रामनिर्वेदः

युद्धकाण्डः / रामनिर्वेदः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे रामनिर्वेदः नाम एकोनपञ्चाशः सर्गः ॥६-४९॥
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥६-४९-१॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवमहाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥६-४९-२॥
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात् सत्त्वयोगाच्च शरैः संदानितोऽपि सन् ॥६-४९-३॥
ततो दृष्ट्वा सरुधिरं निषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥६-४९-४॥
किं नु मे सीतया कार्यं लब्धया जीवितेन वा । शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥६-४९-५॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता । न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥६-४९-६॥
परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥६-४९-७॥
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम् ॥६-४९-८॥
विवत्सां वेपमानां च वेपन्तीं कुररीमिव । कथमाश्वासयिष्यामि यदि यास्यामि तं विना ॥६-४९-९॥
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् । मया सह वनं यातो विना तेनाहमागतः ॥६-४९-१०॥
उपालम्भं न शक्ष्यामि सोढुमम्बासुमित्रया । इहैव देहं त्यक्ष्यामि नहि जीवितुमुत्सहे ॥६-४९-११॥
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥६-४९-१२॥
त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्तोऽसि मामार्तमभिभाषितुम् ॥६-४९-१३॥
येनाद्य बहवो युद्धे निहता राक्षसाः क्षितौ । तस्यामेवाद्य शूरस्त्वं शेषे विनिहतः शनैः ॥६-४९-१४॥
शयानः शरतल्पेऽस्मिन् सशोणितपरिस्रुतः । शरभूतस्ततो भासि भास्करोऽस्तमिव व्रजन् ॥६-४९-१५॥
बाणाभिहतमर्मत्वान्न शक्नोषीह भाषितुम् । रुजा चाब्रुवतो यस्य दृष्टिरागेण सूच्यते ॥६-४९-१६॥
यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥६-४९-१७॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः । इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥६-४९-१८॥
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं चापि श्रावितं तु कदाचन ॥६-४९-१९॥
विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ॥६-४९-२०॥
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥६-४९-२१॥
तत्तु मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ॥६-४९-२२॥
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि । मत्वा हीनं मया राजन् रावणोऽभिभविष्यति ॥६-४९-२३॥
अङ्गदं तु पुरस्कृत्य ससैन्यं सपरिच्छदम् । सागरं तर सुग्रीव नीलेन च नलेन च ॥६-४९-२४॥
कृतं हि सुमहत्कर्म यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥६-४९-२५॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा संख्ये घोरं सम्पातिना कृतम् ॥६-४९-२६॥
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः ॥६-४९-२७॥
न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयस्येन सुहृदा वा परं मम ॥६-४९-२८॥
कृतं सुग्रीव तत् सर्वं भवता धर्मभीरुणा । मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः ॥६-४९-२९॥
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुवुस्तस्य ये सर्वे वानराः परिदेवितम् ॥६-४९-३०॥
वर्तयांचक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥६-४९-३१॥
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्त्वरितं यत्र राघवः ॥६-४९-३२॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् ॥६-४९-३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे रामनिर्वेदः नाम एकोनपञ्चाशः सर्गः ॥६-४९॥