नागबद्धरामलक्ष्मणप्रदर्शनम्
युद्धकाण्डः / नागबद्धरामलक्ष्मणप्रदर्शनम्
Script
Translation
Previous
सुग्रीवाद्यनुशोकः
Next
सीताश्वासनम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे नागबद्धरामलक्ष्मणप्रदर्शनम् नाम सप्तचत्वारिंशः सर्गः ॥६-४७॥
तस्मिन् प्रविष्टे लङ्कायां कृतार्थे रावणात्मजे ।
राघवं परिवार्याथ ररक्षुर्वानरर्षभाः ॥६-४७-१॥
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥६-४७-२॥
जाम्बवानृषभः स्कन्धो रम्भः शतबलिः पृथुः ।
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ॥६-४७-३॥
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥६-४७-४॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।
आजुहाव ततः सीतारक्षणी राक्षसीस्तदा ॥६-४७-५॥
राक्षस्यस्त्रिजटा चापि शासनात् तमुपस्थिताः ।
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥६-४७-६॥
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ ।
पुष्पकं तत्समारोप्य दर्शयध्वं रणे हतौ ॥६-४७-७॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठते ।
सोऽस्या भर्ता सह भ्रात्रा निहतो रणमूर्धनि ॥६-४७-८॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।
मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥६-४७-९॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।
अवेक्ष्य विनिवृत्ता सा चान्यां गतिमपश्यती ॥६-४७-१०॥
अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।
तस्य तद् वचनं श्रुत्वा रावणस्य दुरात्मनः ॥६-४७-११॥
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ॥६-४७-१२॥
अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ॥६-४७-१३॥
सीतामारोपयामासुर्विमानं पुष्पकं तदा ।
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ॥६-४७-१४॥
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।
रावणश्चारयामास पताकाध्वजमालिनीम् ॥६-४७-१५॥
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥६-४७-१६॥
विमानेनापि गत्वा तु सीता त्रिजटया सह ।
ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ॥६-४७-१७॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।
वानरांश्चातिदुःखार्तान् रामलक्ष्मणपार्श्वतः ॥६-४७-१८॥
ततः सीता ददर्शोभौ शयानौ शरतल्पगौ ।
लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ ॥६-४७-१९॥
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥६-४७-२०॥
तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुषर्षभौ ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥६-४७-२१॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।
दुःखार्ता करुणं सीता सुभृशं विललाप ह ॥६-४७-२२॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।
प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा ॥६-४७-२३॥
सबाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसुतप्रभावौ ।
वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥६-४७-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नागबद्धरामलक्ष्मणप्रदर्शनम् नाम सप्तचत्वारिंशः सर्गः ॥६-४७॥
Previous
सुग्रीवाद्यनुशोकः
Next
सीताश्वासनम्