युद्धारम्भः
युद्धकाण्डः / युद्धारम्भः
Script
Translation
Previous
अङ्गददूत्यम्
Next
द्वन्द्वयुद्धम्
अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे युद्धारम्भः नाम द्विचत्वारिंशः सर्गः ॥६-४२॥
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् ।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ॥६-४२-१॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः ।
विधानं द्विगुणं कृत्वा प्रासादं चाप्यरोहत ॥६-४२-२॥
स ददर्श वृतां लङ्कां सशैलवनकाननाम् ।
असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥६-४२-३॥
स दृष्ट्वा वानरैः सर्वैर्वसुधां कपिलीकृताम् ।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥६-४२-४॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः ।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥६-४२-५॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे ।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥६-४२-६॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम सहसा सीतां दूयमानेन चेतसा ॥६-४२-७॥
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा ।
पीड्यते शोकसंतप्ता कृशा स्थण्डिलशायिनी ॥६-४२-८॥
निपीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् ।
क्षिप्रमाज्ञापयद् रामो वानरान् द्विषतां वधे ॥६-४२-९॥
एवमुक्ते तु वचसि रामेणाक्लिष्टकर्मणा ।
संघर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥६-४२-१०॥
शिखरैर्विकिरामैतां लङ्कां मुष्टिभिरेव वा ।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥६-४२-११॥
उद्यम्य गिरिशृङ्गाणि महान्ति शिखराणि च ।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥६-४२-१२॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः ।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥६-४२-१३॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः ।
लङ्कामेवाभ्यवर्तन्त सालभूधरयोधिनः ॥६-४२-१४॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः ।
प्राकाराग्राण्यसंख्यानि ममन्थुस्तोरणानि च ॥६-४२-१५॥
परिखान् पूरयन्तश्च प्रसन्नसलिलाशयान् ।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥६-४२-१६॥
ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः ।
कोटियूथशताश्चान्ये लङ्कामारुरुहुस्तदा ॥६-४२-१७॥
काञ्चनानि प्रमर्दन्तस्तोरणानि प्लवंगमाः ।
कैलासशिखराग्राणि गोपुराणि प्रमथ्य च ॥६-४२-१८॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।
लङ्कां तामभिधावन्ति महावारणसंनिभाः ॥६-४२-१९॥
जयत्युरुबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥६-४२-२०॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः ।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥६-४२-२१॥
वीरबाहुः सुबाहुश्च नलश्च पनसस्तथा ।
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः ।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥६-४२-२२॥
पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः ।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥६-४२-२३॥
सहायार्थे तु तस्यैव निविष्टः प्रघसो हरिः ।
पनसश्च महाबाहुर्वानरैरभिसंवृतः ॥६-४२-२४॥
दक्षिणद्वारमासाद्य वीरः शतबलिः कपिः ।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥६-४२-२५॥
सुषेणः पश्चिमद्वारं गत्वा तारापिता बली ।
आवृत्य बलवांस्तस्थौ कोटिकोटिभिरावृतः ॥६-४२-२६॥
उत्तरद्वारमागम्य रामः सौमित्रिणा सह ।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥६-४२-२७॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शना ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥६-४२-२८॥
ऋक्षाणां भीमकोपानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥६-४२-२९॥
संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः ।
वृतो यत्तैस्तु सचिवैस्तस्थौ यत्र महाबलः ॥६-४२-३०॥
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥६-४२-३१॥
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः ।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत् तदा ॥६-४२-३२॥
एतच्छ्रुत्वा तदा वाक्यं रावणस्य मुखेरितम् ।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥६-४२-३३॥
ततः प्रबोधिता भेर्यश्चन्द्रपाण्डुरपुष्कराः ।
हेमकोणैरभिहता राक्षसानां समन्ततः ॥६-४२-३४॥
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः ।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥६-४२-३५॥
ते बभुः शुभनीलाङ्गाः सशङ्खा रजनीचराः ।
विद्युन्मण्डलसंनद्धाः सबलाका इवाम्बुदाः ॥६-४२-३६॥
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः ।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥६-४२-३७॥
ततो वानरसैन्येन मुक्तो नादः समन्ततः ।
मलयः पूरितो येन ससानुप्रस्थकन्दरः ॥६-४२-३८॥
शङ्खदुन्दुभिनिर्घोषः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरं चाभ्यनादयत् ॥६-४२-३९॥
गजानां बृंहितैः सार्धं हयानां ह्रेषितैरपि ।
रथानां नेमिनिर्घोषै रक्षसां वदनस्वनैः ॥६-४२-४०॥
एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत ।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥६-४२-४१॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः ।
निजघ्नुर्वानरान् सर्वान् कथयन्तः स्वविक्रमान् ॥६-४२-४२॥
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः ।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिनः ॥६-४२-४३॥
राजा जयति सुग्रीव इति शब्दो महानभूत् ।
राजञ्जयजयेत्युक्त्वा स्वस्वनामकथां ततः ॥६-४२-४४॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीं गतान् ।
वानरान् भिन्दिपालैश्च शूलैश्चैव व्यदारयन् ॥६-४२-४५॥
वानराश्चापि संक्रुद्धाः प्राकारस्थान् महीं गताः ।
राक्षसान् पातयामासुः खमाप्लुत्य स्वबाहुभिः ॥६-४२-४६॥
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः ।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥६-४२-४७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे युद्धारम्भः नाम द्विचत्वारिंशः सर्गः ॥६-४२॥
Previous
अङ्गददूत्यम्
Next
द्वन्द्वयुद्धम्