अङ्गददूत्यम्

युद्धकाण्डः / अङ्गददूत्यम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डे अङ्गददूत्यम् नाम एकचत्वारिंशः सर्गः ॥६-४१॥
अथ तस्मिन् निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य रामो वचनमब्रवीत् ॥६-४१-१॥
असम्मन्त्र्य मया सार्धं तदिदं साहसं कृतम् । एवं साहसयुक्तानि न कुर्वन्ति जनेश्वराः ॥६-४१-२॥
संशये स्थाप्य मां चेदं बलं चेमं विभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥६-४१-३॥
इदानीं मा कृथा वीर एवंविधमरिंदम । त्वयि किंचित्समापन्ने किं कार्यं सीतया मम ॥६-४१-४॥
भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥६-४१-५॥
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥६-४१-६॥
हत्वाहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य च लङ्कायां विभीषणमथापि च ॥६-४१-७॥
भरते राज्यमारोप्य त्यक्ष्ये देहं महाबल । तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ॥६-४१-८॥
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् । मर्षयामि कथं वीर जानन् विक्रममात्मनः ॥६-४१-९॥
इत्येवं वादिनं वीरमभिनन्द्य च राघवः । लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥६-४१-१०॥
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठाम लक्ष्मण ॥६-४१-११॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥६-४१-१२॥
वाता हि परुषं वान्ति कम्पते च वसुंधरा । पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः ॥६-४१-१३॥
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वराः । क्रूराः क्रूरं प्रवर्षन्ते मिश्रं शोणितबिन्दुभिः ॥६-४१-१४॥
रक्तचन्दनसंकाशा संध्या परमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥६-४१-१५॥
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥६-४१-१६॥
रजन्यामप्रकाशश्च संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये ॥६-४१-१७॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते ॥६-४१-१८॥
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥६-४१-१९॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशुभा वाचः प्रवदन्ति महास्वनाः ॥६-४१-२०॥
शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥६-४१-२१॥
क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥६-४१-२२॥
इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः ॥६-४१-२३॥
अवतीर्य तु धर्मात्मा तस्माच्छैलात् स राघवः । परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥६-४१-२४॥
संनह्य तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥६-४१-२५॥
ततः काले महाबाहुर्बलेन महता वृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥६-४१-२६॥
तं विभीषणसुग्रीवौ हनूमाञ्जाम्बवान् नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥६-४१-२७॥
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥६-४१-२८॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥६-४१-२९॥
तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिंदमौ ॥६-४१-३०॥
पताकामालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ॥६-४१-३१॥
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः । यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः ॥६-४१-३२॥
लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप च रुरोध च ॥६-४१-३३॥
लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः । लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् ॥६-४१-३४॥
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः । नान्यो रामाद्धि तद् द्वारं समर्थः परिरक्षितुम् ॥६-४१-३५॥
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् । सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः ॥६-४१-३६॥
लघूनां त्रासजननं पातालमिव दानवैः । विन्यस्तानि च योधानां बहूनि विविधानि च ॥६-४१-३७॥
ददर्शायुधजालानि तथैव कवचानि च । पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः ॥६-४१-३८॥
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् । अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः ॥६-४१-३९॥
ऋषभेण गवाक्षेण गजेन गवयेन च । हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः ॥६-४१-४०॥
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च संगतः । मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत ॥६-४१-४१॥
सह सर्वैर्हरिश्रेष्ठैः सुपर्णपवनोपमैः । वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः ॥६-४१-४२॥
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः । शासनेन तु रामस्य लक्ष्मणः सविभीषणः ॥६-४१-४३॥
द्वारे द्वारे हरीणां तु कोटिं कोटीर्न्यवेशयत् । पश्चिमेन तु रामस्य सुषेणः सहजाम्बवान् ॥६-४१-४४॥
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ॥६-४१-४५॥
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः । सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥६-४१-४६॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥६-४१-४७॥
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥६-४१-४८॥
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः । तत्र वानरसैन्यानां शलभानामिवोद्गमः ॥६-४१-४९॥
परिपूर्णमिवाकाशं सम्पूर्णेव च मेदिनी । लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥६-४१-५०॥
