द्वन्द्वयुद्धम्
युद्धकाण्डः / द्वन्द्वयुद्धम्
Script
Translation
Previous
युद्धारम्भः
Next
निशायुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे द्वन्द्वयुद्धम् नाम त्रिचत्वारिशः सर्गः ॥६-४३॥
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।
रक्षसां सम्बभूवाथ बलरोषः सुदारुणः ॥६-४३-१॥
ते हयैः काञ्चनापीडैर्गजैश्चाग्निशिखोपमैः ।
रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः ॥६-४३-२॥
निर्ययू राक्षसा वीरा नादयन्तो दिशो दश ।
राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥६-४३-३॥
वानराणामपि चमूर्बृहती जयमिच्छताम् ।
अभ्यधावत तां सेनां रक्षसां घोरकर्मणाम् ॥६-४३-४॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥६-४३-५॥
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।
अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः ॥६-४३-६॥
प्रजङ्घेन च सम्पातिर्नित्यं दुर्धर्षणो रणे ।
जम्बुमालिनमारब्धो हनूमानपि वानरः ॥६-४३-७॥
संगतस्तु महाक्रोधो राक्षसो रावणानुजः ।
समरे तीक्ष्णवेगेन शत्रुघ्नेन विभीषणः ॥६-४३-८॥
तपनेन गजः सार्धं राक्षसेन महाबलः ।
निकुम्भेन महातेजा नीलोऽपि समयुध्यत ॥६-४३-९॥
वानरेन्द्रस्तु सुग्रीवः प्रघसेन सुसंगतः ।
संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ॥६-४३-१०॥
अग्निकेतुः सुदुर्धर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥६-४३-११॥
वज्रमुष्टिश्च मैन्देन द्विविदेनाशनिप्रभः ।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥६-४३-१२॥
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।
समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥६-४३-१३॥
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः ।
स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥६-४३-१४॥
वानराश्चापरे घोरा राक्षसैरपरैः सह ।
द्वन्द्वं समीयुः सहसा युद्ध्वा च बहुभिः सह ॥६-४३-१५॥
तत्रासीत् सुमहद् युद्धं तुमुलं रोमहर्षणम् ।
रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥६-४३-१६॥
हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः ।
शरीरसंघाटवहाः प्रसुस्रुः शोणतापगाः ॥६-४३-१७॥
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः ।
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥६-४३-१८॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान गदया श्रीमानङ्गदो वेगवान् हरिः ॥६-४३-१९॥
सम्पातिस्तु प्रजङ्घेन त्रिभिर्बाणैः समाहतः ।
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥६-४३-२०॥
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥६-४३-२१॥
तस्य तं रथमास्थाय हनूमान् मारुतात्मजः ।
प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥६-४३-२२॥
नदन् प्रतपनो घोरो नलं सोऽभ्यनुधावत ।
नलः प्रतपनस्याशु पातयामास चक्षुषी ॥६-४३-२३॥
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ।
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ॥६-४३-२४॥
सुग्रीवः सप्तपर्णेन निजघान जवेन च ।
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ॥६-४३-२५॥
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः ।
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥६-४३-२६॥
तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः ।
क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥६-४३-२७॥
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।
पपात सरथः साश्वः पुराट्ट इव भूतले ॥६-४३-२८॥
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥६-४३-२९॥
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः ।
बिभेद समरे नीलं निकुम्भः प्रजहास च ॥६-४३-३०॥
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।
शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥६-४३-३१॥
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम् ।
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥६-४३-३२॥
द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे ।
शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥६-४३-३३॥
स शरैरभिविद्धाङ्गो द्विविदः क्रोधर्मूच्छितः ।
सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥६-४३-३४॥
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।
सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥६-४३-३५॥
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।
गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥६-४३-३६॥
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।
अपक्रम्य रथात् तूर्णं गदापाणिः क्षितौ स्थितः ॥६-४३-३७॥
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।
शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥६-४३-३८॥
तमापतन्तं गदया विद्युन्माली निशाचरः ।
वक्षस्यभिजघानाशु सुषेणं हरिपुङ्गवम् ॥६-४३-३९॥
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः ।
तां तूष्णीं पातयामास तस्योरसि महामृधे ॥६-४३-४०॥
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।
निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥६-४३-४१॥
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।
द्वन्द्वे विमथितास्तत्र दैत्या इव दिवौकसैः ॥६-४३-४२॥
भल्लैश्चान्यैर्गदाभिश्च शक्तितोमरसायकैः ।
अपविद्धैश्चापि रथैस्तथा सांग्रामिकैर्हयैः ॥६-४३-४३॥
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।
चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ॥६-४३-४४॥
बभूवायोधनं घोरं गोमायुगणसेवितम् ।
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।
विमर्दे तुमुले तस्मिन् देवासुररणोपमे ॥६-४३-४५॥
निहन्यमाना हरिपुङ्गवैस्तदा निशाचराः शोणितगन्धमूर्च्छिताः ।
पुनः सुयुद्धं तरसा समाश्रिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥६-४३-४६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वन्द्वयुद्धम् नाम त्रिचत्वारिशः सर्गः ॥६-४३॥
Previous
युद्धारम्भः
Next
निशायुद्धम्