निशायुद्धम्
युद्धकाण्डः / निशायुद्धम्
Script
Translation
Previous
द्वन्द्वयुद्धम्
Next
नागपाशबन्धः
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे निशायुद्धम् नाम चतुश्चत्वारिंशः सर्गः ॥६-४४॥
युध्यतामेव तेषां तु तदा वानररक्षसाम् ।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥६-४४-१॥
अन्योन्यं बद्धवैराणां घोराणं जयमिच्छताम् ।
सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥६-४४-२॥
राक्षसोऽसीति हरयो वानरोऽसीति राक्षसाः ।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥६-४४-३॥
हत दारय चैहीति कथं विद्रवसीति च ।
एवं सुतुमुलः शब्दस्तस्मिन् सैन्ये तु शुश्रुवे ॥६-४४-४॥
कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः ।
सम्प्रदृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥६-४४-५॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूिर्च्छताः ।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥६-४४-६॥
ते हयान् काञ्चनापीडान् ध्वजांश्चाशीविषोपमान् ।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥६-४४-७॥
वानरा बलिनो युद्धेऽक्षोभयन् राक्षसीं चमूम् ।
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान् ॥६-४४-८॥
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूिर्च्छताः ।
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ॥६-४४-९॥
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ।
तुरंगखुरविध्वस्तं रथनेमिसमुत्थितम् ॥६-४४-१०॥
रुरोध कर्णनेत्राणि युध्यतां धरणीरजः ।
वर्तमाने तथा घोरे संग्रामे लोमहर्षणे ।
रुधिरौघा महाघोरा नद्यस्तत्र विसुस्रुवुः ॥६-४४-११॥
ततो भेरीमृदङ्गानां पणवानां च निःस्वनः ।
शङ्खनेमिस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः ॥६-४४-१२॥
हतानां स्तनमानानां राक्षसानां च निःस्वनः ।
शस्तानां वानराणां च सम्बभूवात्र दारुणः ॥६-४४-१३॥
हतैर्वानरमुख्यैश्च शक्तिशूलपरश्वधैः ।
निहतैः पर्वताकारै राक्षसैः कामरूपिभिः ॥६-४४-१४॥
शस्त्रपुष्पोपहारा च तत्रासीद् युद्धमेदिनी ।
दुर्ज्ञेया दुर्निवेशा च शोणितास्त्रावकर्दमा ॥६-४४-१५॥
सा बभूव निशा घोरा हरिराक्षसहारिणी ।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥६-४४-१६॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।
राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः ॥६-४४-१७॥
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् ।
उद्वर्त इव सप्तानां समुद्राणामभूत् स्वनः ॥६-४४-१८॥
तेषां रामः शरैः षड्भिः षड् जघान निशाचरान् ।
निमेषान्तरमात्रेण शरैरग्निशिखोपमैः ॥६-४४-१९॥
यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥६-४४-२०॥
ते तु रामेण बाणौघैः सर्वमर्मसु ताडिताः ।
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥६-४४-२१॥
निमेषान्तरमात्रेण घोरैरग्निशिखोपमैः ।
दिशश्चकार विमलाः प्रदिशश्च महारथः ॥६-४४-२२॥
ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः ।
तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥६-४४-२३॥
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः समन्ततः ।
बभूव रजनी चित्रा खद्योतैरिव शारदी ॥६-४४-२४॥
राक्षसानां च निनदैर्भेरीणां चैव निःस्वनैः ।
सा बभूव निशा घोरा भूयो घोरतराभवत् ॥६-४४-२५॥
तेन शब्देन महता प्रवृद्धेन समन्ततः ।
त्रिकूटः कंदराकीर्णः प्रव्याहरदिवाचलः ॥६-४४-२६॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।
सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ॥६-४४-२७॥
अङ्गदस्तु रणे शत्रून् निहन्तुं समुपस्थितः ।
रावणिं निजघानाशु सारथिं च हयानपि ॥६-४४-२८॥
इन्द्रजित् तु रथं त्यक्त्वा हताश्वो हतसारथिः ।
अङ्गदेन महाकायस्तत्रैवान्तरधीयत ॥६-४४-२९॥
तत् कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥६-४४-३०॥
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।
ततस्ते तं महात्मानं दृष्ट्वा तुष्टाः प्रधर्षितम् ॥६-४४-३१॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।
साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं पराजितम् ॥६-४४-३२॥
इन्द्रजित् तु तदानेन निर्जितो भीमकर्मणा ।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥६-४४-३३॥
सोऽन्तर्धानगतः पापो रावणी रणकर्शितः ।
ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्च्छितः ॥६-४४-३४॥
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ।
रामं च लक्ष्मणं चैव घोरैर्नागमयैः शरैः ॥६-४४-३५॥
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ।
मायया संवृतस्तत्र मोहयन् राघवौ युधि ॥६-४४-३६॥
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥६-४४-३७॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।
सहसाभिहतौ वीरौ तदा प्रेक्षन्त वानराः ॥६-४४-३८॥
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ।
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा ॥६-४४-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे निशायुद्धम् नाम चतुश्चत्वारिंशः सर्गः ॥६-४४॥
Previous
द्वन्द्वयुद्धम्
Next
नागपाशबन्धः