सीताश्वासनम्
युद्धकाण्डः / सीताश्वासनम्
Script
Translation
Previous
नागबद्धरामलक्ष्मणप्रदर्शनम्
Next
रामनिर्वेदः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सीताश्वासनम् नाम अष्टचत्वारिंशः सर्गः ॥६-४८॥
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् ।
विललाप भृशं सीता करुणं शोककर्शिता ॥६-४८-१॥
ऊचुर्लाक्षणिका ये मां पुत्रिण्यविधवेति च ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥६-४८-२॥
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥६-४८-३॥
वीरपार्थिवपत्नीनां ये विदुर्भर्तृपूजिताम् ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥६-४८-४॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् ।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥६-४८-५॥
इमानि खलु पद्मानि पादयोर्वै कुलस्त्रियः ।
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥६-४८-६॥
वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः ।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥६-४८-७॥
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः ।
तान्यद्य निहते रामे वितथानि भवन्ति मे ॥६-४८-८॥
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंहते मम ।
वृत्ते चारोमके जङ्घे दन्ताश्चाविरला मम ॥६-४८-९॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू समौ चितौ ।
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥६-४८-१०॥
स्तनौ चाविरलौ पीनौ मामकौ मग्नचूचुकौ ।
मग्ना चोत्सेधनी नाभिः पार्श्वोरस्कं च मे चितम् ॥६-४८-११॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च ।
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥६-४८-१२॥
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् ।
मन्दस्मितेत्येव च मां कन्यालाक्षणिका विदुः ॥६-४८-१३॥
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह ।
कृतान्तकुशलैरुक्तं तत् सर्वं वितथीकृतम् ॥६-४८-१४॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च ।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥६-४८-१५॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च ।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यत ॥६-४८-१६॥
अदृश्यमानेन रणे मायया वासवोपमौ ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥६-४८-१७॥
नहि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः ।
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥६-४८-१८॥
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः ।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥६-४८-१९॥
न शोचामि तथा रामं लक्ष्मणं च महारथम् ।
नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम् ॥६-४८-२०॥
सा तु चिन्तयते नित्यं समाप्तव्रतमागतम् ।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥६-४८-२१॥
परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत् ।
मा विषादं कृथा देवि भर्तायं तव जीवति ॥६-४८-२२॥
कारणनि च वक्ष्यामि महान्ति सदृशानि च ।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥६-४८-२३॥
नहि कोपपरीतानि हर्षपर्युत्सुकानि च ।
भवन्ति युधि योधानां मुखानि निहते पतौ ॥६-४८-२४॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः ।
दिव्यं त्वां धारयेन् नेदं यद्येतौ गतजीवितौ ॥६-४८-२५॥
हतवीरप्रधाना हि गतोत्साहा निरुद्यमा ।
सेना भ्रमति संख्येषु हतकर्णेव नौर्जले ॥६-४८-२६॥
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तपस्विनि ।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥६-४८-२७॥
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः ।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ॥६-४८-२८॥
अनृतं नोक्तपूर्वं मे न च वक्ष्यामि मैथिलि ।
चारित्रसुखशीलत्वात् प्रविष्टासि मनो मम ॥६-४८-२९॥
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः ।
तादृशं दर्शनं दृष्ट्वा मया चोदीरितं तव ॥६-४८-३०॥
इदं तु सुमहच्चित्रं शरैः पश्यस्व मैथिलि ।
विसंज्ञौ पतितावेतौ नैव लक्ष्मीर्विमुञ्चति ॥६-४८-३१॥
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् ।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥६-४८-३२॥
त्यज शोकं च दुःखं च मोहं च जनकात्मजे ।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥६-४८-३३॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा ।
कृताञ्जलिरुवाचेमामेवमस्त्विति मैथिली ॥६-४८-३४॥
विमानं पुष्पकं तत्तु संनिवर्त्य मनोजवम् ।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥६-४८-३५॥
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा ।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥६-४८-३६॥
प्रविश्य सीता बहुवृक्षखण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।
सम्प्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥६-४८-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सीताश्वासनम् नाम अष्टचत्वारिंशः सर्गः ॥६-४८॥
Previous
नागबद्धरामलक्ष्मणप्रदर्शनम्
Next
रामनिर्वेदः