५४॥
एवमुक्त्वा तदा रामं सुपर्णः स महाबलः ।
परिष्वज्य च सुस्निग्धमाप्रष्टुमुपचक्रमे ॥६-५०-५५॥
सखे राघव धर्मज्ञ रिपूणामपि वत्सल ।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथासुखम् ॥६-५०-५६॥
न च कौतूहलं कार्यं सखित्वं प्रति राघव ।
कृतकर्मा रणे वीर सखित्वं प्रतिवेत्स्यसि ॥६-५०-५७॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ।
रावणं तु रिपुं हत्वा सीतां त्वमुपलप्स्यसे ॥६-५०-५८॥
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।
रामं च नीरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥६-५०-५९॥
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।
जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥६-५०-६०॥
नीरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः ।
सिंहनादं तदा नेदुर्लाङ्गूलं दुधुवुश्च ते ॥६-५०-६१॥
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यवादयन् ।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥६-५०-६२॥
अपरे स्फोट्य विक्रान्ता वानरा नगयोधिनः ।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥६-५०-६३॥
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् ।
लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः ॥६-५०-६४॥
तेषां सुभीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् ।
क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥६-५०-६५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नागपाशविमोक्षणम् नाम पञ्चाशः सर्गः ॥६-५०॥
Previous
रामनिर्वेदः
Next
धूम्राक्षाभिषेणनम्