सुग्रीवाद्यनुशोकः

युद्धकाण्डः / सुग्रीवाद्यनुशोकः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे सुग्रीवाद्यनुशोकः नाम षड्चत्वारिंशः सर्गः ॥६-४६॥
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥६-४६-१॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥६-४६-२॥
नीलश्च द्विविदो मैन्दः सुषेणः कुमुदोऽङ्गदः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥६-४६-३॥
अचेष्टौ मन्दनिःश्वासौ शोणितेन परिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पगौ ॥६-४६-४॥
निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तपनीयाविव ध्वजौ ॥६-४६-५॥
तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ । यूथपैः स्वैः परिवृतौ बाष्पव्याकुललोचनैः ॥६-४६-६॥
राघवौ पतितौ दृष्ट्वा शरजालसमन्वितौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥६-४६-७॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया छन्नं ददृशू रावणिं रणे ॥६-४६-८॥
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाग्रे भ्रातुः पुत्रमवस्थितम् । तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥६-४६-९॥
ददर्शान्तर्हितं वीरं वरदानाद् विभीषणः । तेजसा यशसा चैव विक्रमेण च संयुतः ॥६-४६-१०॥
इन्द्रजित् त्वात्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परमप्रीतो हर्षयन् सर्वराक्षसान् ॥६-४६-११॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ । सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ ॥६-४६-१२॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥६-४६-१३॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ॥६-४६-१४॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला । सोऽयं मूलहरोऽनर्थः सर्वेषां शमितो मया ॥६-४६-१५॥
रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥६-४६-१६॥
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपश्यतः । यूथपानपि तान् सर्वांस्ताडयत् स च रावणिः ॥६-४६-१७॥
नीलं नवभिराहत्य मैन्दं सद्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप परमेषुभिः ॥६-४६-१८॥
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश ॥६-४६-१९॥
गवाक्षं शरभं चैव तावप्यमितविक्रमौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥६-४६-२०॥
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥६-४६-२१॥
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्वः स रावणिः ॥६-४६-२२॥
तानर्दयित्वा बाणौघैस्त्रसयित्वा च वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥६-४६-२३॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥६-४६-२४॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमापन्नाः कर्मणा तेन हर्षिताः ॥६-४६-२५॥
विनेदुश्च महानादान् सर्वे ते जलदोपमाः । हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥६-४६-२६॥
निष्पन्दौ तु तदा दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥६-४६-२७॥
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः । प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैर्ऋतान् ॥६-४६-२८॥
रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते । सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥६-४६-२९॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥६-४६-३०॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवंप्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥६-४६-३१॥
सभाग्यशेषतास्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥६-४६-३२॥
पर्यवस्थापयात्मानमनाथं मां च वानर । सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥६-४६-३३॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः ॥६-४६-३४॥
ततः सलिलमादाय विद्यया परिजप्य च । सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः ॥६-४६-३५॥
विमृज्य वदनं तस्य कपिराजस्य धीमतः । अब्रवीत् कालसम्प्राप्तमसम्भ्रान्तमिदं वचः ॥६-४६-३६॥
न कालः कपिराजेन्द्र वैक्लव्यमवलम्बितुम् । अतिस्नेहोऽपि कालेऽस्मिन् मरणायोपकल्पते ॥६-४६-३७॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्तय ॥६-४६-३८॥
अथ वा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः । लब्धसंज्ञौ हि काकुत्स्थौ भयं नौ व्यपनेष्यतः ॥६-४६-३९॥
नैतत् किंचन रामस्य न च रामो मुमूर्षति । नह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥६-४६-४०॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत् सैन्यानि सर्वाणि पुनः संस्थापयाम्यहम् ॥६-४६-४१॥
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः । कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ॥६-४६-४२॥
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥६-४६-४३॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत् समाश्वासयत् पुनः ॥६-४६-४४॥
इन्द्रजित् तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥६-४६-४५॥
तत्र रावणमासाद्य अभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥६-४६-४६॥
उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ ॥६-४६-४७॥
उपाघ्राय च तं मूर्ध्नि पप्रच्छ प्रीतमानसः । पृच्छते च यथावृत्तं पित्रे तस्मै न्यवेदयत् ॥६-४६-४८॥
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥६-४६-४९॥
स हर्षवेगानुगतान्तरात्मा श्रुत्वा गिरं तस्य महारथस्य । जहौ ज्वरं दाशरथेः समुत्थं प्रहृष्टवाचाभिननन्द पुत्रम् ॥६-४६-५०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सुग्रीवाद्यनुशोकः नाम षड्चत्वारिंशः सर्गः ॥६-४६॥