शतं शतसहस्राणां पृतनर्क्षवनौकसाम् । लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥६-४१-५१॥
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः । अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ॥६-४१-५२॥
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः । सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना ॥६-४१-५३॥
राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः । वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः ॥६-४१-५४॥
महाञ्छब्दोऽभवत् तत्र बलौघस्याभिवर्ततः । सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ॥६-४१-५५॥
तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना ॥६-४१-५६॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥६-४१-५७॥
राघवः संनिवेश्यैवं स्वसैन्यं रक्षसां वधे । सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः ॥६-४१-५८॥
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । विभीषणस्यानुमते राजधर्ममनुस्मरन् ॥६-४१-५९॥
अङ्गदं वालितनयं समाहूयेदमब्रवीत् । गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात् कपे ॥६-४१-६०॥
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः । भ्रष्टश्रीकं गतैश्वर्यं मुमूर्षानष्टचेतनम् ॥६-४१-६१॥
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा । नागानामथ यक्षाणां राज्ञां च रजनीचर ॥६-४१-६२॥
यच्च पापं कृतं मोहादवलिप्तेन राक्षस । नूनं ते विगतो दर्पः स्वयंभूवरदानजः । तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा ॥६-४१-६३॥
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ॥६-४१-६४॥
पदवीं देवतानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेषां गमिष्यसि युधि स्थिरः ॥६-४१-६५॥
बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रमयित्वा त्वं हृतवांस्तन्निदर्शय ॥६-४१-६६॥
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । न चेच्छरणमभ्येषि तामादाय तु मैथिलीम् ॥६-४१-६७॥
धर्मात्मा राक्षसश्रेष्ठः सम्प्राप्तोऽयं विभीषणः । लङ्कैश्वर्यमिदं श्रीमान् ध्रुवं प्राप्नोत्यकण्टकम् ॥६-४१-६८॥
नहि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥६-४१-६९॥
युध्यस्व मा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥६-४१-७०॥
यद्याविशसि लोकांस्त्रीन् पक्षीभूतो निशाचर । मम चक्षुःपथं प्राप्य न जीवन् प्रतियास्यसि ॥६-४१-७१॥
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥६-४१-७२॥
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥६-४१-७३॥
सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥६-४१-७४॥
ततस्तस्याविदूरेण निपत्य हरिपुंगवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥६-४१-७५॥
तद् रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥६-४१-७६॥
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥६-४१-७७॥
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यस्व नृशंस पुरुषो भव ॥६-४१-७८॥
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥६-४१-७९॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥६-४१-८०॥
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥६-४१-८१॥
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः ॥६-४१-८२॥
ततः स रोषमापन्नः शशास सचिवांस्तदा । गृह्यतामिति दुर्मेधा वध्यतामिति चासकृत् ॥६-४१-८३॥
रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा । जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥६-४१-८४॥
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् । बलं दर्शयितुं वीरो यातुधानगणे तदा ॥६-४१-८५॥
स तान् बाहुद्वयासक्तानादाय पतगानिव । प्रासादं शैलसंकाशमुत्पपाताङ्गदस्तदा ॥६-४१-८६॥
तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः । भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥६-४१-८७॥
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् । चक्राम राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥६-४१-८८॥
पफाल च तदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः शृङ्गं वज्रेणेव विदारितम् ॥६-४१-८९॥
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसा ॥६-४१-९०॥
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥६-४१-९१॥
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन् निःश्वासपरमोऽभवत् ॥६-४१-९२॥
रामस्तु बहुभिर्हृष्टैर्विनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥६-४१-९३॥
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥६-४१-९४॥
स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः । पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥६-४१-९५॥
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥६-४१-९६॥
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे । अपरे समरे हर्षाद्धर्षमेवोपपेदिरे ॥६-४१-९७॥
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् । हाहाकारमकुर्वन्त राक्षसा भयमागताः ॥६-४१-९८॥
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजयोधाः । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥६-४१-९९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अङ्गददूत्यम् नाम एकचत्वारिंशः सर्गः ॥६-४१॥