नागपाशबन्धः

युद्धकाण्डः / नागपाशबन्धः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे नागपाशबन्धः नाम पञ्चचत्वारिंशः सर्गः ॥६-४५॥
स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दश वानरयूथपान् ॥६-४५-१॥
द्वौ सुषेणस्य दायादौ नीलं च प्लवगाधिपम् । अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥६-४५-२॥
द्विविदं च हनूमन्तं सानुप्रस्थं महाबलम् । ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥६-४५-३॥
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥६-४५-४॥
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः । अस्त्रवित् परमास्त्रस्तु वारयामास रावणिः ॥६-४५-५॥
तं भीमवेगा हरयो नाराचैः क्षतविक्षताः । अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥६-४५-६॥
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् । भृशमावेशयामास रावणिः समितिंजयः ॥६-४५-७॥
निरन्तरशरीरौ तु तावुभौ रामलक्ष्मणौ । क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥६-४५-८॥
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥६-४५-९॥
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः । रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥६-४५-१०॥
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥६-४५-११॥
प्रापिताविषुजालेन राघवौ कङ्कपत्रिणा । एष रोषपरीतात्मा नयामि यमसादनम् ॥६-४५-१२॥
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ । निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥६-४५-१३॥
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः । भूय एव शरान् घोरान् विससर्ज महामृधे ॥६-४५-१४॥
ततो मर्मसु मर्मज्ञो मज्जयन् निशितान् शरान् । रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥६-४५-१५॥
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि । निमेषान्तरमात्रेण न शेकतुरवेक्षितुम् ॥६-४५-१६॥
ततो विभिन्नसर्वाङ्गौ शरशल्याचितौ कृतौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥६-४५-१७॥
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ । निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥६-४५-१८॥
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥६-४५-१९॥
नह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् । नानिर्विण्णं न चाध्वस्तमाकराग्रादजिह्मगैः ॥६-४५-२०॥
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥६-४५-२१॥
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥६-४५-२२॥
रुक्मपुङ्खैः प्रसन्नाग्रै रजोगतिभिराशुगैः । नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि । विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥६-४५-२३॥
स वीरशयने शिश्येऽविज्यमाविध्य कार्मुकम् । भिन्नमुष्टिपरीणाहं त्रिनतं रुक्मभूषितम् ॥६-४५-२४॥
बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥६-४५-२५॥
रामं कमलपत्राक्षं शरण्यं रणतोषिणम् । शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ॥६-४५-२६॥
हरयश्चापि तं दृष्ट्वा संतापं परमं गताः । शोकार्ताश्चुक्रुशुर्घोरमश्रुपूरितलोचनाः ॥६-४५-२७॥
बद्धौ तु तौ वीरशये शयानौ ते वानराः सम्परिवार्य तस्थुः । समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥६-४५-२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नागपाशबन्धः नाम पञ्चचत्वारिंशः सर्गः ॥६-४५॥